श्रीगणेशपुराणे क्रीडाखण्डे त्रिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे त्रिंशोऽध्यायः
बालचरिते वामनावतारकथनं

॥ ब्रह्मोवाच ॥

बलिस्तु हरिभक्तत्वान्न किञ्चिदन्वतप्यत ।
वेदवेदाङ्गवित् प्राज्ञः सर्वशास्त्रविशारदः ॥ १ ॥
परनिन्दापरद्रव्यपरद्रोहपराङ्मुखः ।
दाता यज्वा मानयिता मान्यानां परमादरात् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे एकोनत्रिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे एकोनत्रिंशोऽध्यायः

बालचरिते विरोचनवध
॥ ब्रह्मोवाच ॥

मयाज्ञप्तः कश्यपोऽसौ सृष्टिं नानाविधां कुरु ।
स विनीतो महाज्ञानी भूतभव्यभविष्यवित् ॥ १ ॥
अतिवैश्वानररवितेजाः सुतपसां निधिः ।
सृष्टिसामर्थ्यसम्प्राप्तौ तताप सुमहत् तपः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे अष्टाविंशतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे अष्टाविंशतितमोऽध्यायः
बालचरिते भीमराक्षसयोर्जन्मवर्णनं

॥ ब्रह्मोवाच ॥

स राजकार्यं कुरुते स्वयं भुङ्क्ते वरस्त्रियः ।
राष्ट्रे शृणोति रामां सोऽपति वा सपतिं तथा ॥ १ ॥
बलादानयते भोक्तुं क्रन्दतां रुदतामपि ।
न वा गणयते ज्ञातिभेदं विषयलम्पटः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे सप्तविंशतीतमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे सप्तविंशतीतमोऽध्यायः
बालचरिते साम्बदुःशासनवर्णनं

॥ व्यास उवाच ॥

पूर्वजन्मनि व्याधोऽसौ क आसीद् राक्षसोऽपि सः ।
किं शीलं किं समाचारस्तन्ममाचक्ष्व नाभिज ॥ १ ॥
अनुष्ठानं कृतं तेन वामनेन कथं प्रभो ।
कथं तस्मै वरो दत्तो गजाननस्वरुपिणा ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे षड्विंशतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे षड्विंशतितमोऽध्यायः
भीमराक्षसमोक्षणं

॥ मुनिरुवाच ॥

किं कर्म कृतवान् व्याधः कथं पत्रं समर्पितम् ।
किं नामा स कथं प्राप्तः सालोक्यं तद्वदस्व मे ॥ १ ॥
॥ ब्रह्मोवाच ॥
विदर्भदेशे नगर मदिषाख्यं बभूव ह ।
विख्यातं त्रिषु लोकेषु कुबेरनगरोपमम् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चविंशतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चविंशतितमोऽध्यायः
बालचरिते भक्तिप्रशंसा कथनं

॥ तावूचतुः ॥

सर्वेषां कारणानां त्वं कारणं कारणातिगः ।
ब्रह्मस्वरूपो ब्रह्माण्डकारणं व्यापकः परः ॥ १ ॥
पासीदं सृजसे विश्वं त्वमेव हरसेऽनघ ।
नानारूपैररूपस्त्वं नानामाया बलान्वितः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे चतुर्विंशतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे चतुर्विंशतितमोऽध्यायः
विनायक भोजनकथनं

॥ ब्रह्मोवाच ॥

व्यलोकयंस्तं नगरे तस्मिन् सर्वे महाजनाः ।
विधाय पूजासामग्रीं भोजनस्याप्यनेकधा ॥ १ ॥
गृहे गृहे राजगृहे सर्वाऽमात्यगृहेऽपि च ।
गवेषयन्ति स्म जनास्तदा कश्यपनन्दनम् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे त्रयोविंशतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे त्रयोविंशतितमोऽध्यायः
बालचरिते शुक्लवर प्रदानं

॥ ब्रह्मोवाच ॥

स बालो बालमध्ये तु चिक्रीडे कौतुकान्वितः ।
राजा भद्रासनगतो नृत्यं सर्वजनैः सह ॥ १ ॥
यावत्पश्यति वेश्यानां तावदेवागतावुभौ ।
देवलोकात् सदो रम्यं सनकश्च सनन्दनः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे द्वाविंशतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे द्वाविंशतितमोऽध्यायः
बालचरिते विद्रुमाशुक्लनिष्ठगणेशभक्तिनिरुपणं

॥ ब्रह्मोवाच ॥

अपरस्मिन् दिने राजा प्रातःस्नानकृतोद्यमः ।
पौराः सर्वे वितर्क्यैवं नायं देवो न मानुषः ॥ १ ॥
न देवश्चेत् कथं पञ्च महान्तो देवदुर्धराः ।
अजेयाः शक्रहरिभिर्हता दैत्या महाबलाः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे एकविंशतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे एकविंशतितमोऽध्यायः
बालचरिते राक्षसीवध

॥ ब्रह्मोवाच ॥

शृणु द्विज महाश्चर्यं कथ्यमानं मया तव ।
विनायकस्य चरितं सर्वपापहरं नृणाम् ॥ १ ॥
अम्भासुरस्य यो मूर्धा स गतो निजमन्दिरम् ।
भ्रमरी या निरैक्षिष्ट सखी सा तां न्यबोधयत् ॥ २ ॥

123