श्रीलिङ्गमहापुराण -[पूर्वभाग] -106
॥ श्रीसाम्बसदाशिवाय नमः ॥
एक सौ छठा अध्याय
दारुकासुर के विनाश के लिये भगवान् शिव द्वारा अपने शरीर से काली तथा अष्टभैरवों को प्रकट करना एवं शिवताण्डव नृत्य की कथा
श्रीलिङ्गमहापुराणे पूर्वभागे षडधिकशततमोऽध्यायः
शिवताण्डवकथनं
॥ ऋषय ऊचुः ॥
नृत्यारम्भः कथं शम्भोः किमर्थं वा यथातथम् ।
वक्तुमर्हसि चास्माकं श्रुतः स्कन्दाग्रजोद्भवः ॥ १ ॥
॥ सूत उवाच ॥
दारुकोऽसुरसम्भूतस्तपसा लब्धविक्रमः ।
सूदयामास कालाग्निरिव देवान् द्विजोत्तमान् ॥ २ ॥
दारुकेण तदा देवास्ताडिताः पीडिता भृशम् ।
ब्रह्माणं च तथेशानं कुमारं विष्णुमेव च ॥ ३ ॥
यममिन्द्रमनुप्राप्य स्त्रीवध्य इति चासुरः ।
स्त्रीरूपधारिभिः स्तुत्यैर्ब्रह्माद्यैर्युधि संस्थितैः ॥ ४ ॥
बाधितास्तेन ते सर्वे ब्रह्माणं प्राप्य वै द्विजाः ।
विज्ञाप्य तस्मै तत्सर्वं तेन सार्धमुमापतिम् ॥ ५ ॥
सम्प्राप्य तुष्टुवुः सर्वे पितामहपुरोगमाः ।
ब्रह्मा प्राप्य च देवेशं प्रणम्य बहुधा नतः ॥ ६ ॥
दारुणो भगवान् दारुः पूर्वं तेन विनिर्जिताः ।
निहत्य दारुकं दैत्यं स्त्रीवध्यं त्रातुमर्हसि ॥ ७ ॥
विज्ञप्तिं ब्रह्मणः श्रुत्वा भगवान् भगनेत्रहा ।
देवीमुवाच देवेशो गिरिजां प्रहसन्निव ॥ ८ ॥
भवतीं प्रार्थयाम्यद्य हिताय जगतां शुभे ।
वधार्थं दारुकस्यास्य स्त्रीवध्यस्य वरानने ॥ ९ ॥
अथ सा तस्य वचनं निशम्य जगतोऽरणिः ।
विवेश देहे देवस्य देवेशी जन्मतत्परा ॥ १० ॥
एकेनांशेन देवेशं प्रविष्टा देवसत्तमम् ।
न विवेद तदा ब्रह्मा देवाश्चेन्द्रपुरोगमाः ॥ ११ ॥
गिरिजां पूर्ववच्छंभोर्दृष्ट्वा पार्श्वस्थितां शुभाम् ।
मायया मोहितस्तस्याः सर्वज्ञोऽपि चतुर्मुखः ॥ १२ ॥
सा प्रविष्टा तनुं तस्य देवदेवस्य पार्वती ।
कण्ठस्थेन विषेणास्य तनुं चक्रे तदात्मनः ॥ १३ ॥
तां च ज्ञात्वा तथाभूतां तृतीयेनेक्षणेन वै ।
ससर्ज कालीं कामारिः कालकण्ठीं कपर्दिनीम् ॥ १४ ॥
जाता यदा कालिमकालकण्ठी जाता तदानीं विपुला जयश्रीः ।
देवेतराणामजयस्त्वसिद्ध्या तुष्टिर्भवान्याः परमेश्वरस्य ॥ १५ ॥
जातां तदानीं सुरसिद्धसङ्घा दृष्ट्वा भयाद्दुद्रुवुरग्निकल्पाम् ।
कालीं गरालङ्कृतकालकण्ठीमुपेन्द्रपद्मोद्भवशक्रमुख्याः ॥ १६ ॥
तथैव जातं नयनं ललाटे सितांशुलेखा च शिरस्युदग्रा ।
कण्ठे करालं निशितं त्रिशूलं करे करालं च विभूषणानि ॥ १७ ॥
सार्धं दिव्यांबरा देव्यः सर्वाभरणभूषिताः ।
सिद्धेन्द्रसिद्धाश्च तथा पिशाचा जज्ञिरे पुनः ॥ १८ ॥
आज्ञया दारुकं तस्याः पार्वत्याः परमेश्वरी ।
दानवं सूदयामास सूदयन्तं सुराधिपान् ॥ १९ ॥
संरम्भातिप्रसङ्गाद्वै तस्याः सर्वमिदं जगत् ।
क्रोधाग्निना च विप्रेन्द्राः सम्बभूव तदातुरम् ॥ २० ॥
भवोऽपि बालरूपेण श्मशाने प्रेतसङ्कुले ।
रुरोद मायया तस्याः क्रोधाग्निं पातुमीश्वरः ॥ २१ ॥
तं दृष्ट्वा बालमीशानं मायया तस्य मोहिता ।
उत्थाप्याघ्राय वक्षोजं स्तनं सा प्रददौ द्विजाः ॥ २२ ॥
स्तनजेन तदा सार्धं कोपमस्याः पपौ पुनः ।
क्रोधेनानेन वै बालः क्षेत्राणां रक्षकोऽभवत् ॥ २३ ॥
मूर्तयोऽष्टौ च तस्यापि क्षेत्रपालस्य धीमतः ।
एवं वै तेन बालेन कृता सा क्रोधमूर्च्छिता ॥ २४ ॥
कृतमस्याः प्रसादार्थं देवदेवेन ताण्डवम् ।
सन्ध्यायां सर्वभूतेन्द्रैः प्रेतैः प्रीतेन शूलिना ॥ २५ ॥
पीत्वा नृत्यामृतं शम्भोराकण्ठं परमेश्वरी ।
ननर्त सा च योगिन्यः प्रेतस्थाने यथासुखम् ॥ २६ ॥
तत्र सब्रह्मका देवाः सेन्द्रोपेन्द्राः समन्ततः ।
प्रणेमुस्तुष्टुवुः कालीं पुनर्देवीं च पार्वतीम् ॥ २७ ॥
एवं सङ्क्षेपतः प्रोक्तं ताण्डवं शूलिनः प्रभोः ।
योगानन्देन च विभोस्ताण्डवं चेति चापरे ॥ २८ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवताण्डवकथनं नाम षडधिकशततमोऽध्यायः ॥ १०६ ॥
See Also:-
1. दारुकावन में राक्षसों के उपद्रव एवं सुप्रिय वैश्य की शिवभक्ति का वर्णन
2. नागेश्वर ज्योतिर्लिंग की उत्पत्ति एवं उसके माहात्म्य का वर्णन

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें