श्रीगणेशपुराणे उपासनाखण्डे षष्टितमोऽध्यायः
अङ्गारक चतुर्थी व्रतोपाख्यान
॥ ब्रह्मोवाच ॥
अङ्गारकचतुर्थ्यास्तु महिमानं महीपते ।
शृणुष्वावहितो भूत्वा कथयामि समासतः ॥ १ ॥
अवन्तीनगरे राजन् भारद्वाजो महामुनि ।
वेदवेदाङ्गवित् प्राज्ञः सर्वशास्त्रविशारदः ॥ २ ॥
