श्रीलिङ्गमहापुराण -[पूर्वभाग] -103

श्रीलिङ्गमहापुराण -[पूर्वभाग] -103
॥ श्रीसाम्बसदाशिवाय नमः ॥
एक सौ तीनवाँ अध्याय
भगवान् शिव एवं पार्वती के विवाह की मांगलिक कथा तथा विवाह के अनन्तर भगवान् शिव का काशी- आगमन और पार्वती को मुक्तिक्षेत्र काशी की महिमा बताना
श्रीलिङ्गमहापुराणे पूर्वभागे त्र्यधिकशततमोऽध्यायः
पार्वतीविवाहवर्णनं

॥ सूत उवाच ॥
अथ ब्रह्मा महादेवमभिवन्द्य कृताञ्जलिः ।
उद्वाहः क्रियतां देव इत्युवाच महेश्वरम् ॥ १ ॥
तस्य तद्वचनं श्रुत्वा ब्रह्मणः परमेष्ठिनः ।
यथेष्टमिति लोकेशं प्राह भूतपतिः प्रभुः ॥ २ ॥


उद्वाहार्थं महेशस्य तत्क्षणादेव सुव्रताः ।
ब्रह्मणा कल्पितं दिव्यं पुरं रत्नमयं शुभम् ॥ ३ ॥
अथादितिर्दितिः साक्षाद्दनुः कद्रुः सुकालिका ।
पुलोमा सुरसा चैव सिंहिका विनता तथा ॥ ४ ॥
सिद्धिर्माया क्रिया दुर्गा देवी साक्षात् सुधा स्वधा ।
सावित्री वेदमाता च रजनी दक्षिणा द्युतिः ॥ ५ ॥
स्वाहा स्वाधा मतिर्बुद्धिर्ऋद्धिर्वृद्धिः सरस्वती ।
राका कुहूः सिनीवाली देवी अनुमती तथा ॥ ६ ॥
धरणी धारणी चेला शची नारायणी तथा ।
एताश्चान्याश्च देवानां मातरः पत्नयस्तथा ॥ ७ ॥
उद्वाहः शङ्करस्येति जग्मुः सर्वा मुदान्विताः ।
उरगा गरुडा यक्षा गन्धर्वाः किन्नरा गणाः ॥ ८ ॥
सागरा गिरयो मेघा मासाः संवत्सरास्तथा ।
वेदा मन्त्रास्तथा यज्ञाः स्तोमा धर्माश्च सर्वशः ॥ ९ ॥
हुङ्कारः प्रणवश्चैव प्रतिहाराः सहस्रशः ।
कोटिरप्सरसो दिव्यास्तासां च परिचारिकाः ॥ १० ॥
याश्च सर्वेषु द्वीपेषु देवलोकेषु निम्नगाः ।
ताश्च स्त्रीविग्रहाः सर्वाः सञ्जग्मुर्हृष्टमानसाः ॥ ११ ॥
गणपाश्च महाभागाः सर्वलोकनमस्कृताः ।
उद्वाहः शङ्करस्येति तत्राजग्मुर्मुदान्विताः ॥ १२ ॥
अभ्ययुः शङ्खवर्णाश्च गणकोट्यो गणेश्वराः ।
दशभिः केकराक्षश्च विद्युतोऽष्टाभिरेव च ॥ १३ ॥
चतुःषष्ट्या विशाखाश्च नवभिः पारयात्रिकः ।
षड्भिः सर्वान्तकः श्रीमान् तथैव विकृताननः ॥ १४ ॥
ज्वालाकेशो द्वादशभिः कोटिभिर्गणपुङ्गवः ।
सप्तभिः समदः श्रीमान् दुन्दुभोऽष्टाभिरेव च ॥ १५ ॥
पञ्चभिश्च कपालीशः षड्भिः संदारकः शुभः ।
कोटिकोटिभिरेवेह गण्डकः कुम्भकस्तथा ॥ १६ ॥
विष्टम्भोऽष्टाभिरेवेह गणपः सर्वसत्तमः ।
पिप्पलश्च सहस्रेण सन्नादश्च तथा द्विजाः ॥ १७ ॥
आवेष्टनस्तथाष्टाभिः सप्तभिश्चन्द्रतापनः ।
महाकेशः सहस्रेण कोटीनां गणपो वृतः ॥ १८ ॥
कुण्डी द्वादशभिर्वीरस्तथा पर्वतकः शुभः ।
कालश्च कालकश्चैव महाकालः शतेन वै ॥ १९ ॥
आग्निकः शतकोट्या वै कोट्याग्निमुख एव च ।
आदित्यमूर्धा कोट्या च तथा चैव धनावहः ॥ २० ॥
सन्नामश्च शतेनैव कुमुदः कोटिभिस्तथा ।
अमोघः कोकिलश्चैव कोटिकोट्या सुमन्त्रकः ॥ २१ ॥
काकपाटोऽपरः षष्ट्या षष्ट्या सन्तानकः प्रभुः ।
महाबलश्च नवभिर्मधुपिङ्गश्च पिङ्गलः ॥ २२ ॥
नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ।
कोटीनां चैव सप्तत्या चतुर्वक्त्रो महाबलः ॥ २३ ॥
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृताः ।
तत्राजग्मुस्तथा देवास्ते सर्वे शङ्करं भवम् ॥ २४ ॥
भूतकोटिसहस्रेण प्रमथः कोटिभिस्त्रिभिः ।
वीरभद्रश्चतुःषष्ट्या रोमजाश्चैव कोटिभिः ॥ २५ ॥
करणश्चैव विंशत्या नवत्या केवलः शुभः ।
पञ्चाक्षः शतमन्युश्च मेघमन्युस्तथैव च ॥ २६ ॥
काष्ठकूटश्चतुःषष्ट्या सुकेशो वृषभस्तथा ।
विरूपाक्षश्च भगवान् चतुःषष्ट्या सनातनः ॥ २७ ॥
तालुकेतुः षडास्यश्च पञ्चास्यश्च सनातनः ।
संवर्तकस्तथा चैत्रो लकुलीशः स्वयं प्रभुः ॥ २८ ॥
लोकान्तकश्च दीप्तास्यस्तथा दैत्यान्तकः प्रभुः ।
मृत्युहृत्कालहा कालो मृत्युञ्जयकरस्तथा ॥ २९ ॥
विषादो विषदश्चैव विद्युतः कान्तकः प्रभुः ।
देवो भृङ्गी रिटिः श्रीमान् देवदेवप्रियस्तथा ॥ ३० ॥
अशनिर्भासकश्चैव चतुःषष्ट्या सहस्रपात् ।
एते चान्ये च गणपा असंख्याता महाबलाः ॥ ३१ ॥
सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।
चन्द्ररेखावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥ ३२ ॥
हारकुण्डलकेयूर मुकुटाद्यैरलङ्कृताः ।
ब्रह्मेन्द्रविष्णुसङ्काशा अणिमादिगुणैर्वृताः ॥ ३३ ॥
सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः ।
पातालचारिणश्चैव सर्वलोकनिवासिनः ॥ ३४ ॥
तुम्बरुर्नारदो हाहा हूहूश्चैव तु सामगाः ।
रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम् ॥ ३५ ॥
ऋषयः कृत्स्नशस्तत्र देवगीतास्तपोधनाः ।
पुण्यान् वैवाहिकान् मन्त्रानजपुर्हृष्टमानसाः ॥ ३६ ॥
तत एवं प्रवृत्ते तु सर्वतश्च समागमे ।
गिरिजां तामलङ्कृत्य स्वयमेव शुचिस्मिताम् ॥ ३७ ॥
पुरं प्रवेशयामास स्वयमादाय केशवः ।
सदस्याह च देवेशं नारायणमजो हरिम् ॥ ३८ ॥
भवानग्रे समुत्पन्नो भवान्या सह दैवतैः ।
वामाङ्गादस्य रुद्रस्य दक्षिणाङ्गादहं प्रभो ॥ ३९ ॥
मन्मूर्तिस्तुहिनाद्रीशो यज्ञार्थं सृष्ट एव हि ।
एषा हैमवती जज्ञे मायया परमेष्ठिनः ॥ ४० ॥
