श्रीगणेशपुराणे क्रीडाखण्डे सप्तषष्टितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे सप्तषष्टितमोऽध्यायः

अस्त्रयुद्धं
॥ क उवाच ॥

स तज्ज्ञात्वा महाश्चर्यं चकार निजचेतसि ।
ततो विनायकः क्रोधात् सिंहारूढो रणोत्सुकः ॥ १ ॥
स्वगर्जितेन च तदा गर्जयन् गगनं दिशः ।
कम्पयन् सर्वलोकानां मनांसि पर्वतानपि ॥ २ ॥


ययौ वेगेन महता देवान्तकसमीपतः ।
प्रहस्य तमुवाचाथ दैत्यो देवान्तकस्तदा ॥ ३ ॥
॥ दैत्य उवाच ॥
कथं यातः शुष्कतालुर्नवनीतादनक्षमः ।
युद्धाय बाल न स्थेयं गच्छ मातुः स्तनं पिब ॥ ४ ॥
अदित्यां कश्यपाज्जातः कथं मूढ त्वमागतः ।
यतो देवान्तकेनाद्य योद्धुमिच्छसि बालक ॥ ५ ॥
कालो बिभेति मां दृष्ट्वा वृथा त्वं मर्तुमिच्छसि ।
अतिकोमलगात्रत्वाद् ग्रासमात्रं भविष्यसि ॥ ६ ॥
॥ क उवाच ॥
इति दैत्यवचः श्रुत्वा क्रोधसंरक्तलोचनः ।
विनायकः प्रहस्याह वमन् वक्त्राद् हुताशनम् ॥ ७ ॥
॥ देव उवाच ॥
क्षीवोऽसि मद्यपानेन प्रायो वा सन्निपातवान् ।
असम्बद्धं युक्तिहीनं वल्गसे मूढभावतः ॥ ८ ॥
वह्निर्दहति सर्वं हि लघुर्वायुसमीरितः ।
त्वद्वाक्यनुन्नस्त्वां हन्यां दैत्याधम न बुध्यसे ॥ ९ ॥
इदानीं त्यज बुद्धिं तां नान्तको विद्यते मम ।
त्वदर्थमवतीर्णोऽहं ब्रह्मभूतः सनातनः ॥ १० ॥
स्थाणोर्वरस्य गर्वेण कृतं ते सर्वपीडनम् ।
अवधिं तस्य सम्प्राप्तं बुद्धिहीन न बुध्यसे ॥ ११ ॥
त्रैलोक्यपीडया पापं यज्जातं तव दुर्मते ।
अलं ते कत्थनेनाद्य दर्शयस्व स्वपौरुषम् ॥ १२ ॥
शक्तिपायोर्विनिर्गत्य कस्त्वां वक्त्रं प्रदर्शयेत् ।
सहस्व प्रहरस्वाद्य यदि युद्धं त्वमिच्छसि ॥ १३ ॥
श्वोभाविनं मृत्युमद्य मूढभावात्त्वमिच्छसि ।
॥ क उवाच ॥
एवमाभाष्य तं दैत्यं सज्जं चक्रे धनुः प्रभुः ॥ १४ ॥
नरान्तगतिं तस्य दातुमिच्छन्विनायकः ।
टणत्कारेण धनुषश्चकम्पे भुवनत्रयम् ॥ १५ ॥
आकर्णं ज्यामथाकृष्य बाणं दैत्ये ससर्ज ह ।
दैत्येन शतधा भिन्नः स बाणः पतितो भुवि ॥ १६ ॥
ततो दैत्यो धनुः सज्यं कृत्वा चिक्षेप सायकान् ।
धनुषस्तस्य शब्देन विनेदुः पर्वता दिशः ॥ १७ ॥
हुङ्कारेण च तान् बाणान् पातयामास विघ्नराट् ।
पुनर्विनायको बाणान् बहूँश्चिक्षेप दैत्यपे ॥ १८ ॥
एकेन मुकुटं तस्य शरेण कर्णकुण्डले ।
भूमौ न्यपातयद्देवो बाहू द्वाभ्यां बिभेद च ॥ १९ ॥
ललाटं सायकेनैव ततो दैत्यो रुषान्वितः ।
चचर्व दन्तान्नेत्रे च विस्फार्यान्यान् शरान्बहून् ॥ २० ॥
छादयन् गगनं काष्ठा विससर्ज विनायकम् ।
निरास्यैकेन बाणेन खमध्ये तान्विनायकः ॥ २१ ॥
स्वयं चक्रे मण्डपं स क्षणाद् बाणमयं विभुः ।
अन्धकारे घोरतरे युयुधाते परस्परम् ॥ २२ ॥
शरवृष्टया बाणवृष्टिं निजघ्नतू रुषान्वितौ ।
शतशस्तौ निराकृत्य बाणवृष्टी उभावपि ॥ २३ ॥
ततो दैत्यो महामन्त्रं जप्त्वाऽष्टशतसङ्ख्यया ।
मन्त्रयामास तेनाशु वारणास्रेण सायकम् ॥ २४ ॥
तत्याजाथ प्रादुरासन् वारणाः कोटिशस्ततः ।
चतुर्दन्ता गिरिनिभा मेरुमन्दरचूर्णिनः ॥ २५ ॥
येषां मदवहा नद्यः प्रादुरासन् समन्ततः ।
येषां बृंहितमात्रेण नादितं भुवनत्रयम् ॥ २६ ॥
यथा घनानां वर्षासु गर्जितेन महामुने ।
नाशयामासुरनिशं देवसैन्यानि ते गजाः ॥ २७ ॥
धावतां पृष्ठलग्नास्ते गजा यान्ति दिशो दश ।
पादाघातैश्च हस्तैश्च दन्ताग्रैर्वीरघातिनः ॥ २८ ॥
सेनायाः कदनं दृष्ट्वा सिंहास्रं प्राक्षिपद्विभुः ।
ततः सिंहाः प्रादुरासन्शतशोऽथ सहस्रशः ॥ २९ ॥
तेषां गर्जित शब्देन गजा निपतिता भुवि ।
सिंहा विदारयामासुर्गजगण्डस्थलानि ते ॥ ३० ॥
सिंहनादैर्बृंहितैश्च दैत्यशब्दैरनेकशः ।
त्रैलोक्यं कम्पितमभूद्देवाः सर्वे विसिस्मिरे ॥ ३१ ॥
उड्डीयोड्डीय सिंहास्ते गजकुम्भेष पेतिरे ।
एवं ते निहताः सर्वे करिणः सिंहसञ्चयैः ॥ ३२ ॥
विरेजुरिन्द्रनिहता वज्रेणेव महीधराः ।
ततः सिंहा ययुर्दैत्यान् भक्षयन्तो दिशो दश ॥ ३३ ॥
निहते सर्वसैन्ये तु चितामाप सुरान्तकः ।
अयं बालोऽपि बलवान् दृश्यते कश्यपात्मजः ॥ ३४ ॥
इदानीं दर्शयिष्येऽस्य यमस्य सदनं ध्रुवम् ।
एवमुक्त्वा पुनर्बाणं मन्त्रयामास दैत्यराट् ॥ ३५ ॥
योजयामास धनुषि शार्दूलप्रसवं तदा ।
आकर्णं धनुराकृष्य मुमोच देववाहिनीम् ॥ ३६ ॥
बाणः स च ययौ शीघ्रं नादयन्गगनं दिशः ।
यत्पुङ्खवायुना भग्ना निपेतुर्वक्षसञ्चयाः ॥ ३७ ॥
प्रादुरासन्ननेकाश्च ततः शार्दूलसञ्चयाः ।
सिंहास्ते भक्षयामासु सिंहास्तेऽन्तर्हितास्ततः ॥ ३८ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डेऽस्त्रयुद्धं नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-67

कोई टिप्पणी नहीं:

123