श्रीगणेशपुराणे क्रीडाखण्डे एकषष्टित्तमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे एकषष्टित्तमोऽध्यायः

दैत्यदमनं विराङ्दर्शनं
॥ विनायक उवाच ॥

नेदृशो दृष्टपूर्वो मे बलि च वीर्यवत्तरः ।
इदानी पौरुषं पश्य मम बालस्य चेष्टितम् ॥ १ ॥
इत्युक्वा पुनरेवासौ बाणं तूणादकर्षयत् ।
आकर्णं धनुराककृष्य प्राक्षिपत्तं नरान्तकम् ॥ २ ॥


प्रकाशयन्व्योमतलं पातयन्वृक्षसञ्चयम् ।
आन्दोलयन्निव ययौ पुष्पवत् तं नरान्तकम् ॥ ३ ॥
स बाणोऽछेदयत्तस्य चरणौ स पपात ह ।
अर्धकाये निपतिते दैत्येऽगर्जद्विनायकः ॥ ४ ॥
चरणौ व्योममार्गेण भ्रमन्तौ पतितौ गृहे ।
देवान्तकस्य महति चूर्णयन्तौ बहून्जनान् ॥ ५ ॥
अर्द्धकायः स दैत्येन्द्रो मुखं कृत्वा भयानकम् ।
अभ्यधावद्बलेनासौ ग्रसन्निव जगत्त्रयम् ॥ ६ ॥
तथैव चरणावस्य मायया सम्बभूवतुः ।
विनायकस्य निकटे बभाषेऽभ्येत्य दैत्यराट् ॥ ७ ॥
त्वया यद्दर्शितं मह्यं पौरुषं कायभेदनात् ।
छेत्से तवापि चाङ्गानि पश्य मे पौरुषं तथा ॥ ८ ॥
श्रुत्वा वाक्यं पुनस्तस्य जगर्जासौ विनायकः ।
शरवृष्टिं पुना रौद्रां सोऽसृजद् दैत्यपुङ्गवे ॥ ९ ॥
सोऽपि तां भक्षयामास सङ्ख्यातीतां महाबलः ।
तत एकं महाबाणमभिमन्त्र्य विनायकः ॥ १० ॥
अग्नितुण्डं रुक्मपुङ्खं गर्जमानं भयानकम् ।
आकर्णज्यामपाकृष्प तत्याज दैत्यमस्तके ॥ ११ ॥
स ययौ वायुवेगेन दारयन्निव पर्वतान् ।
संहरन् पक्षिसङ्घातान् पातयन् वृक्षसञ्चयान् ॥ १२ ॥
श्रुत्वा तदीयनिनदं ययुः सेना दिशो दश ।
पपात दैत्यकण्ठे स गिरिसानौ यथा पविः ॥ १३ ॥
तदाघाताच्छिरोऽप्यस्य पक्षीवद् गगनं ययौ ।
न्यपतत् परिकूजत् तत् पितुर्गेहे भयानकम् ॥ १४ ॥
पुनरन्यच्छिरोऽस्याभूदच्छिन्नमिव पूर्वतत् ।
ततः कोपेन दैत्योऽपि चक्रे क्ष्वेडितमुच्चकैः ॥ १५ ॥
बिभ्युः सुराः पक्षिसङ्घाः सर्वे च जनसञ्चयाः ।
शरवृष्टिं पुना रौद्रां चक्रे तस्मिन्विनायके ॥ १६ ॥
स सर्वान् बाणवृष्ट्यैव मध्ये चिच्छेद लाघवात् ।
अहोरात्रमभूद्युद्धं गिरिबाणमयं नवम् ॥ १७ ॥
परिशश्राम देवोऽपि सोऽपि दैत्यो महाबलः ।
चिन्तामवाप महतीं प्रजज्वाल च तेजसा ॥ १८ ॥
ततो जग्राह परशुं ज्वालामालासमाकुलम् ।
तोलयामास बलवांश्चकम्पे धरणी तदा ॥ १९ ॥
विमानगाः सुराः सर्वे युद्धं द्रष्टुमुपागताः ।
चकम्पिरे तदा शेषो बिभाय च रसातले ॥ २० ॥
अवासृजद् दैत्यपतौ स तस्याशु शिरोऽहरत् ।
पुनरन्यदभूच्चारुशिरोमुकुटकुण्डलम् ॥ २१ ॥
पुतस्तत् पातयामास शिरः क्रुद्धो विनायकः ।
पुनरन्यदभूत्तस्य छिन्ने तस्मिन् पुनः पुनः ॥ २२ ॥
एवं शतसहस्राणि शिरांसि सोऽच्छिनद् विभुः ।
पुनश्च चिन्तयामास मृतौ दैत्यस्य कारणम् ॥ २३ ॥
मोहयामास सहसा मायया तं नरान्तकम् ।
शिवस्य वरदानेन गर्वितं बलवत्तरम् ॥ २४ ॥
नाज्ञासीच्च तदा दैत्योऽपरं चात्मानमेव च ।
क्षणाच्च भासते रात्रिः क्षणाच्च दिनमेव च ॥ २५ ॥
क्षणाच्च भासते स्वर्गं पृथ्वी पातालमेव च ।
जागरश्च सुषुप्तिश्च तुरीया स्वप्न एव च ॥ २६ ॥
विनायकोऽपि देवो वा नारी वा पुरुषोऽपि वा ।
गुह्यको वास्थ सिद्धो वा यक्षो राक्षस एव च ॥ २७ ॥
स्वकीयो वा परो वापि पिता वा जननी तु वा ।
निर्जीवो वा सजीवो वा भ्रमादेवममन्यत ॥ २८ ॥
चिन्तां च परमामाप तर्कयामास चेतसि ।
एवं मे तु वरा दत्ताः शिवेन शूलधारिणा ॥ २९ ॥
अयं च समयः प्राप्तः प्रायो मृत्युर्भविष्यति ।
॥ क उवाच ॥
एवं यावच्चिन्तयते पुरस्तावद्ददर्श सः ॥ ३० ॥
विनायकं विराङ्रूपं गगनोर्ध्वगमस्तकम् ।
पातालव्याप्तचरणं दिक्ष्रोत्रं वृक्षरोमकम् ॥ ३१ ॥
भ्रमद्ब्रह्माण्डरोमाञ्चं पयोधिश्रमबिन्दुकम् ।
नखाग्रे यस्य देवानां भान्ति त्रिंशस्त्रिकोटयः ॥ ३१ ॥
उदरे भान्त्येकदशे भुवनानि चतुर्दश ।
ततो विनायका दैत्यं मर्दयामास तत्क्षणात् ॥ ३३ ॥
पादाङ्गुष्ठनखाग्रेण मत्कुणं बालको यथा ।
ततो देवाश्च मुनयो जयशब्दैर्मुहुर्मुहुः ॥ ३४ ॥
तुष्टुवुर्मुमुचुः पुष्पवृष्टिं भक्त्या प्रहर्षिताः ।
अन्तर्हिते तु वैराटे रूपेऽगाद्धरणी विभुम् ॥ ३५ ॥
नत्वा प्रोवाच देवेश अर्धभारो हृतो मम ।
पूर्णे हृते परा प्रीतिर्मे स्यात्तस्मात्सदा कुरू ॥ ३६ ॥
तस्यामन्तहितायां तु काशीराजः पुपूज तम् ।
उवाच च प्रसन्नात्मा विनयावनतो नृपः ॥ ३७ ॥
अत्याश्चर्यं विभो दृष्टं मनोवाण्योरगोचरम् ।
अवतीर्णोऽसि भूभारं हर्तुं तच्च कृतं त्वया ॥ ३८ ॥
त्रयस्त्रिंशत्कोटिदेवैरवध्योऽयं हतो यतः ।
अतिपुण्येन दृष्टं ते विराङ्रूपं सुरेश्वर ॥ ३९ ॥
॥ क उवाच ॥
एवं ब्रुवति राजेन्द्रे पौराः सर्वेऽब्रुवन्स्तदा ।
धन्योऽसि बालभावेन सर्वान्नो भ्रामयस्यहो ॥ ४० ॥
यशः प्रथयितुं सर्वं कृतमेतद् विभो त्वया ।
पुपूजुश्च महाभक्त्या प्रार्थयन्निति तं विभुम् ॥ ४१ ॥
भक्तिं ते देहि नो देव स्ववियोगं च मा कुरु ।
ततो राजा च ते लोका ददुर्दानान्यनेकशः ॥ ४२ ॥
ब्राह्मणान्प्रार्थयामासुरेवमेव जयोऽस्तु नः ।
उपायनानि च तदा ददू राज्ञे परस्परम् ॥ ४३ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे दैत्यदमनविराङ्रूपदर्शनं नामैकषष्टित्तमोऽध्यायः ॥ ६१ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-61

कोई टिप्पणी नहीं:

123