श्रौतस्मार्तप्रवृत्त्यर्थमुद्वाहार्थमिहागतः ।
अतोऽसौ जगतां धात्री धाता तव ममापि च ॥ ४१ ॥
अस्य देवस्य रुद्रस्य मूर्तिभिर्विहितं जगत् ।
क्ष्माबग्निखेन्दुसूर्यात्म पवनात्मा यतो भवः ॥ ४२ ॥
तथापि तस्मै दातव्या वचनाच्च गिरेर्मम ।
एषा ह्यजा शुक्लकृष्णा लोहिता प्रकृतिर्भवान् ॥ ४३ ॥
श्रेयोऽपि शैलराजेन सम्बन्धोऽयं तवापि च ।
तव पाद्मे समुद्भूतः कल्पे नाभ्यम्बुजादहम् ॥ ४४ ॥
मदंशस्यास्य शैलस्य ममापि च गुरुर्भवान् ।
॥ सूत उवाच ॥
बाढमित्यजमाहासौ देवदेवो जनार्दनः ॥ ४५ ॥
देवाश्च मुनयः सर्वे देवदेवश्च शङ्करः ।
ततश्चोत्थाय विद्वान् सः पद्मनाभः प्रणम्य ताम् ॥ ४६ ॥
पादौ प्रक्षाल्य देवस्य कराभ्यां कमलेक्षणः ।
अभ्युक्षदात्मनो मूर्ध्नि ब्रह्मणश्च गिरेस्तथा ॥ ४७ ॥
त्वदीयैषा विवाहार्थं मेनजा ह्यनुजा मम ।
इत्युक्त्वा सोदकं दत्त्वा देवीं देवेश्वराय ताम् ॥ ४८ ॥
स्वात्मानमपि देवाय सोदकं प्रददौ हरिः ।
अथ सर्वे मुनिश्रेष्ठाः सर्ववेदार्थपारगाः ॥ ४९ ॥
ऊचुर्दाता गृहीता च फलं द्रव्यं विचारतः ।
एष देवो हरो नूनं मायया हि ततो जगत् ॥ ५० ॥
इत्युक्त्वा तं प्रणेमुश्च प्रीतिकण्टकितत्वचः ।
ससृजुः पुष्पवर्षाणि खेचराः सिद्धचारणाः ॥ ५१ ॥
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ।
वेदाश्च मूर्तिमन्तस्ते प्रणेमुस्तं महेश्वरम् ॥ ५२ ॥
ब्रह्मणा मुनिभिः सार्धं देवदेवमुमापतिम् ।
देवोऽपि देवीमालोक्य सलज्जां हिमशैलजाम् ॥ ५३ ॥
न तृप्यत्यनवद्याङ्गी सा च देवं वृषध्वजम् ।
वरदोऽस्मीति तं प्राह हरिं सोऽप्याह शङ्करम् ॥ ५४ ॥
त्वयि भक्तिः प्रसीदेति ब्रह्माख्यां च ददौ तु सः ।
ततस्तु पुनरेवाह ब्रह्मा विज्ञापयन् प्रभुम् ॥ ५५ ॥
हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः ।
ददासि मम यद्याज्ञां कर्तव्यो ह्यकृतो विधिः ॥ ५६ ॥
तमाह शङ्करो देवं देवदेवो जगत्पतिः ।
यद्यदिष्टं सुरश्रेष्ठ तत्कुरुष्व यथेप्सितम् ॥ ५७ ॥
कर्तास्मि वचनं सर्वं देवदेव पितामह ।
ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः ॥ ५८ ॥
हस्तं देवस्य देव्याश्च युयोज परमं प्रभुः ।
ज्वलनश्च स्वयं तत्र कृताञ्जलिरुपस्थितः ॥ ५९ ॥
श्रौतैरेतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः ।
यथोक्तविधिना हुत्वा लाजानपि यथाक्रमम् ॥ ६० ॥
आनीतान् विष्णुना विप्रान् सम्पूज्य विविधैर्वरैः ।
त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम् ॥ ६१ ॥
