श्रीगणेशपुराणे क्रीडाखण्डे सप्ततितमोऽध्यायः
बालचरिते पुरप्रवेशो
॥ क उवाच ॥
एवं वदति यावत्स भयभ्रान्तः सुरान्तकः ।
तावद् देवो दधारैनमुत्सङ्गे लघुबालवत् ॥ १ ॥
कृत्वा पद्मासनं चारु गणेशः स्वप्रभावतः ।
उवाच चैनं दैत्येन्द्रं वरं स्मर निजं शुभम् ॥ २ ॥
