श्रीलिङ्गमहापुराण -[पूर्वभाग] -105

श्रीलिङ्गमहापुराण -[पूर्वभाग] -105
॥ श्रीसाम्बसदाशिवाय नमः ॥
एक सौ पाँचवाँ अध्याय
विघ्ननाशक श्रीगणेशजी के प्राकट्य की कथा
श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चाधिकशततमोऽध्यायः
विनायकोत्पत्ति

॥ सूत उवाच ॥
यदा स्थिताः सुरेश्वराः प्रणम्य चैवमीश्वरम् ।
तदाम्बिकापतिर्भवः पिनाकधृङ् महेश्वरः ॥ १ ॥
ददौ निरीक्षणं क्षणाद्भवः स तान् सुरोत्तमान् ।
प्रणेमुरादराद्धरं सुरा मुदार्द्रलोचनाः ॥ २ ॥


भवः सुधामृतोपमैर्निरीक्षणैर्निरीक्षणात् ।
तदाह भद्रमस्तु वः सुरेश्वरान् महेश्वरः ॥ ३ ॥
वरार्थमीश वीक्ष्यते सुरा गृहं गतास्त्विमे ।
प्रणम्य चाह वाक्पतिः पतिं निरीक्ष्य निर्भयः ॥ ४ ॥
सुरेतरादिभिः सदा ह्यविघ्नमर्थितो भवान् ।
समस्तकर्मसिद्धये सुरापकारकारिभिः ॥ ५ ॥
ततः प्रसीदताद्भवान् सुविघ्नकर्मकारणम् ।
सुरापकारकारिणामिहैष एव नो वरः ॥ ६ ॥
ततस्तदा निशम्य वै पिनाकधृक् सुरेश्वरः ।
गणेश्वरं सुरेश्वरं वपुर्दधार सः शिवः ॥ ७ ॥
गणेश्वराश्च तुष्टुवुः सुरेश्वरा महेश्वरम् ।
समस्तलोकसम्भवं भवार्त्तिहारिणं शुभम् ॥ ८ ॥
इभाननाश्रितं वरं त्रिशूलपाशधारिणम् ।
समस्तलोकसम्भवं गजाननं तदाम्बिका ॥ ९ ॥
ददुः पुष्पवर्षं हि सिद्धा मुनीन्द्रास्तथा खेचरा देवसङ्घास्तदानीम् ।
तदा तुष्टुवुश्चैकदन्तं सुरेशाः प्रणेमुर्गणेशं महेशं वितन्द्राः ॥ १० ॥
तदा तयोर्विनिर्गतः सुभैरवः स मूर्तिमान् ।
स्थितो ननर्त बालकः समस्तमङ्गलालयः ॥ ११ ॥
विचित्रवस्त्रभूषणैरलङ्कृतो गजाननः ।
महेश्वरस्य पुत्रकोऽभिवन्द्य तातमम्बिकाम् ॥ १२ ॥
जातमात्रं सुतं दृष्ट्वा चकार भगवान् भवः ।
गजाननाय कृत्यांस्तु सर्वान् सर्वेश्वरः स्वयम् ॥ १३ ॥
आदाय च कराभ्यां च सुसुखाभ्यां भवः स्वयम् ।
आलिङ्ग्याघ्राय मूर्धानं महादेवो जगद्गुरुः ॥ १४ ॥
तवावतारो दैत्यानां विनाशाय ममात्मज ।
देवानामुपकारार्थं द्विजानां ब्रह्मवादिनाम् ॥ १५ ॥
यज्ञश्च दक्षिणाहीनः कृतो येन महीतले ।
तस्य धर्मस्य विघ्नं च कुरु स्वर्गपथे स्थितः ॥ १६ ॥
अध्यापनं चाध्ययनं व्याख्यानं कर्म एव च ।
योऽन्यायतः करोत्यस्मिन् तस्य प्राणान् सदा हर ॥ १७ ॥
वर्णाच्च्युतानां नारीणां नराणां नरपुङ्गव ।
स्वधर्मरहितानां च प्राणानपहर प्रभो ॥ १८ ॥
याः स्त्रियस्त्वां सदा कालं पुरुषाश्च विनायक ।
यजन्ति तासां तेषां च त्वत्साम्यं दातुमर्हसि ॥ १९ ॥
त्वं भक्तान् सर्वयत्नेन रक्ष बालगणेश्वर ।
यौवनस्थांश्च वृद्धांश्च इहामुत्र च पूजितः ॥ २० ॥
जगत्त्रयेऽत्र सर्वत्र त्वं हि विघ्नगणेश्वरः ।
सम्पूज्यो वन्दनीयश्च भविष्यसि न संशयः ॥ २१ ॥
मां च नारायणं वापि ब्रह्माणमपि पुत्रक ।
यजन्ति यज्ञैर्वा विप्रैरग्रे पूज्यो भविष्यसि ॥ २२ ॥
त्वामनभ्यर्च्य कल्याणं श्रौतं स्मार्तं च लौकिकम् ।
कुरुते तस्य कल्याणमकल्याणं भविष्यति ॥ २३ ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव गजानन ।
सम्पूज्य सर्वसिद्ध्यर्थं भक्ष्यभोज्यादिभिः शुभैः ॥ २४ ॥
त्वां गन्धपुष्पधूपाद्यैरनभ्यर्च्य जगत्त्रये ।
देवैरपि तथान्यैश्च लब्धव्यं नास्ति कुत्रचित् ॥ २५ ॥
अभ्यर्चयन्ति ये लोका मानवास्तु विनायकम् ।
ते चार्चनीयाः शक्राद्यैर्भविष्यन्ति न संशयः ॥ २६ ॥
अजं हरिं च मां वापि शक्रमन्यान् सुरानपि ।
विघ्नैर्बाधयसि त्वां चेन्नार्चयन्ति फलार्थिनः ॥ २७ ॥
ससर्ज च तदा विघ्न गणं गणपतिः प्रभुः ।
गणैः सार्धं नमस्कृत्वाप्यतिष्ठत्तस्य चाग्रतः ॥ २८ ॥
तदा प्रभृति लोकेऽस्मिन् पूजयन्ति गणेश्वरम् ।
दैत्यानां धर्मविघ्नं च चकारासौ गणेश्वरः ॥ २९ ॥
एतद्वः कथितं सर्वं स्कन्दाग्रजसमुद्भवम् ।
यः पठेच्छृणुयाद्वापि श्रावयेद्वा सुखीभवेत् ॥ ३० ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे विनायकोत्पत्तिर्नाम पञ्चाधिकशततमोऽध्यायः ॥ १०५ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-105

कोई टिप्पणी नहीं:

123