मुक्त्वा हस्तसमायोगं सहितैः सर्वदैवतैः ।
सुरैश्च मानवैः सर्वैः प्रहृष्टेनान्तरात्मना ॥ ६२ ॥
ननाम भगवान् ब्रह्मा देवदेवमुमापतिम् ।
ततः पाद्यं तयोर्दत्त्वा शम्भोराचमनं तथा ॥ ६३ ॥
मधुपर्कं तथा गां च प्रणम्य च पुनः शिवम् ।
अतिष्ठद्भगवान् ब्रह्मा देवैरिन्द्रपुरोगमैः ॥ ६४ ॥
भृग्वाद्यमुनयः सर्वे चाक्षतैस्तिलतण्डुलैः ।
सूर्यादयः समभ्यर्च्य तुष्टुवुर्वृषभध्वजम् ॥ ६५ ॥
शिवः समाप्य देवोक्तं वह्निमारोप्य चात्मनि ।
तया समागतो रुद्रः सर्वलोकहिताय वै ॥ ६६ ॥
यः पठेच्छृणुयाद्वापि भवोद्वाहं शुचिस्मितः ।
श्रावयेद्वा द्विजान् शूद्धान् वेदवेदाङ्गपारगान् ॥ ६७ ॥
स लब्ध्वा गाणपत्यं च भवेन सह मोदते ।
यत्रायं कीर्त्यते विप्रैस्तावदास्ते तदा भवः ॥ ६८ ॥
तस्मात् सम्पूज्य विधिवत् कीर्तयेन्नान्यथा द्विजाः ।
उद्वाहे च द्विजेन्द्राणां क्षत्रियाणां द्विजोत्तमाः ॥ ६९ ॥
कीर्तनीयमिदं सर्वं भवोद्वाहमनुत्तमम् ।
कृतोद्वाहस्तदा देव्या हैमवत्या वृषध्वजः ॥ ७० ॥
सगणो नन्दिना सार्धं सर्वदेवगणैर्वृतः ।
पुरीं वाराणसीं दिव्यामाजगाम महाद्युतिः ॥ ७१ ॥
अविमुक्ते सुखासीनं प्रणम्य वृषभध्वजम् ।
अपृच्छत् क्षेत्रमाहात्म्यं भवानी हर्षितानना ॥ ७२ ॥
अथाहार्धेन्दुतिलकः क्षेत्रमाहात्म्यमुत्तमम् ।
अविमुक्तस्य माहात्म्यं विस्तराच्छक्यते नहि ॥ ७३ ॥
वक्तुं मया सुरेशानि ऋषिसङ्घाभिपूजितम् ।
किं मया वर्ण्यते देवी ह्यविमुक्तफलोदयः ॥ ७४ ॥
पापिनां यत्र मुक्तिः स्यान्मृतानामेकजन्मना ।
अन्यत्र तु कृतं पापं वाराणस्यां व्यपोहति ॥ ७५ ॥
वाराणस्यां कृतं पापं पैशाच्यनरकावहम् ।
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् ॥ ७६ ॥
न तु शक्रसहस्रत्वं स्वर्गे काशीपुरीं विना ।
यत्र त्रिविष्टपो देवो यत्र विश्वेश्वरो विभुः ॥ ७७ ॥
ओङ्कारेशः कृत्तिवासा मृतानां न पुनर्भवः ।
उक्त्वा क्षेत्रस्य माहात्म्यं सङ्क्षेपाच्छशिशेखरः ॥ ७८ ॥
दर्शयामास चोद्यानं परित्यज्य गणेश्वरान् ।
तत्रैव भगवान् जातो गजवक्त्रो विनायकः ॥ ७९ ॥
दैत्यानां विघ्नरूपार्थमविघ्नाय दिवौकसाम् ।
एतद्वः कथितं सर्वं कथासर्वस्वमुत्तमम् ॥ ८० ॥
यथाश्रुतं मया सर्वं प्रसादाद्वः सुशोभनम् ॥ ८१ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे पार्वतीविवाहवर्णनं नाम त्र्यधिकशततमोऽध्यायः ॥ १०३ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-103

कोई टिप्पणी नहीं:

123