श्रीलिङ्गमहापुराण -[पूर्वभाग] -107

श्रीलिङ्गमहापुराण -[पूर्वभाग] -107
॥ श्रीसाम्बसदाशिवाय नमः ॥
एक सौ सातवाँ अध्याय
शिवभक्त उपमन्यु की कथा तथा उमामहेश्वर द्वारा उस पर अनुग्रह करना
श्रीलिङ्गमहापुराणे पूर्वभागे सप्ताधिकशततमोऽध्याय
उपमन्युचरितं

॥ ऋषय ऊचुः ॥
पुरोपमन्युना सूत गाणपत्यं महेश्वरात् ।
क्षीरार्णवः कथं लब्धो वक्तुमर्हसि साम्प्रतम् ॥ १ ॥
॥ सूत उवाच ॥
एवं कालीमुपालभ्य गते देवे त्रियम्बके ।
उपमन्युः समभ्यर्च्य तपसा लब्धवान् फलम् ॥ २ ॥


उपमन्युरिति ख्यातो मुनिश्च द्विजसत्तमाः ।
कुमार इव तेजस्वी क्रीडमानो यदृच्छया ॥ ३ ॥
कदाचित् क्षीरमल्पं च पीतवान् मातुलाश्रमे ।
ईर्ष्यया मातुलसुतो ह्यपिबत् क्षीरमुत्तमम् ॥ ४ ॥
पीत्वा स्थितं यथाकामं दृष्ट्वा प्रोवाच मातरम् ।
मातर्मातर्महाभागे मम देहि तपस्विनि ॥ ५ ॥
गव्यं क्षीरमतिस्वादु नाल्पमुष्णं नमाम्यहम् ।
॥ सूत उवाच ॥
उपलालितैवं पुत्रेण पुत्रमालिङ्ग्य सादरम् ॥ ६ ॥
दुःखिता विललापार्ता स्मृत्वा नैर्धन्यमात्मनः ।
स्मृत्वा स्मृत्वा पुनः क्षीरमुपमन्युरपि द्विजाः ।
देहि देहीति तामाह रोदमानो महाद्युतिः ॥ ७ ॥
उञ्छवृत्त्यार्जितान् बीजान् स्वयं पिष्ट्वा च सा तदा ।
बीजपिष्टं तदालोड्य तोयेन कलभाषिणी ॥ ८ ॥
ऐह्येहि मम पुत्रेति सामपूर्वं ततः सुतम् ।
आलिङ्ग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः ॥ ९ ॥
पीत्वा च कृत्रिमं क्षीरं मात्रा दत्तं द्विजोत्तमाः ।
नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः ॥ १० ॥
दुःखिता सा तदा प्राह सम्प्रेक्ष्याघ्राय मूर्धनि ।
सम्मार्ज्य नेत्रे पुत्रस्य कराभ्यां कमलायते ॥ ११ ॥
तटिनी रत्नपूर्णास्ते स्वर्गपातालगोचराः ।
भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे ॥ १२ ॥
राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसम्भवम् ।
न लभन्ते प्रियाण्येषां नो तुष्यति सदा भवः ॥ १३ ॥
भवप्रसादजं सर्वं नान्यदेवप्रसादजम् ।
अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥ १४ ॥
क्षीरं तत्र कुतोऽस्माकं महादेवो न पूजितः ।
पूर्वजन्मनि यद्दत्तं शिवमुद्यम्य वै सुत ॥ १५ ॥
तदेव लभ्यं नान्यत्तु विष्णुमुद्यम्य वा प्रभुम् ।
निशम्य वचनं मातुरुपमन्युर्महाद्युतिः ॥ १६ ॥
बालोऽपि मातरं प्राह प्रणिपत्य तपस्विनीम् ।
त्यज शोकं महाभागे महादेवोऽस्ति चेत्क्वचित् ॥ १७ ॥
चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम् ।
॥ सूत उवाच ॥
तां प्रणम्यैवमुक्त्वा स तपः कर्तुं प्रचक्रमे ॥ १८ ॥
तमाह माता सुशुभं कुर्विति सुतरां सुतम् ।
अनुज्ञातस्तया तत्र तपस्तेपे सुदुस्तरम् ॥ १९ ॥
हिमवत् पर्वतं प्राप्य वायुभक्षः समाहितः ।
तपसा तस्य विप्रस्य विधूपितमभूज्जगत् ॥ २० ॥
प्रणम्याहुस्तु तत्सर्वे हरये देवसत्तमाः ।
श्रुत्वा तेषां तदा वाक्यं भगवान् पुरुषोत्तमः ॥ २१ ॥
किमिदं त्विति सञ्चिन्त्य ज्ञात्वा तत्कारणं च सः ।
जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया ॥ २२ ॥
दृष्ट्वा देवं प्रणम्यैवं प्रोवाचेदं कृताञ्जलिः ।
भगवन् ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः ॥ २३ ॥
क्षीरार्थमदहत् सर्वं तपसा तं निवारय ।
एतस्मिन्नन्तरे देवः पिनाकी परमेश्वरः ।
शक्ररूपं समास्थाय गन्तुं चक्रे मतिं तदा ॥ २४ ॥
अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः ।
सह सुरासुरसिद्धमहोरगैरमरराजतनुं स्वयमास्थितः ॥ २५ ॥
सहैव चारुह्य तदा द्विपं तं प्रगृह्य वालव्यजनं विवस्वान् ।*
वामेन शच्या सहितं सुरेन्द्रं करेण चान्येन सितातपत्रम् ॥ २६ ॥*
रराज भगवान् सोमः शक्ररूपी सदाशिवः ।
सितातपत्रेण यथा चन्द्रबिम्बेन मन्दरः ॥ २७ ॥
आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः ।
जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ॥ २८ ॥
तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् ।
प्रणम्य शिरसा प्राह मुनिर्मुनिवराः स्वयम् ॥ २९ ॥
पावितश्चाश्रमश्चायं मम देवेश्वरः स्वयम् ।
प्राप्तः शक्रो जगन्नाथो भगवान् भानुना प्रभुः ॥ ३० ॥
एवमुक्त्वा स्थितं वीक्ष्य कृताञ्जलिपुटं द्विजम् ।
प्राह गम्भीरया वाचा शक्ररूपधरो हरः ॥ ३१ ॥
तुष्टोऽस्मि ते वरं ब्रूहि तपसानेन सुव्रत ।
ददामि चेप्सितान् सर्वान् धौम्याग्रज महामते ॥ ३२ ॥
एवमुक्तस्तदा तेन शक्रेण मुनिसत्तमः ।
वरयामि शिवे भक्तिमित्युवाच कृताञ्जलिः ॥ ३३ ॥
ततो निशम्य वचनं मुनेः कुपितवत् प्रभुः ।
प्राह सव्यग्रमीशानः शक्ररूपधरः स्वयम् ॥ ३४ ॥
मां न जानासि देवर्षे देवराजानमीश्वरम् ।
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥ ३५ ॥
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ।
ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥ ३६ ॥
ततः शक्रस्य वचनं श्रुत्वा श्रोत्रविदारणम् ।
उपमन्युरिदं प्राह जपन् पञ्चाक्षरं शुभम् ॥ ३७ ॥
मन्ये शक्रस्य रूपेण नूनमत्रागतः स्वयम् ।
कर्तुं दैत्याधमः कश्चिद्धर्मविघ्नं च नान्यथा ॥ ३८ ॥
त्वयैव कथितं सर्वं भवनिन्दारतेन वै ।
प्रसङ्गाद्देवदेवस्य निर्गुणत्वं महात्मनः ॥ ३९ ॥
बहुनात्र किमुक्तेन मयाद्यानुमितं महत् ।
भवान्तरकृतं पापं श्रुता निन्दा भवस्य तु ॥ ४० ॥
श्रुत्वा निन्दां भवस्याथ तत्क्षणादेव सन्त्यजेत् ।
स्वदेहं तं निहत्याशु शिवलोकं स गच्छति ॥ ४१ ॥
यो वाचोत्पाटयेज्जिह्वां शिवनिन्दारतस्य तु ।
त्रिः सप्तकुलमुद्धृत्य शिवलोकं स गच्छति ॥ ४२ ॥
आस्तां तावन्ममेच्छायाः क्षीरं प्रति सुराधमम् ।
निहत्य त्वां शिवास्त्रेण त्यजाम्येतत्कलेवरम् ॥ ४३ ॥
पुरा मात्रा तु कथितं तथ्यमेव न संशयः ।
पूर्वजन्मनि चास्माभिरपूजित इति प्रभुः ॥ ४४ ॥
एवमुक्त्वा तु तं देवमुपमन्युरभीतवत् ।
शक्रं चक्रे मतिं हन्तुमथर्वास्त्रेण मन्त्रवित् ॥ ४५ ॥
भस्माधारान्महातेजा भस्ममुष्टिं प्रगृह्य च ।
अथर्वास्त्रं ततस्तस्मै ससर्ज च ननाद च ॥ ४६ ॥
दग्धुं स्वदेहमाग्नेयीं ध्यात्वा वै धारणां तदा ।
अतिष्ठच्च महातेजाः शुष्केन्धनमिवाव्ययः ॥ ४७ ॥
एवं व्यवसिते विप्रे भगवान् भगनेत्रहा ।
वारयामास सौम्येन धारणां तस्य योगिनः ॥ ४८ ॥
अथर्वास्त्रं तदा तस्य संहृतं चन्द्रकेण तु ।
कालाग्निसदृशं चेदं नियोगान्नन्दिनस्तथा ॥ ४९ ॥
स्वरूपमेव भगवानास्थाय परमेश्वरः ।
दर्शयामास विप्राय बालेन्दुकृतशेखरम् ॥ ५० ॥
क्षीरधारासहस्रं च क्षीरोदार्णवमेव च ।
दध्यादेरर्णवं चैव घृतोदार्णवमेव च ॥ ५१ ॥
फलार्णवं च बालस्य भक्ष्यभोज्यार्णवं तथा ।
अपूपगिरयश्चैव तथातिष्ठन् समन्ततः ॥ ५२ ॥
उपमन्युमुवाच सस्मितो भगवान् बन्धुजनैः समावृतम् ।
गिरिजामवलोक्य सस्मितां सघृणं प्रेक्ष्यतु तं तदा घृणी ॥ ५३ ॥
भुङ्क्ष्व भोगान्यथाकामं बान्धवैः पश्य वत्स मे ।
उपमन्यो महाभाग तवाम्बैषा हि पार्वती ॥ ५४ ॥
मया पुत्रीकृतोऽस्यद्य दत्तः क्षीरोदधिस्तथा ।
मधुनश्चार्णवश्चैव दध्नश्चार्णव एव च ॥ ५५ ॥
आज्योदनार्णवश्चैव फललेह्यार्णवस्तथा ।
अपूपगिरयश्चैव भक्ष्यभोज्यार्णवः पुनः ॥ ५६ ॥
पिता तव महादेवः पिता वै जगतां मुने ।
माता तव महाभागा जगन्माता न संशयः ॥ ५७ ॥
अमरत्वं मया दत्तं गाणपत्यं च शाश्वतम् ।
वरान् वरय दास्यामि नात्र कार्या विचारणा ॥ ५८ ॥
एवमुक्त्वा महादेवः कराभ्यामुपगृह्य तम् ।
आघ्राय मूर्धनि विभुर्ददौ देव्यास्तदा भवः ॥ ५९ ॥
देवी तनयमालोक्य ददौ तस्मै गिरीन्द्रजा ।
योगैश्वर्यं तदा तुष्टा ब्रह्मविद्यां द्विजोत्तमाः ॥ ६० ॥
सोऽपि लब्ध्वा वरं तस्याः कुमारत्वं च सर्वदा ।
तुष्टाव च महादेवं हर्षगद्गदया गिरा ॥ ६१ ॥
वरयामास च तदा वरेण्यं विरजेक्षणम् ।
कृताञ्जलिपुटो भूत्वा प्रणिपत्य पुनः पुनः ॥ ६२ ॥
प्रसीद देवदेवेश त्वयि चाव्यभिचारिणी ।
श्रद्धा चैव महादेव सान्निध्यं चैव सर्वदा ॥ ६३ ॥
एवमुक्तस्तदा तेन प्रहसन्निव शङ्करः ।
दत्त्वेप्सितं हि विप्राय तत्रैवान्तरधीयत ॥ ६४ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे उपमन्युचरितं नाम सप्ताधिकशततमोऽध्यायः ॥ १०७ ॥

See Also:- उपमन्यु पर अनुग्रह करने के लिये शिव के सुरेश्वरावतार का वर्णन

स अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-107

कोई टिप्पणी नहीं:

123