श्रीलिङ्गमहापुराण -[पूर्वभाग] -108
॥ श्रीसाम्बसदाशिवाय नमः ॥
एक सौ आठवाँ अध्याय
भगवान् श्रीकृष्ण का गुरु उपमन्यु के आश्रम में जाना और उनसे पाशुपतज्ञान प्राप्त करना तथा पाशुपतव्रत का माहात्म्य
श्रीलिङ्गमहापुराणे पूर्वभागे अष्टोत्तरशततमोऽध्यायः
पाशुपातव्रत माहात्म्य वर्णनं
॥ ऋषय ऊचुः ॥
दृष्टोऽसौ वासुदेवेन कृष्णेनाक्लिष्टकर्मणा ।
धौम्याग्रजस्ततो लब्धं दिव्यं पाशुपतं व्रतम् ॥ १ ॥
कथं लब्धं तदा ज्ञानं तस्मात् कृष्णेन धीमता ।
वक्तुमर्हसि तां सूत कथां पातकनाशिनीम् ॥ २ ॥
॥ सूत उवाच ॥
स्वेच्छया ह्यवतीर्णोऽपि वासुदेवः सनातनः ।
निन्दयन्नेव मानुष्यं देहशुद्धिं चकार सः ॥ ३ ॥
पुत्रार्थं भगवांस्तत्र तपस्तप्तुं जगाम च ।
आश्रमं चोपमन्योर्वै दृष्टवांस्तत्र तं मुनिम् ॥ ४ ॥
नमश्चकार तं दृष्ट्वा धौम्याग्रजमहो द्विजाः ।
बहुमानेन वै कृष्णस्त्रिः कृत्वा वै प्रदक्षिणम् ॥ ५ ॥
तस्यावलोकनादेव मुनेः कृष्णस्य धीमतः ।
नष्टमेव मलं सर्वं कायजं कर्म्मजं तथा ॥ ६ ॥
भस्मनोद्धूलनं कृत्वा उपमन्युर्महाद्युतिः ।
तमग्निरिति विप्रेन्द्रा वायुरित्यादिभिः क्रमात् ॥ ७ ॥
दिव्यं पाशुपतं ज्ञानं प्रददौ प्रीतमानसः ।
मुनेः प्रसादान्मान्योऽसौ कृष्णः पाशुपते द्विजाः ॥ ८ ॥
तपसा त्वेकवर्षान्ते दृष्ट्वा देवं महेश्वरम् ।
साम्बं सगणमव्यग्रं लब्धवान्पुत्रमात्मनः ॥ ९ ॥
तदाप्रभृति तं कृष्णं मुनयः संशितव्रताः ।
दिव्याः पाशुपताः सर्वे तस्थुः संवृत्य सर्वदा ॥ १० ॥
अन्यं च कथयिष्यामि मुक्त्यर्थं प्राणिनां सदा ।
सौवर्णीं मेखलां कृत्वा आधारं दण्डधारणम् ॥ ११ ॥
सौवर्णं पिण्डिकं चापि व्यजनं दण्डमेव च ।
नरैः स्त्रियाथ वा कार्यं मषीभाजनलेखनीम् ॥ १२ ॥
क्षुराः कर्तरिका चापि अथ पात्रमथापि वा ।
पाशुपताय दातव्यं भस्मोद्धूलितविग्रहैः ॥ १३ ॥
सौवर्णं राजतं वापि ताम्रं वाथ निवेदयेत् ।
आत्मवित्तानुसारेण योगिनं पूजयेद् बुधः ॥ १४ ॥
ते सर्वे पापनिर्मुक्ताः समस्तकुलसंयुताः ।
यान्ति रुद्रपदं दिव्यं नात्र कार्या विचारणा ॥ १५ ॥
तस्मादनेन दानेन गृहस्थो मुच्यते भवात् ।
योगिनां सम्प्रदानेन शिवः क्षिप्रं प्रसीदति ॥ १६ ॥
राज्यं पुत्रं धनं भव्यमश्वं यानमथापि वा ।
सर्वस्वं वापि दातव्यं यदीच्छेन्मोक्षमुत्तमम् ॥ १७ ॥
अध्रुवेण शरीरेण ध्रुवं साध्यं प्रयत्नतः ।
भव्यं पाशुपतं नित्यं संसारार्णवतारकम् ॥ १८ ॥
एतद्वः कथितं सर्वं सङ्क्षेपान्न च संशयः ।
यः पठेच्छृणुयाद्वापि विष्णुलोकं स गच्छति ॥ १९ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे पाशुपातव्रत
माहात्म्य वर्णनं अष्टोत्तरशततमोऽध्यायः ॥ १०८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें