श्रीलिङ्गमहापुराण -[पूर्वभाग] -101

श्रीलिङ्गमहापुराण -[पूर्वभाग] -101
॥ श्रीसाम्बसदाशिवाय नमः ॥
एक सौ एकवाँ अध्याय
सती का हिमवान् की पुत्री पार्वती के रूप में प्राकट्य, शिव की प्राप्ति के लिये उनका कठोर तप, तारकासुर द्वारा देवताओं को पराजित करना, शिव द्वारा कामदेव का दहन तथा पुनः जीवित करना
श्रीलिङ्गमहापुराणे पूर्वभागे एकाधिकशततमोऽध्यायः
मदनदाह
॥ ऋषय ऊचुः ॥
कथं हिमवतः पुत्री बभूवाम्बा सती शुभा ।
कथं वा देवदेवेशमवाप पतिमीश्वरम् ॥ १ ॥
॥ सूत उवाच ॥
सा मेनातनुमाश्रित्य स्वेच्छयैव वराङ्गना ।
तदा हैमवती जज्ञे तपसा च द्विजोत्तमाः ॥ २ ॥


जातकर्मादिकाः सर्वाश्चकार च गिरीश्वरः ।
द्वादशे च तदा वर्षे पूर्णे हैमवती शुभा ॥ ३ ॥
तपस्तेपे तया सार्धमनुजा च शुभानना ।
अन्या च देवी ह्यनुजा सर्वलोके नमस्कृता ॥ ४ ॥
ऋषयश्च तदा सर्वे सर्वलोकमहेश्वरीम् ।
तुष्टुवुस्तपसा देवीं समावृत्य समन्ततः ॥ ५ ॥
ज्येष्ठा ह्यपर्णा ह्यनुजा चैकपर्णा शुभानना ।
तृतीया च वरारोहा तथा चैवैकपाटला ॥ ६ ॥
तपसा च महादेव्याः पार्वत्याः परमेश्वरः ।
वशीकृतो महादेवः सर्वभूतपतिर्भवः ॥ ७ ॥
एतस्मिन्नेव काले तु तारको नाम दानवः ।
तारात्मजो महातेजा बभूव दितिनन्दनः ॥ ८ ॥
तस्य पुत्रास्त्रयश्चापि तारकाक्षो महासुरः ।
विद्युन्माली च भगवान् कमलाक्षश्च वीर्यवान् ॥ ९ ॥
पितामहस्तथा चैषां तारो नाम महाबलः ।
तपसा लब्धवीर्यश्च प्रसादाद् ब्रह्मणः प्रभोः ॥ १० ॥
सोऽपि तारो महातेजास्त्रैलोक्यं सचराचरम् ।
विजित्य समरे पूर्वं विष्णुं च जितवानसौ ॥ ११ ॥
तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ।
दिव्यं वर्षसहस्रं तु दिवारात्रमविश्रमम् ॥ १२ ॥
सरथं विष्णुमादाय चिक्षेप शतयोजनम् ।
तारेण विजितः संख्ये दुद्राव गरुडध्वजः ॥ १३ ॥
तारो वराञ्छतगुणं लब्ध्वा शतगुणं बलम् ।
पितामहाज्जगत् सर्वमवाप दितिनन्दनः ॥ १४ ॥
देवेन्द्रप्रमुखाञ्जित्वा देवान् देवेश्वरेश्वरः ।
वारयामास तैर्देवान् सर्वलोकेषु मायया ॥ १५ ॥
देवताश्च सहेन्द्रेण तारकाद्भयपीडिताः ।
न शान्तिं लेभिरे शूराः शरणं वा भयार्दिताः ॥ १६ ॥
तदामरपतिः श्रीमान् सन्निपत्यामरप्रभुः ।
उवाचाङ्गिरसं देवो देवानामपि सन्निधौ ॥ १७ ॥
भगवंस्तारको नाम तारजो दानवोत्तमः ।
तेन सन्निहता युद्धे वत्सा गोपतिना यथा ॥ १८ ॥
भयात्तस्मान्महाभाग बृहद्युद्धे बृहस्पते ।
अनिकेता भ्रमन्त्येते शकुन्ता इव पञ्जरे ॥ १९ ॥
अस्माकं यान्यमोघानि आयुधान्यङ्गिरो वर ।
तानि मोघानि जायन्ते प्रभावादमरद्विषः ॥ २० ॥
दशवर्षसहस्राणि द्विगुणानि बृहस्पते ।
विष्णुना योधितो युद्धे तेनापि न च सूदितः ॥ २१ ॥
यस्तेनानिर्जितो युद्धे विष्णुना प्रभविष्णुना ।
कथमस्मद्विधस्तस्य स्थास्यते समरेऽग्रतः ॥ २२ ॥
एवमुक्तस्तु शक्रेण जीवः सार्धं सुराधिपैः ।
सहस्राक्षेण च विभुं सम्प्राप्याह कुशध्वजम् ॥ २३ ॥
सोऽपि तस्य मुखाच्छ्रुत्वा प्रणयात् प्रणतार्तिहा ।
देवैरशेषैः सेन्द्रैस्तु जीवमाह पितामहः ॥ २४ ॥
जाने वोऽर्तिं सुरेन्द्राणां तथापि शृणु साम्प्रतम् ।
विनिन्द्य दक्षं या देवी सती रुद्राङ्गसम्भवा ॥ २५ ॥
उमा हैमवती जज्ञे सर्वलोकनमस्कृता ।
तस्याश्चैवेह रूपेण यूयं देवाः सुरोत्तमाः ॥ २६ ॥
विभोर्यतध्वमाक्रष्टुं रुद्रस्यास्य मनो महत् ।
तयोर्योगेन सम्भूतः स्कन्दः शक्तिधरः प्रभुः ॥ २७ ॥
षडास्यो द्वादशभुजः सेनानीः पावकिः प्रभुः ।
स्वाहेयः कार्तिकेयश्च गाङ्गेयः शरधामजः ॥ २८ ॥
देवः शाखो विशाखश्च नैगमेशश्च वीर्यवान् ।
सेनापतिः कुमाराख्यः सर्वलोकनमस्कृतः ॥ २९ ॥
लीलयैव महासेनः प्रबलं तारकासुरम् ।
बालोऽपि विनिहत्यैको देवान् सन्तारयिष्यति ॥ ३० ॥
एवमुक्तस्तदा तेन ब्रह्मणा परमेष्ठिना ।
बृहस्पतिस्तथा सेन्द्रैर्देवैर्देवं प्रणम्य तम् ॥ ३१ ॥
मेरोः शिखरमासाद्य स्मरं सस्मार सुव्रतः ।
स्मरणाद्देवदेवस्य स्मरोऽपि सह भार्यया ॥ ३२ ॥
रत्या समं समागम्य नमस्कृत्य कृताञ्जलिः ।
सशक्रमाह तं जीवं जगज्जीवो द्विजोत्तमाः ॥ ३३ ॥
स्मृतो यद्भवता जीव सम्प्राप्तोऽहं तवान्तिकम् ।
ब्रूहि यन्मे विधातव्यं तमाह सुरपूजितः ॥ ३४ ॥
तमाह भगवान् शक्रः सम्भाव्य मकरध्वजम् ।
शङ्करेणाम्बिकामद्य संयोजय यथासुखम् ॥ ३५ ॥
तया स रमते येन भगवान् वृषभध्वजः ।
तेन मार्गेण मार्गस्व पत्न्या रत्यानया सह ॥ ३६ ॥
सोऽपि तुष्टो महादेवः प्रदास्यति शुभां गतिम् ।
विप्रयुक्तस्तया पूर्वं लब्ध्वा तां गिरिजामुमाम् ॥ ३७ ॥
एवमुक्तो नमस्कृत्य देवदेवं शचीपतिम् ।
देवदेवाश्रमं गन्तुं मतिं चक्रे तया सह ॥ ३८ ॥
गत्वा तदाश्रये शम्भोः सह रत्या महाबलः ।
वसन्तेन सहायेन देवं योक्तुमना भवत् ॥ ३९ ॥
ततः सम्प्रेक्ष्य मदनं हसन् देवस्त्रियम्बकः ।
नयनेन तृतीयेन सावज्ञं तमवैक्षत ॥ ४० ॥
ततोऽस्य नेत्रजो वह्निर्मदनं पार्श्वतः स्थितम् ।
अदहत्तत्क्षणादेव ललाप करुणं रतिः ॥ ४१ ॥
रत्याः प्रलापमाकर्ण्य देवदेवो वृषध्वजः ।
कृपया परया प्राह कामपत्नीं निरीक्ष्य च ॥ ४२ ॥
अमूर्तोऽपि ध्रुवं भद्रे कार्यं सर्वं पतिस्तव ।
रतिकाले ध्रुवे भद्रे करिष्यति न संशयः ॥ ४३ ॥
यदा विष्णुश्च भविता वासुदेवो महायशाः ।
शापाद् भृगोर्महातेजाः सर्वलोकहिताय वै ॥ ४४ ॥
तदा तस्य सुतो यश्च स पतिस्ते भविष्यति ।
सा प्रणम्य तदा रुद्रं कामपत्नी शुचिस्मिता ॥ ४५ ॥
जगाम मदनं लब्ध्वा वसन्तेन समन्विता ॥ ४६ ॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे मदनदाहो नामैकाधिकशततमोऽध्यायः ॥ १०१॥

इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[पूर्वभाग]-अध्याय-101

कोई टिप्पणी नहीं:

123