श्रीलिङ्गमहापुराण -[पूर्वभाग] -102

श्रीलिङ्गमहापुराण -[पूर्वभाग] -102
॥ श्रीसाम्बसदाशिवाय नमः ॥
एक सौ दोवाँ अध्याय
पार्वती की तपस्या से प्रसन्न हो भगवान् शिव का ब्राह्मणवेष में आकर उन्हें वरदान देना, हिमालय द्वारा पार्वती स्वयंवर की घोषणा, स्वयंवर में भगवान् शिव का बालरूप में उपस्थित होकर सभी को मोहित करना, पुनः ब्रह्मा की स्तुति से प्रसन्न हो महेश्वर का मनोहर वर रूप धारणकर सबको आनन्दित करना
श्रीलिङ्गमहापुराणे पूर्वभागे द्व्यधिकशततमोऽध्यायः
उमास्वयंवर

॥ सूत उवाच ॥
तपसा च महादेव्याः पार्वत्या वृषभध्वज ।
प्रीतिश्च भगवान् शर्वो वचनाद् ब्रह्मणस्तदा ॥ १ ॥
हिताय चाश्रमाणां च क्रीडार्थं भगवान् भवः ।
तदा हैमवतीं देवीमुपयेमे यथाविधि ॥ २ ॥


