श्रीगणेशपुराणे क्रीडाखण्डे पञ्चषष्टितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे पञ्चषष्टितमोऽध्यायः

बुद्धिविजयं
॥ क उवाच ॥

श्रुत्वा बुद्धिवचो देवो हर्षं प्राप्य जगाद ताम् ।
॥ देव उवाच ॥
गच्छ युध्यस्व दैत्येन जहि तं यश आप्नुहि ॥ १ ॥
एवमुक्त्वा सुवासांसि ददौ तस्यै विनायक ।
सा च नत्वा तदा देवं ययौ दैत्यं रणं प्रति ॥ २ ॥


तस्याः क्ष्वेडितशब्देन कम्पितं भुवनत्रयम् ।
वदनान्निर्ययौ तस्या एका शक्तिर्गरीयसी ॥ ३ ॥
जटिला विकृतास्या च जगद्भक्षण लालसा ।
विशालाभ्यां तु नेत्राभ्यां त्यजन्ती ज्वालसञ्चयान् ॥ ४ ॥
दहन्ती दैत्यसेनां सा ययौ सा च पपाल ह ।
दर्शने पतिता दैत्यास्तस्याः केचिद् हृतासवः ॥ ५ ॥
अन्ये त्वतर्कयन् क्वाद्य गन्तव्यं क्व सुखं भवेत् ।
केचिदाहुर्धाव धाव देवान्तक मृता वयम् ॥ ६ ॥
एवं कोलाहलं श्रुत्वा ययौ देवान्तकः पुरः ।
सज्जं कृत्वा धनुः शीघ्रं शरानाशीविषोपमान् ॥ ७ ॥
ससर्ज तस्या गात्रेषु दर्शयन् पाणिलाघवम् ।
आच्छाद्य भानुं तन्मूर्ध्ना बाणजालैस्तथाविधैः ॥ ८ ॥
सा प्रसार्य महद्वक्त्रं बिसवद् गिलते शरान् ।
तूणीरास्तस्य दैत्यस्य सर्वे रिक्तास्तदाऽभवन् ॥ ९ ॥
न तस्यास्तृप्तिरभवद् राक्षसस्येव मानुषैः ।
देवान्तकं क्षीणशक्तिं दृष्ट्वा सा सैन्यमाययौ ॥ १० ॥
भक्षयामास तान् दैत्यान् कांश्चिद्धस्तादपातयत् ।
कांश्चिद्गले विनिक्षिप्य चूर्णयामास चापरान् ॥ ११ ॥
असङ्ख्यकोटीर्दैत्यानां भक्षिताश्चूर्णिता हताः ।
चूर्णयन्ती पदाघातैः कांश्चिद्देवान्तकं ययौ ॥ १२ ॥
तमुवाच तदा सा तु विश मे भगगह्वरम् ।
यत्र ते शेरते दैत्या मातुर्गर्भं गता इव ॥ १३ ॥
ये भक्षिता मृतास्ते मे जठरे जीर्णतां गताः ।
तद्भित्या स पपालाशु मूत्रविड्गन्धविह्वलः ॥ १४ ॥
यत्र यत्र प्रलीनोऽभूत्तत्र तत्रापि सा ययौ ।
बभ्राम स्वर्गलोकान् स पातालानि दिशो दश ॥ १५ ॥
ततः शिखां समाक्रम्य धृत्वा तं प्राक्षिपद् भगे ।
तया सह ततो बुद्धिर्विनायकमुपाययौ ॥ १६ ॥
ननाम तां पुरस्कृत्य मदघूर्णितलोचनाम् ।
पातयन्तीमुभयतः स्तनाघाताद् वनस्पतीन् ॥ १७ ॥
शरधाराश्च घनवत् स्रवन्ती मन्दगामिनी ।
निराकरोत्करालां तां दृष्ट्वा देवो विनायकः ॥ १८ ॥
निराकृतायां तस्यां तद्भगाद्दैत्योऽपतद्भुवि ।
सोऽपि दुर्गन्धिरित्येव दूतैः सन्त्याजितो बहिः ॥ १९ ॥
स तु संज्ञां समासाद्य स्नात्वा तूष्णीं गृहं ययौ ।
व्रीडितोऽधोमुखश्चिन्तां यातो म्लानोऽतिदुःखितः ॥ २० ॥
बुद्धया निवेदिता सा तु ननाम तं विनायकम् ।
तां दृष्ट्वा जहसुर्बिभ्युर्मम्लुः पेतुश्च केचन ॥ २१ ॥
तता सैन्यं जगादाशु भक्षिता दैत्यवाहिनी ।
सोऽपि देवान्तकः पायौ निक्षिप्य स्थापितो मया ॥ २२ ॥
इदानीं वसतिस्थानं देदि देव दयानिधे ।
॥ देव उवाच ॥
वन्चयित्वा गतो दैत्यो गृहं स्वं दैत्यनाशिनि ॥ २३ ॥
तवापि पौरुषं ज्ञातं शक्रादिभ्योऽधिकं मया ।
विश वक्त्रं ममैव त्वं विश्रान्तिं तत्र गच्छ च ॥ २४ ॥
अहं तत् साधयिष्यामि मा चिन्तां कर्तुमर्हसि ।
॥ क उवाच ॥
एवमाकर्ण्य तद्वाक्यं दृष्ट्वा वक्त्रं विवेश सा ॥ २५ ॥
सुष्वाप परमप्रीता मातुरङके यथाऽर्भकः ।
उदरे देवदेवस्य सर्वलोकनिवासिनि ॥ २६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बुद्धिविजयो नाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-65

कोई टिप्पणी नहीं:

123