श्रीलिङ्गमहापुराण -[उत्तरभाग] -001
॥ श्रीसाम्बसदाशिवाय नमः ॥
पहला अध्याय
भगवद्गुणगान की महिमा में कौशिक ब्राह्मण की कथा
अथ
श्रीसटीकलिङ्गमहापुराणोत्तरभाग प्रारम्भः
श्रीगणेशाय नमः
श्रीलिङ्गमहापुराणे उत्तरभागे प्रथमोध्यायः
कौशिकवृत्तकथनं
॥ ऋषय ऊचुः ॥
कृष्णस्तुष्यति केनेह सर्वदेवेश्वरेश्वरः ।
वक्तुमर्हासि चास्माकं सूत सर्वार्थविद् भवान् ॥ १ ॥
॥ सूत उवाच ॥
पुरा पृष्टो महातेजा मार्कण्डेयो महामुनिः ।
अम्बरीषेण विप्रेन्द्रास्तद्वदामि यथातथम् ॥ २ ॥
॥ अम्बरीष उवाच ॥
मुने समस्तधर्माणां पारगस्त्वं महामते ।
मार्कण्डेय पुराणोऽसि पुराणार्थविशारदः ॥ ३ ॥
नारायणानां दिव्यानां धर्माणां श्रेष्ठमुत्तमम् ।
तत्किं ब्रूहि महाप्राज्ञ भक्तानामिह सुव्रत ॥ ४ ॥
॥ सूत उवाच ॥
तस्य तद्वचनं श्रुत्वा समुत्थाय कृताञ्जलिः ।
स्मरन्नारायणं देवं कृष्णमच्युतमव्ययम् ॥ ५ ॥
॥ मार्कण्डेय उवाच ॥
शृणु भूप यथान्यायं पुण्यं नारायणात्मकम् ।
स्मरणं पूजनं चैव प्रणामो भक्तिपूर्वकम् ॥ ६ ॥
प्रत्येकमश्वमेधस्य यज्ञस्य सममुच्यते ।
य एकः पुरुषः श्रेष्ठः परमात्मा जनार्दनः ॥ ७ ॥
यस्माद् ब्रह्मा ततः सर्वं समाश्रित्यैव मुच्यते ।
धर्ममेकं प्रवक्ष्यामि यद्दृष्टं विदितं मया ॥ ८ ॥
पुरा त्रेतायुगे कश्चित् कौशिको नाम वै द्विजः ।
वासुदेवपरो नित्यं सामगानरतः सदा ॥ ९ ॥
भोजनासन शय्यासु सदा तद्गतमानसः ।
उदारचरितं विष्णोर्गायमानः पुनः पुनः ॥ १० ॥
विष्णोः स्थलं समासाद्य हरेः क्षेत्रमनुत्तमम् ।
अगायत हरिं तत्र तालवर्णलयान्वितम् ॥ ११ ॥
मूर्च्छनास्वरयोगेन श्रुतिभेदेन भेदितम् ।
भक्तियोगं समापन्नो भिक्षामात्रं हि तत्र वै ॥ १२ ॥
तत्रैवं गायमानं च दृष्ट्वा कश्चिद् द्विजस्तदा ।
पद्माख्य इति विख्यातस्तस्मै चान्नं ददौ तदा ॥ १३ ॥
सकुटुम्बो महातेजा ह्युष्णमन्नं हि तत्र वै ।
कौशिको हि ताद हृष्टो गायन्नास्ते हरिं प्रभुम् ॥ १४ ॥
शृण्वन्नास्ते स पद्माख्यः काले काले विनिर्गतः ।
कालयोगेन सम्प्राप्ताः शिष्या वै कौशिकस्य च ॥ १५ ॥
सप्त राजन्यवैश्यानां विप्राणां कुलसम्भवाः ।
ज्ञानविद्याधिकाः शुद्धा वासुदेवपरायणाः ॥ १६ ॥
तेषामपि तथान्नाद्यं पद्माक्षः प्रददौ स्वयम् ।
शिष्यैश्च सहितो नित्यं कौशिको हृष्टमानसः ॥ १७ ॥
विष्णुस्थले हरिं तत्र आस्ते गायन्यथाविधि ।
तत्रैव मालवो नाम वैश्यो विष्णुपरायणः ॥ १८ ॥
दीपमालां हरेर्नित्यं करोति प्रीतिमानसः ।
मालवी नाम भार्या च तस्य नित्यं पतिव्रता ॥ १९ ॥
गोमयेन समालिप्य हरेः क्षेत्रं समन्ततः ।
भर्त्रा सहास्ते सुप्रीता शृण्वती गानमुत्तमम् ॥ २० ॥
कुशस्थलात्समापन्ना ब्राह्मणाः शंसितव्रताः ।
पञ्चाशद्वै समापन्ना हरेर्गानार्थमुत्तमाः ॥ २१ ॥
साधयन्तो हि कार्याणि कौशिकस्य महात्मनः ।
ज्ञानविद्यार्थतत्त्वज्ञाः शृण्वन्तो ह्यवसंस्तु ते ॥ २२ ॥
ख्यातमासीत्तदा तस्य गानं वै कौशिकस्य तत् ।
श्रुत्वा राजा समभ्येत्य कलिङ्गो वाक्यमब्रवीत् ॥ २३ ॥
कौशिकाद्य गणैः सार्धं गायस्वेह च मां पुनः ।
शृणुध्वं च तथा यूयं कुशस्थलजना अपि ॥ २४ ॥
तच्छ्रुत्वा कौशिकः प्राह राजानं सान्त्वया गिरा ।
न जिह्वा मे महाराजन् वाणी च मम सर्वदा ॥ २५ ॥
हरेरन्यमपीन्द्रं वा स्तौति नैव च वक्ष्यति ।
एवमुक्ते तु तच्छिष्यो वासिष्ठो गौतमो हरिः ॥ २६ ॥
सारस्वतस्तथा चित्रश्चित्रमाल्यस्तथा शिशुः ।
ऊचुस्ते पार्थिवं तद्वद्यथा प्राह च कौशिकः ॥ २७ ॥
श्रवकास्ते तथा प्रोचुः पार्थिवं विष्णुतत्पराः ।
श्रोत्राणीमानि शृण्वन्ति हरेरन्यं न पार्थिव ॥ २८ ॥
गानकीर्तिं वयं तस्य शृणुमोन्यां न च स्तुतिम् ।
तच्छ्रुत्वा पार्थिवो रुष्टो गायतामिति चाब्रवीत् ॥ २९ ॥
स्वभृत्यान् ब्राह्मणा ह्येते कीर्तिं शृण्वन्ति मे यथा ।
न शृण्वन्ति कथं तस्माद् गायमाने समन्ततः ॥ ३० ॥
एव मुक्तास्तदा भृत्या जगुः पार्थिवमुत्तमम् ।
निरुद्धमार्गा विप्रास्ते गाने वृत्ते तु दुःखिताः ॥ ३१ ॥
काष्ठशङ्कुभिरन्योन्यं श्रोत्राणि विदधुर्द्विजाः ।
कौशिकाद्याश्च तां ज्ञात्वा मनोवृत्तिं नृपस्य वै ॥ ३२ ॥
प्रसह्यास्मांस्तु गायेत स्वगानेसौ नृपः स्थितः ।
इति विप्राः सुनियता जिह्वाग्रं चिच्छिदुः करैः ॥ ३३ ॥
ततो राजा सुसङ्क्रुद्धः स्वदेशात्तान्न्यवासयत् ।
आदाय सर्वं वित्तं च ततस्ते जग्मुरुत्तराम् ॥ ३४ ॥
दिशमासाद्य कालेन कालधर्मेणयोजिताः ।
तानागतान् यमो दृष्ट्वा किं कर्तव्यमिति स्म ह ॥ ३५ ।
चोष्टितं तत्क्षणे राजन् ब्रह्मा प्राह सुराधिपान् ।
कौशिकादीन् द्विजानद्य वासयध्वं यथासुखम् ॥ ३६ ।
गानयोगेन ये नित्यं पूजयन्ति जनार्दनम् ।
तानानयत भद्रं वो यदि देवत्वमिच्छथ ॥ ३७ ॥
इत्युक्ता लोकपालस्ते कौशिकेति पुनः पुनः ।
मालवेति तथा केचित् पद्माक्षेति तथा परे ॥ ३८ ॥
क्रोशमानाः समभ्येत्य तानादाय विहायसा ।
ब्रह्मलोकं गताः शीघ्रं मुहूर्तेनैव ते सुराः ॥ ३९ ॥
कौशिकादींस्ततो दृष्ट्वा ब्रह्मा लोकपितामहः ।
प्रत्युद्गम्य यथान्यायं स्वागतेनाभ्यपूजयत् ॥ ४० ॥
ततः कोलाहलमभूदतिगौरवमुल्बणम् ।
ब्रह्मणा चरितं दृष्ट्वा देवानां नृपसत्तम ॥ ४१ ॥
हिरण्यगर्भो भगवांस्तान्निवार्य सुरोत्तमान् ।
कौशिकादीन् समादाय मुनीन् देवैः समावृतः ॥ ४२ ॥
विष्णुलोकं ययौ शीघ्रं वासुदेवपरायणः ।
तत्र नारायणोदेवः श्वेतद्वीपनिवासिभिः ॥ ४३ ॥
ज्ञानयोगेश्वरैः सिद्धैर्विष्णुभक्तैः समाहितैः ।
नारायणसमैर्दिव्यैश्चतुर्बाहुधरैः शुभैः ॥ ४४ ॥
विष्णुचिह्नसमापन्नैर्दीप्यमानैरकल्मषैः ।
अष्टाशीतिसहस्रैश्च सेव्यमानो महाजनैः ॥ ४५ ॥
अस्माभिर्नारदाद्यैश्च सनकाद्यैरकल्मषैः ।
भूतैर्नानाविधैश्चैव दिव्यस्त्रीभिः समन्ततः ॥ ४६ ॥
सेव्यमानोथ मध्ये वै सहस्रद्वारसंवृते ।
सहस्रयोजनायामे दिव्ये मणिमये शुभे ॥ ४७ ॥
विमाने विमले चित्रे भद्रपीठासने हरिः ।
लोककार्ये प्रसक्तानां दत्तदृष्टिश्च माधवः ॥ ४८ ॥
तस्मिन् कालेऽथ भगवान् कौशिकाद्यैश्च संवृतः ।
आगम्य प्रणिपत्याग्रे तुष्टाव गरुडध्वजम् ॥ ४९ ॥
ततो विलोक्य भगवान् हरिर्नारायणः प्रभुः ।
कौशिकेत्याह सम्प्रीत्या तान् सर्वांश्च यथाक्रमम् ॥ ५० ॥
जयघोषो महानसीन्महाश्चर्ये समागते ।
ब्रह्माणमाह विश्वात्मा शृणु ब्रह्मन् मयोदितम् ॥ ५१ ॥
कौशिकस्य इमे विप्राः साध्यसाधनतत्पराः ।
हिताय सम्प्रवृत्ता वै कुशस्थलनिवासिनः ॥ ५२ ॥
मत्कीर्तिश्रवणे युक्ता ज्ञानतत्त्वार्थकोविदाः ।
अनन्यदेवताभक्ताः साध्या देवा भवन्त्विमे ॥ ५३ ॥
मत्समीपे तथान्यत्र प्रवेशं देहि सर्वदा ।
एवमुक्त्वा पुनर्देवः कौशिकं प्राह माधवः ॥ ५४ ॥
स्वशिष्यैस्त्वं महाप्राज्ञ दिग्बन्धो भव मे सदा ।
गणाधिपत्यमापन्नो यत्राहं त्वं समास्व वै ॥ ५५ ॥
मालवं मालवीं चैवं प्राह दामोदरो हरिः ।
मम लोके यथाकालं भार्यया सह मालव ॥ ५६ ॥
दिव्यरूपधरः श्रीमान् शृण्वन् गानमिहाधिपः ।
आस्व नित्यं यथाकामं यावल्लोका भवन्ति वै ॥ ५७ ॥
पद्माक्षमाह भगवान् धनदो भवमाधवः ।
धनानामीश्वरो भूत्वा यथाकालं हि मां पुनः ॥ ५८ ॥
आगम्य दृष्ट्वा मां नित्यं कुरु राज्यं यथासुखम् ।
एवमुक्त्वा हरिर्विष्णुर्ब्रह्माणमिदमब्रवीत् ॥ ५९ ॥
कौशिकस्यास्य गानेन योगनिद्रा च मे गता ।
विष्णुस्थले च मां स्तौति शिष्यैरेष समन्ततः ॥ ६० ॥
राज्ञा निरस्तः क्रूरेण कलिङ्गेन महीयसा ।
स जिह्वाच्छेदनं कृत्वा हरेरन्यं कथञ्चन ॥ ६१ ॥
न स्तोष्यामीति नियतः प्राप्तोसौ मम लोकताम् ।
एते च विप्रा नियता मम भक्ता यशस्विनः ॥ ६२ ॥
श्रोत्रच्छिद्रमथाहत्य शङ्कुभिर्वै परस्परम् ।
श्रोष्यामो नैव चान्यद्वै हरेः कीर्तिमिति स्म ह ॥ ६३ ॥
एते विप्रास्च देवत्वं मम सान्निध्यमेव च ।
मालवो भार्यया सार्धं मत्क्षेत्रं परिमृज्य वै ॥ ६४ ॥
दीपमालादिभिर्नित्यमभ्यर्च्य सततं हि माम् ।
गानं शृणोति नियतो मत्कीर्तिचरितान्वितम् ॥ ६५ ॥
तेनासौ प्राप्तवाँल्लोकं मम ब्रह्मा सनातनम् ।
पद्माक्षोसौ ददौ भोज्यं कौशिकस्य महात्मनः ॥ ६६ ॥
धनेशत्वमवाप्तोसौ मम सान्निध्यमेव च ।
एवमुक्त्वा हरिस्तत्र समाजे लोकपूजितः ॥ ६७ ॥
तस्मिन् क्षणे समापन्ना मधुराक्षरपेशलैः ।
विपञ्चीगुणतत्त्वज्ञैर्वाद्यविद्याविशारदैः ॥ ६८ ॥
मन्दं मन्दस्मिता देवी विचित्राभरणान्विता ।
गायमाना समायाता लक्ष्मीर्विष्णुपरिग्रहा ॥ ६९ ॥
वृता सहस्रकोटीभिरङ्गनाभिः समन्ततः ।
ततो गणाधिपा दृष्ट्वा भुशुण्डीपरिघायुधाः ॥ ७० ॥
ब्रह्मादींस्तर्जयन्तस्ते मुनीन् देवान् समन्ततः ।
उत्सारयन्तः संहृष्टा धिष्ठिताः पर्वतोपमाः ॥ ७१ ॥
सर्वे वयं हि निर्याताः सार्धं वै ब्रह्मणा सुरैः ।
तस्मिन् क्षणे समाहूतस्तुम्बरुर्मुनिसत्तमः ॥ ७२ ॥
प्रविवेश समीपं वै देव्या देवस्य चैव हि ।
तत्रासीनो यथायोगं नानामूर्च्छासमन्वितम् ॥ ७३ ॥
जगौ कलपदं हृष्टो विपञ्चीं चाभ्यवादयत् ।
नानारत्नसमायुक्तैर्दिव्यैराभरणोत्तमैः ॥ ७४ ॥
दिव्यमाल्यैस्तथा शुभ्रैः पूजितो मुनिसत्तमः ।
निर्गतस्तुम्बरुर्हृष्टो अन्ये च ऋषयः सुराः ॥ ७५ ॥
दृष्ट्वा सम्पूजितं यान्तं यथायोगमरिन्दम ।
नारदोऽथ मुनिर्दृष्ट्वा तुम्बरोः सत्क्रियां हरेः ॥ ७६ ॥
शोकाविष्टेन मनसा सन्तप्तहृदयेक्षणः ।
चिन्तामापेदिवांस्तत्र शोकमूर्च्छाकुलात्मकः ॥ ७७ ॥
केनाहं हि हरेत्यास्ये योगं देवीसमीपतः ।
अहो तुम्बरुणा प्राप्तं धिङ्मां मूढं विचेतसम् ॥ ७८ ॥
योऽहं हरेः सन्निकाशं भूतैर्निर्यातितः कथम् ।
जीवन् यास्यामि कुत्राहमहो तुम्बरुणा कृतम् ॥ ७९ ॥
इति सञ्चिन्तयन् विप्रस्तप आस्थितवान् मुनिः ।
दिव्यं वर्षसहस्रं तु निरुच्छ्वाससमन्वितः ॥ ८० ॥
ध्यायन् विष्णुमथाध्यास्ते तुम्बरोः सत्क्रियां स्मरन् ।
रोदमानो मुहुर्विद्वान् धिङ्मामिति च चिन्तयन् ॥ ८१ ॥
तत्र यत्कृतवान् विष्णुस्तच्छृणुष्व नराधिप ॥ ८२ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे कौशिकवृत्तकथनं नाम
प्रथमोध्यायः ॥ १ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें