श्रीलिङ्गमहापुराण -[पूर्वभाग] -104
॥ श्रीसाम्बसदाशिवाय नमः ॥
एक सौ चारवाँ अध्याय
गजानन का प्राकट्य कराने के लिये देवताओं द्वारा भगवान् शिव की स्तुति
श्रीलिङ्गमहापुराणे पूर्वभागे चतुरधिकशततमोऽध्यायः
देवस्तुति
॥ ऋषय ऊचुः ॥
कथं विनायको जातो गजवक्त्रो गणेश्वरः ।
कथं प्रभावस्तस्यैवं सूत वक्तुमिहार्हसि ॥ १ ॥
॥ सूत उवाच ॥
एतस्मिन्नन्तरे देवाः सेन्द्रोपेन्द्राः समेत्य ते ।
धर्मविघ्नं तदा कर्तुं दैत्यानामभवन् द्विजाः ॥ २ ॥
असुरा यातुधानाश्च राक्षसाः क्रूरकर्मिणः ।
तामसाश्च तथा चान्ये राजसाश्च तथा भुवि ॥ ३ ॥
अविघ्नं यज्ञदानाद्यैः समभ्यर्च्य महेश्वरम् ।
ब्रह्माणं च हरिं विप्रा लब्धेप्सितवरा यतः ॥ ४ ॥
ततोऽस्माकं सुरश्रेष्ठाः सदा विजयसम्भवः ।
तेषां ततस्तु विघ्नार्थमविघ्नाय दिवौकसाम् ॥ ५ ॥
पुत्रार्थं चैव नारीणां नराणां कर्मसिद्धये ।
विघ्नेशं शङ्करं स्रष्टुं गणपं स्तोतुमर्हथ ॥ ६ ॥
इत्युक्त्वान्योन्यमनघं तुष्टुवुः शिवमीश्वरम् ।
नमः सर्वात्मने तुभ्यं सर्वज्ञाय पिनाकिने ॥ ७ ॥
अनघाय विरिञ्चाय देव्याः कार्यार्थदायिने ।
अकायायार्थकायाय हरेः कायापहारिणे ॥ ८ ॥
कायान्तस्थामृताधार मण्डलावस्थिताय ते ।
कृतादिभेदकालाय कालवेगाय ते नमः ॥ ९ ॥
कालाग्निरुद्ररूपाय धर्माद्यष्टपदाय च ।
कालीविशुद्धदेहाय कालिकाकारणाय ते ॥ १० ॥
कालकण्ठाय मुख्याय वाहनाय वराय ते ।
अंबिकापतये तुभ्यं हिरण्यपतये नमः ॥ ११ ॥
हिरण्यरेतसे चैव नमः शर्वाय शूलिने ।
कपालदण्डपाशासि चर्माङ्कुशधराय च ॥ १२ ॥
पतये हैमवत्याश्च हेमशुक्लाय ते नमः ।
पीतशुक्लाय रक्षार्थं सुराणां कृष्णवर्त्मने ॥ १३ ॥
पञ्चमाय महापञ्च यज्ञिनां फलदाय च ।
पञ्चास्यफणिहाराय पञ्चाक्षरमयाय ते ॥ १४ ॥
पञ्चधा पञ्चकैवल्य देवैरर्चितमूर्तये ।
पञ्चाक्षरदृशे तुभ्यं परात्परतराय ते ॥ १५ ॥
षोडशस्वरवज्राङ्ग वक्त्रायाक्षयरूपिणे ।
कादिपञ्चकहस्ताय चादिहस्ताय ते नमः ॥ १६ ॥
टादिपादाय रुद्राय तादिपादाय ते नमः ।
पादिमेण्ढ्राय यद्यङ्ग धातुसप्तकधारिणे ॥ १७ ॥
शान्तात्मरूपिणे साक्षात्क्षदन्तक्रोधिने नमः ।
लवरेफहलाङ्गाय निरङ्गाय च ते नमः ॥ १८ ॥
सर्वेषामेव भूतानां हृदि निःस्वनकारिणे ।
भ्रुवोरन्ते सदा सद्भिर्दृष्टायात्यन्तभानवे ॥ १९ ॥
भानुसोमाग्निनेत्राय परमात्मस्वरूपिणे ।
गुणत्रयोपरिस्थाय तीर्थपादाय ते नमः ॥ २० ॥
तीर्थतत्त्वाय साराय तस्मादपि पराय ते ।
ऋग्यजुःसामवेदाय ओङ्काराय नमो नमः ॥ २१ ॥
ओङ्कारे त्रिविधं रूपमास्थायोपरिवासिने ।
पीताय कृष्णवर्णाय रक्तायात्यन्ततेजसे ॥ २२ ॥
स्थानपञ्चकसंस्थाय पञ्चधाण्डबहिः क्रमात् ।
ब्रह्मणे विष्णवे तुभ्यं कुमाराय नमो नमः ॥ २३ ॥
अम्बायाः परमेशाय सर्वोपरिचराय ते ।
मूलसूक्ष्मस्वरूपाय स्थूलसूक्ष्माय ते नमः ॥ २४ ॥
सर्वसङ्कल्पशून्याय सर्वस्माद्रक्षिताय ते ।
आदिमध्यान्तशून्याय चित्संस्थाय नमो नमः ॥ २५ ॥
यमाग्निवायुरुद्राम्बु सोमशक्रनिशाचरैः ।
दिङ्मुखे दिङ्मुखे नित्यं सगणैः पूजिताय ते ॥ २६ ॥
सर्वेषु सर्वदा सर्व मार्गे सम्पूजिताय ते ।
रुद्राय रुद्रनीलाय कद्रुद्राय प्रचेतसे ।
महेश्वराय धीराय नमः साक्षात् शिवाय ते ॥ २७ ॥
अथ शृणु भगवन् स्तवच्छलेन कथितमजेन्द्रमुखैः सुरासुरेशैः ।*
मखमदनयमाग्निदक्षयज्ञक्षपणविचित्रविचेष्टितं क्षमस्व ॥ २८ ॥*
॥ सूत उवाच ॥
यः पठेत्तु स्तवं भक्त्या शक्राग्निप्रमुखैः सुरैः ।
कीर्तितं श्रावयेद्विद्वान् स याति परमां गतिम् ॥ २९ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे देवस्तुतिर्नाम
चतुरधिकशततमोऽध्यायः ॥ १०४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें