श्रीगणेशपुराणे क्रीडाखण्डे
चतुःषष्टितमोऽध्यायः
बालचरितेऽष्टसिद्धिपराजय
॥ क उवाच ॥
कालान्तकेन दैत्येन प्राकाम्येन परस्परम् ।
कालान्तको विजयेते प्राकाम्यं यावदेव हि ॥ १ ॥
तावत् साहाय्यमकरोद् वशित्वं वेगवत्तरम् ।
तत्याज गिरिशृङ्गं तन्मस्तके हस्तलाघवात् ॥ २ ॥
तेन कालान्तको भूमौ सहसा निपपात ह ।
रुधिराक्तं द्विधाभूतं दृष्ट्वा कालान्तकं तदा ॥ ३ ॥
हाहाकारो महानासीद् दैत्यसेनाचरेष्वथ ।
मुसलो नाम दैत्येशो भल्लश्चैवापरोऽसुरः ॥ ४ ॥
महिमा चैव चत्वारो ययुर्युद्धाय सादराः ।
प्राकाम्येन युयुधिरेऽनेकशस्त्रप्रहारिणः ॥ ५ ॥
असङ्ख्याता हता देवाः पतिता भग्नवृक्षवत् ।
असृग्जलप्रवाहिन्य आसन् नद्यः सहस्रशः ॥ ६ ॥
ईशिता च वशित्वं च विभूतिश्च ययुस्ततः ।
साहाय्यं चक्रिरे तस्य प्राकाम्यस्य तदा युधि ॥ ७ ॥
चत्वारः पर्वतास्ताभिश्चतुर्ष्वपि निपातिताः ।
तैश्च ते चूर्णिताः सर्वे गताः स्वर्गं सुदुर्लभम् ॥ ८ ॥
अणिमा तु शिखां धृत्वा कर्दमस्य रणे बलात् ।
अपाटि सहसा भूमौ शतधा स व्यशीर्यत ॥ ९ ॥
अस्रवद् रुधिरं वक्त्राल्लुठन् प्राणान् जहौ तदा ।
महिमा लघिमा चैव गरिमा वृक्षसञ्चयैः ॥ १० ॥
यक्ष्मासुरं तालजङ्घं दीर्घदन्तं न्यपातयन् ।
ततो घण्टासुरो रक्तकेशो दैत्योऽथ दुर्जयः ॥ ११ ॥
आययुः सर्वसैन्यानि निश्वसन्तो महाबलाः ।
तैराहतं बलं दृष्ट्वा वशितासिद्धिबुद्धयः ॥ १२ ॥
मुष्टिघातैर्निजघ्नुस्ता भालदेशे दृढं तदा ।
तेऽपि भूमौ निपतिताः शतधा चूर्णितास्तदा ॥ १३ ॥
ततो जगर्जुः सर्वास्ता जयं लब्धा स्वशक्तितः ।
विनायको विजयते सर्वास्ता एवमूचिरे ॥ १४ ॥
अन्ये क्षुद्रतरा दैत्यास्तेऽपि ताभिर्विनाशिताः ।
पुनः सर्वे दैत्यसिंहाः सिद्धिसेनां व्यनाशयन् ॥ १५ ॥
कोलाहलो महानासीत् सेनयोरुभयोरपि ।
हन्तु निघ्नन्तु बध्नन्तु सावधाना भवन्त्विति ॥ १६ ॥
प्रादुरासीत् ततश्चाग्निः शस्त्रसङ्घट्टसम्भवः ।
भग्ने शस्त्रे मल्लयुद्धं चक्रुर्वीरा रुषान्विताः ॥ १७ ॥
पुनश्चानियतं युद्धं परस्परविनाशनम् ।
अभवत् तुमूलं सूर्यस्ततश्चास्तचलं गतः ॥ १८ ॥
अन्धकारेण महता दिशो व्याप्ताः समन्ततः ।
ततो दिव्यौषधीर्गुह्य निजघ्नुस्ते परस्परम् ॥ १९ ॥
अहोरात्रत्रयं घोरं युद्धमासीन्निरन्तरम् ।
असृङनद्यो दशदिशो याता वीरवहास्तदा ॥ २० ॥
खेटकूर्माः खड्गझषाः शिरःकमलशोभिताः ।
गजग्राहाः प्रेतकाष्ठाः केशशैवलराजिताः ॥ २१ ॥
भीरुभीतिकरा वीरमहाहर्षविवर्द्धनाः ।
ततो जयत्सु देवेषु सर्वदा बलशालिषु ॥ २२ ॥
देवान्तको ययौ चिन्तां तर्कयामास चेतसि ।
येन सर्वे देवगणा जितास्ते स्वप्रभावतः ॥ २३ ॥
क्वेयं तत्र बालमाया सामान्या जनमोहिनी ।
अष्टसिद्धीः सर्वसैन्यमिदानीं नाशयाम्यहम् ॥ २४ ॥
धृत्वा विनायकं बालं गयिष्यामि स्वमालयम् ।
एवमुक्त्वा खड्गपाणिः स्वनेनापूरयन्दिशः ॥ २५ ॥
आययौ परसैन्यानि निघ्नन् खड्गेन सर्वशः ।
भयेन मूर्च्छिता देवा निपेतुर्धरणीतले ॥ २६ ॥
स्मृत्वा विनायकं देवं जहुः प्राणांस्तु केचन ।
असृङनदीवहाः केचित् केचित्स्वर्गं गताः सुराः ॥ २७ ॥
केचिद्दैत्यं विलोक्यैव जहुर्जीवितमात्मनः ।
ततो भग्ना देवसेना पपाल च दिशो दश ॥ २८ ॥
सोऽपि दैत्यः खड्गपाणिर्निघ्नन्पृष्ठे जघान ताम् ।
गरिमा तन्निरीक्ष्याथ पर्वतं वृक्षसङकुलम् ॥ २९ ॥
तत्याज दैत्यदेहे स खड़गेन शतधाऽच्छिनत् ।
ततोऽष्टसिद्धयः क्षुब्धा ववृषुः पर्वतान्बहून् ॥ ३० ॥
चिच्छेद त्वरया तान् स खड्गाघातेन लाघवात् ।
उड्डीय महिमा तस्य स्कन्धे स्थित्वा तमाददे ॥ ३१ ॥
खड्गं दैत्यकराच्छीघ्रमन्तर्धानं ययौ तदा ।
बलाच्चिक्षेप तं खड्गं तस्य दैत्यस्य मस्तके ॥ ३२ ॥
स एवं शतधा जातो न तु मूर्द्धा तदद्भुतम् ।
शरवृष्टिं तदा दैत्यो भग्नपृष्ठश्चकार ह ॥ ३३ ॥
एकैकस्यां दशदशपञ्चसप्तशरानसौ ।
क्षिप्त्वा व्याकुलयाञ्चक्रे ततस्ता भुवि पेतिरे ॥ ३४ ॥
ततो देवा युयुधिरे पतितास्वष्टसिद्धिषु ।
मुहूर्तात् सावधानास्ता ययुर्देवं विनायकम् ॥ ३५ ॥
तमुदन्तं परिज्ञाय बुद्धि प्रोचे विनायकम् ।
कथं विचारस्तस्य स्याद्यत्र बुद्धिर्न दृश्यते ॥ ३६ ॥
पराजिताः सिद्धयस्ते देह्यनुज्ञां व्रजाम्यहम् ।
योद्धुं दैत्येन तेनाथ पौरुषं चास्य लक्षये ॥ ३७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे
बालचरितेऽष्टसिद्धिपराजयो नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें