श्रीगणेशपुराणे क्रीडाखण्डे पञ्चदशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चदशोऽध्यायः
॥ ब्रह्मोवाच ॥
अपरस्मिन् दिने राजा लोकैः सह सभां ययौ ।
विनायकेन सहितो मित्रामत्यसमन्वितः ॥ १ ॥
तानुवाच ततः सर्वान् बालकस्य गुणान् बहून् ।
गुणवन्तं प्रधानं तं पुरस्कृत्य महाशयम् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे चतुर्दशोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे चतुर्दशोऽध्यायः

बालचरित्र
॥ ब्रह्मोवाच ॥

ततः प्रभात उत्थाय शौचं कृत्वा यथाविधि ।
चकार मज्जनं सोऽथ सन्ध्यां चक्रे यथाविधि ॥ १ ॥
होमं चकार समिधं स्थाप्य कृष्णाजिनं शुभम् ।
निधाय दण्डं चिक्रीड बालकैः स विनायकः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे त्रयोदशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे त्रयोदशोऽध्यायः
बालचरितं

॥ दूता ऊचुः ॥

विनायकं रथस्थं तमाज्ञां प्राप्य गता वयम् ।
सर्वैरेव तदा दृष्टः कृतान्तसदृशस्तु सः ॥ १ ॥
सर्वे निशाचराः स्वामिन् मृतास्तद्भीतितोऽनघ ।
वयं तव प्रसादेन जीवन्तस्त्वां समागताः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे द्वादशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे द्वादशोऽध्यायः
निशाचरवधो

॥ ब्रह्मोवाच ॥

ततस्तु सप्तमे वर्षे प्रवृत्तेऽसौ विनायकः ।
स्नात्वा नित्यविधिं कृत्वा मुकुटभ्राजि मस्तकः ॥ १ ॥
आयुधानि च चत्वारि सिंहारूढो दधार सः ।
अङ्कुशं परशुं पद्मं पाशं सर्वभयापहम् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे एकादशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे एकादशोऽध्यायः
बालचरिते

॥ कश्यप उवाच ॥

अयं तु मद्गृहे कोऽपि ह्यवतीर्णः परः पुमान् ।
अनिर्वाच्यगुणो हीनो गुणैस्त्रिभिरनावृतः ॥ १ ॥
एतद्विरोधं यः कुर्यात् स पदभ्रंशतामियात् ।
एतस्याद्भुतकर्माणि शृणु मे गदतः सुर ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे दशमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे दशमोऽध्यायः
नानानामनिरूपणं

॥ ब्रह्मोवाच ॥

ततस्तु पञ्चमे वर्षे सचौलं व्रतबन्धनम् ।
चकार कश्यपो धीमान् सूत्रोक्तविधिना शुभम् ॥ १ ॥
शुभे मुहूर्ते लग्ने च ब्राह्मणैर्वेदपारगैः ।
आकारिताः शिष्यगणैर्देवदानवराक्षसाः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे नवमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे नवमोऽध्यायः
बालचरिते हाहादिस्तुतिः

॥ ब्रह्मोवाच ॥

अन्यन् ते कथयिष्यामि चरितं बालरूपिणः ।
गजाननस्याघहरं शृणुष्वेकमना मुने ॥ १ ॥
एकस्मिन् समये हाहा हूहूस्तुम्बुरुरेव च ।
वीणागानरता वीणास्ता हरिपरायणाः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे अष्टमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे अष्टमोऽध्यायः
नक्रमोक्षणं

॥ ब्रह्मोवाच ॥

विरजां निहतां श्रुत्वा राक्षसीं बलवत्तराम् ।
उद्धतो धुन्धुरश्चापि राक्षसौ बलवत्तरौ ॥ १ ॥
आगतावाश्रमपदं कश्यपस्य महात्मनः ।
शुकरूपधरौ बालो दृष्ट्वा प्रोचेऽदितिं तदा ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे सप्तमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे सप्तमोऽध्यायः
विरजाराक्षसीमोक्षणं

॥ ब्रह्मोवाच ॥

वसिष्ठ वामदेवाद्या मुनय स्तनयं तदा ।
जातं महोत्कण्ट श्रुत्वा दर्शनाय प्रतस्थिरे ॥ १ ॥
याता गृहं कश्यपस्य तेनाऽथ परिपूजिताः ।
विष्टरं पाद्यमर्घ्यं च दत्त्वा गां चापि दक्षिणाम् ॥ २ ॥

123

------------------------------
------------------------------ Related Posts Plugin for WordPress, Blogger...