जगाम स स्वयं ब्रह्मा मरीच्याद्यैर्महर्षिभिः ।
तपोवनं महादेव्याः पार्वत्याः पद्मसम्भवः ॥ ३ ॥
प्रदक्षिणीकृत्य च तां देवीं स जगतोऽरणीम् ।
किमर्थं तपसा लोकान् सन्तापयसि शैलजे ॥ ४ ॥
त्वया सृष्टं जगत् सर्वं मातस्त्वं मा विनाशय ।
त्वं हि सन्धारयेल्लोकानिमान् सर्वान् स्वतेजसा ॥ ५ ॥
सर्वदेवेश्वरः श्रीमान् सर्वलोकपतिर्भवः ।
यस्य वै देवदेवस्य वयं किङ्करवादिनः ॥ ६ ॥
स एवं परमेशानः स्वयं च वरयिष्यति ।
वरदे येन सृष्टासि न विना यस्त्वयाम्बिके ॥ ७ ॥
वर्तते नात्र सन्देहस्तव भर्त्ता भविष्यति ।
इत्युक्त्वा तां नमस्कृत्य मुहुः सम्प्रेक्ष्य पार्वतीम् ॥ ८ ॥
गते पितामहे देवो भगवान् परमेश्वरः ।
जगामानुग्रहं कर्तुं द्विजरूपेण चाश्रमम् ॥ ९ ॥
सा च दृष्ट्वा महादेवं द्विजरूपेण संस्थितम् ।
प्रतिभाद्यैः प्रभुं ज्ञात्वा ननाम वृषभध्वजम् ॥ १० ॥
सम्पूज्य वरदं देवं ब्राह्मणच्छद्मनागतम् ।
तुष्टाव परमेशानं पार्वती परमेश्वरम् ॥ ११ ॥
अनुगृह्य तदा देवीमुवाच प्रहसन्निव ।
कुलधर्माश्रयं रक्षन् भूधरस्य महात्मनः ॥ १२ ॥
क्रीडार्थं च सतां मध्ये सर्वदेवपतिर्भवः ।
स्वयंवरे महादेवी तव दिव्यसुशोभने ॥ १३ ॥
आस्थाय रूपं यत्सौम्यं समेष्येऽहं सह त्वया ।
इत्युक्त्वा तां समालोक्य देवो दिव्येन चक्षुषा ॥ १४ ॥
जगामेष्टं तदा दिव्यं स्वपुरं प्रययौ च सा ।
दृष्ट्वा हृष्टस्तदा देवीं मेनया तुहिनाचलः ॥ १५ ॥
आलिङ्ग्याघ्राय सम्पूज्य पुत्रीं साक्षात्तपस्विनीम् ।
दुहितुर्देवदेवेन न जानन्नभिमन्त्रितम् ॥ १६ ॥
स्वयंवरं तदा देव्याः सर्वलोकेष्वघोषयत् ।
अथ ब्रह्मा च भगवान् विष्णुः साक्षाज्जनार्दनः ॥ १७ ॥
शक्रश्च भगवान् वह्निर्भास्करो भग एव च ।
त्वष्टार्यमा विवस्वांश्च यमो वरुण एव च ॥ १८ ॥
वायुः सोमस्तथेशानो रुद्राश्च मुनयस्तथा ।
अश्विनौ द्वादशादित्या गन्धर्वा गरुडस्तथा ॥ १९ ॥
यक्षाः सिद्धास्तथा साध्या दैत्याः किम्पुरुषोरगाः ।
समुद्राश्च नदा वेदा मन्त्राः स्तोत्रादयः क्षणाः ॥ २० ॥
नागाश्च पर्वताः सर्वे यज्ञाः सूर्यादयो ग्रहाः ।
त्रयस्त्रिंशच्च देवानां त्रयश्च त्रिशतं तथा ॥ २१ ॥
त्रयश्च त्रिसहस्रं च तथान्ये बहवः सुरा ।
जग्मुर्गिरीन्द्रपुत्र्यास्तु स्वयंवरमनुत्तमम् ॥ २२ ॥
अथ शैलसुता देवी हैममारुह्य शोभनम् ।
विमानं सर्वतोभद्रं सर्वरत्नैरलङ्कृतम् ॥ २३ ॥
अप्सरोभिः प्रनृत्ताभिः सर्वाभरणभूषितैः ।
गन्धर्वसिद्धैर्विविधैः किन्नरैश्च सुशोभनैः ॥ २४ ॥
बन्दिभिः स्तूयमाना च स्थिता शैलसुता तदा ।
सितातपत्रं रत्नांशु मिश्रितं चावहत्तथा ॥ २५ ॥
मालिनी गिरिपुत्र्यास्तु सन्ध्या पूर्णेन्दुमण्डलम् ।
चामरासक्तहस्ताभिर्दिव्यस्त्रीभिश्च संवृता ॥ २६ ॥
मालां गृह्य जया तस्थौ सुरद्रुमसमुद्भवाम् ।
विजया व्यजनं गृह्य स्थिता देव्याः समीपगा ॥ २७ ॥
मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि ।
शिशुर्भूत्वा महादेवः क्रीडार्थं वृषभध्वजः ॥ २८ ॥
उत्सङ्गतलसंसुप्तो बभूव भगवान् भवः ।
अथ दृष्ट्वा शिशुं देवास्तस्या उत्सङ्गवर्त्तिनम् ॥ २९ ॥
कोऽयमत्रेति सम्मन्त्र्य चुक्षुभुश्च समागताः ।
वज्रमाहारयत्तस्य बाहुमुद्यम्य वृत्रहा ॥ ३० ॥
स बाहुरुद्यमस्तस्य तथैव समुपस्थितः ।
स्तम्भितः शिशुरूपेण देवदेवेन लीलया ॥ ३१ ॥
वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं तथा ।
वह्निः शक्तिं तथा क्षेप्तुं न शशाक तथा स्थितः ॥ ३२ ॥
यमोऽपि दण्डं खड्गं च निर्ऋतिर्मुनिपुङ्गवाः ।
वरुणो नागपाशं च ध्वजयष्टिं समीरणः ॥ ३३ ॥
सोमो गदां धनेशश्च दण्डं दण्डभृतां वरः ।
ईशानश्च तथा शूलं तीव्रमुद्यम्य संस्थितः ॥ ३४ ॥
रुद्राश्च शूलमादित्या मुशलं वसवस्तथा ।
मुद्गरं स्तम्भिताः सर्वे देवेनाशु दिवौकसः ॥ ३५ ॥
स्तम्भिता देवदेवेन तथान्ये च दिवौकसः ।
शिरः प्रकम्पयन् विष्णुश्चक्रमुद्यम्य संस्थितः ॥ ३६ ॥
तस्यापि शिरसो बालः स्थिरत्वं प्रचकार ह ।
चक्रं क्षेप्तुं न शशाक बाहूंश्चालयितुं न च ॥ ३७ ॥
पूषा दन्तान् दशन् दन्तैर्बालमैक्षत मोहितः ।
तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना ॥ ३८ ॥
बलं तेजश्च योगं च तथैवास्तम्भयद्विभुः ।
अथ तेषु स्थितेष्वेव मन्युमत्सु सुरेष्वपि ॥ ३९ ॥
ब्रह्मा परमसंविग्नो ध्यानमास्थाय शङ्करम् ।
बुबुधे देवमीशानमुमोत्सङ्गे तमास्थितम् ॥ ४० ॥
स बुद्ध्वा देवमीशानं शीघ्रमुत्थाय विस्मितः ।
ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः ॥ ४१ ॥
पुराणैः सामसङ्गीतैः पुण्याख्यैर्गुह्यनामभिः ।
स्त्रष्टा त्वं सर्वलोकानां प्रकृतेश्च प्रवर्तकः ॥ ४२ ॥
बुद्धिस्त्वं सर्वलोकानामहङ्कारस्त्वमीश्वरः ।
भूतानामिन्द्रियाणां च त्वमेवेश प्रवर्त्तकः ॥ ४३ ॥
तवाहं दक्षिणाद्धस्तात्सृष्टः पूर्वं पुरातनः ।
वामहस्तान्महाबाहो देवो नारायणः प्रभुः ॥ ४४ ॥
इयं च प्रकृतिर्देवी सदा ते सृष्टिकारण ।
पत्नीरूपं समास्थाय जगत्कारणमागता ॥ ४५ ॥
नमस्तुभ्यं महादेव महादेव्यै नमो नमः ।
प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ॥ ४६ ॥
देवाद्यास्तु इमाः सृष्टा मूढास्त्वद्योगमोहिताः ।
कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे ॥ ४७ ॥
॥ सूत उवाच ॥
विज्ञाप्यैवं तदा ब्रह्मा देवदेवं महेश्वरम् ।
संस्तम्भितांस्तदा तेन भगवानाह पद्मजः ॥ ४८ ॥
मूढास्थ देवताः सर्वा नैव बुध्यत शङ्करम् ।
देवदेवमिहायान्तं सर्वदेवनमस्कृतम् ॥ ४९ ॥
गच्छध्वं शरणं शीघ्रं देवाः शक्रपुरोगमाः ।
सनारायणकाः सर्वे मुनिभिः शङ्करं प्रभुम् ॥ ५० ॥
सार्धं मयैव देवेशं परमात्मानमीश्वरम् ।
अनया हैमवत्या च प्रकृत्या सह सत्तमम् ॥ ५१ ॥
तत्र ते स्तम्भितास्तेन तथैव सुरसत्तमाः ।
प्रणेमुर्मनसा सर्वे सनारायणकाः प्रभुम् ॥ ५२ ॥
अथ तेषां प्रसन्नो भूद्देवदेवस्त्रियम्बकः ।
यथापूर्वं चकाराशु वचनाद् ब्रह्मणः प्रभुः ॥ ५३ ॥
तत एवं प्रसन्ने तु सर्वदेवनिवारणम् ।
वपुश्चकार देवेशो दिव्यं परममद्भुतम् ॥ ५४ ॥
तेजसा तस्य देवास्ते सेन्द्रचन्द्रदिवाकराः ।
सब्रह्मकाः ससाध्याश्च सनारायणकास्तथा ॥ ५५ ॥
सयमाश्च सरुद्राश्च चक्षुरप्रार्थयन् विभुम् ।
तेभ्यश्च परमं चक्षुः सर्वदृष्टौ च शक्तिमत् ॥ ५६ ॥
ददावम्बापतिः शर्वो भवान्याश्च चलस्य च ।
लब्ध्वा चक्षुस्तदा देवा इन्द्रविष्णुपुरोगमाः ॥ ५७ ॥
सब्रह्मकाः सशक्राश्च तमपश्यन्महेश्वरम् ।
ब्रह्माद्या नेमिरे तूर्णं भवानी च गिरीश्वरः ॥ ५८ ॥
मुनयश्च महादेवं गणेशाः शिवसम्मताः ।
ससर्जुः पुष्पवृष्टिं च खेचराः सिद्धचारणाः ॥ ५९ ॥
देवदुन्दुभयो नेदुस्तुष्टुवुर्मुनयः प्रभुम् ।
जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ॥ ६० ॥
मुमुहुर्गणपाः सर्वे मुमोदाम्बा च पार्वती ।
तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ॥ ६१ ॥
पादयोः स्थापयामास मालां दिव्यां सुगन्धिनीम् ।
साधु साध्विति सम्प्रोच्य तया तत्रैव चार्चितम् ॥ ६२ ॥
सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः ।
सर्वे सब्रह्मका देवाः सयक्षोरगराक्षसाः ॥ ६३ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे उमास्वयंवरो नाम द्व्यधिकशततमोऽध्यायः ॥ १०२ ॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-102

कोई टिप्पणी नहीं:

123