श्रीगणेशपुराणे क्रीडाखण्डे द्विषष्टितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे द्विषष्टितमोऽध्यायः

नगरीनिरोधं
॥ क उवाच ॥

रौद्रकेतोस्तु या भार्या शारदाख्या द्विजस्य सा ।
विदर्भ्यामुपविष्टा सा सखीभिः कौतुकान्विता ॥ १ ॥ (वृष्यां समुपविष्टा)
नरान्तकस्य च शिरोऽकस्मात् ताभिर्ददर्श ह ।
पतितं प्राङ्गणे कर्णकुण्डलाभ्यां विराजितम् ॥ २ ॥


नादयत्पत्तनं सर्वं शिखरं पार्वतं यथा ।
श्यामलं हिमसंसृष्टं विशोभं कमलं यथा ॥ ३ ॥
बिभ्यतो रौद्रकेतुश्च शारदाघात विह्वला ।
सावधानौ ददृशतू रुदतः स्म भृशं तदा ॥ ४ ॥
लुण्ठतः स्म धरण्यां तौ ताडयन्तौ च वक्षसि ।
मूर्च्छामवापतुरुभौ मुहूर्तादिव चेतनाम् ॥ ५ ॥
माता शुशोच तदा हृदि स्थाप्य त तच्छिरः ।
चक्रन्दे विह्वला सा गौर्मृतवत्सा यथा भृशम् ॥ ६ ॥
॥ शारदोवाच ॥
वीरश्रिया व्याप्ततनू रणायैव समुत्सुकः ॥ ७ ॥
प्रोक्तवान्न हि किञ्चिन्मामिदानीं गिरमाहर ।
क्व गतः पूर्वकायस्ते शिरसैव समागतः ॥ ८ ॥
एकाकी कथमायतः क्व ते सैन्यं महत्तरम् ।
क्व ते जलधरा याताश्छत्रचामरधारिणः ॥ ९ ॥
यं दृष्ट्वा वरकामिन्यो म्लायन्ते विरहाग्निना ।
स कथं म्लानतां यातो रविरस्तानुगो यथा ॥ १० ॥
किं मया ह्यपराद्धं ते पित्रा वा वत्सलेन च ।
किमर्थं वदसे नैव रुददश्रु प्रमार्ज्य नः ॥ ११ ॥
परार्ध्यास्तरणोपेते मञ्चके स्वापतत्परः ।
क्वेदानीं परिसुप्तोऽसि खिद्यते मे मनो भृशम् ।
विनाभूतौ त्वया नेशावास्यं सन्दर्शितुं सुत ॥ १२ ॥
॥ क उवाच ॥
शारदायाः शुचं श्रुत्वा रौद्रकेतुः शुशोच ह ।
विना वृत्तान्तकथनात् क्व गतोऽसि प्रियात्मज ॥ १३ ॥
प्रत्यहं सर्ववृत्तान्तं जातं भाविनमेव च ।
संश्रावयसि स्वस्थानमिदानीं किन्न भाषसे ॥ १४ ॥
यदि त्वं सम्मुखे युध्यन् ध्यारापूतो दिवं गतः ।
मामपृच्छ्य च मां त्यक्त्वा कथं त्वं परिजग्मिवान् ॥ १५ ॥
कथं त्वया कृता पित्रोः पुत्रता शत्रुतापि च ।
यदा त्वं सेवककरात् खड्गं गृह्णासि स्वं करे ॥ १६ ॥
तदा सपर्वतवना सस्वर्गा कम्पते च भूः ।
स केन पातितो मह्यां न जाने कालपर्ययम् ॥ १७ ॥
देवं हि बलवल्लोके पौरुषं तु निरर्थकम् ।
भूषणं मम वंशस्य लोकस्य च गतं क्व नु ॥ १८ ॥
लोकस्यापि च यः कालः पञ्चास्योऽरिगजस्य यः ।
स कथं त्वं द्विधाभूतो वाताहत इव द्रुमः ॥ १९ ॥
प्रतापसविता राजँस्तूलदाहहुताशनः ।
॥ क उवाच ॥
एवं नानाविधं शोकं रौद्रकेतुश्च शारदा ॥ २० ॥
कृत्वा मूर्धानमादाय देवान्तकमगच्छताम् ।
भद्रासनात्समुत्थाय त्वरया तो तथाविधौ ॥ २१ ॥
दृष्ट्वा कण्ठं समालिङ्ग्य रुरोदावरजं तदा ।
तत्परीवारभूता ये दैत्याः कालयमोपमाः ॥ २२ ॥
रुरुदुः सुस्वरं तत्र दृष्ट्वा नारान्तकं शिरः ।
मातुर्हस्ताच्छिरो गृह्य तत्स्वे हृदि निधाय च ॥ २३ ॥
चक्रन्द कुररीवासौ भ्रातृस्नेहेन दुःखितः ।
॥ देवान्त उवाच ॥
समं भुक्तं समं पीतं क्रीडितं सुप्तमुत्थितम् ॥ २४ ॥
समं तप्तं समं जप्तं क्व गतोऽसि विहाय माम् ।
यस्य ते दर्शनान्मर्त्याः सुरा यान्ति दिशो दश ॥ २५ ॥
स कथं निहतः केन दुष्टेन च बलीयसा ।
रसा रसातलं चैव तवैव च निवेदितम् ॥ २६ ॥
विहाय मां कथं स्वर्ग गतोऽसि भ्रातृवत्सल ।
यस्य ज्याघोषमाकर्ण्य कम्पते स्म चराचरम् ॥ २७ ॥
असङ्ख्याता नृपा यस्य साम्ने द्वारगता बभुः ।
स कथं पितरौ हित्वा गतश्च सुन्दरां त्रियम् ॥ २८ ॥
एवं तत्क्रन्दनं श्रुत्वा वीरलोका समाययुः ।
हेतुभिर्वारयामासुर्बलाद्धृत्वा तु तं करैः ॥ २९ ॥
॥ जना ऊचुः ॥
न वीराः परिशोचन्ति वीरे युद्धे हते नृप ।
विघ्नन्ति तं बलाद्गत्वा येनासौ निहतो भवेत् ॥ ३० ॥
मृत्युस्तु सर्वजन्तूनां सह देहेन जायते ।
सोऽद्य वर्षशतेनापि भविष्यति न संशयः ॥ ३१ ॥
स्वस्य वान्यस्य वा राजन् तत्र का परिदेवना ।
श्रुत्वा वाक्यं तु लोकानां तदा देवान्तकोऽसुरः ॥ ३२ ॥
सावधानमना भूत्वा पितरौ प्राह धर्मवित् ।
मा शोचतमहं यामि ग्रसितुं तं निजं रिपुम् ॥ ३३ ॥
वदतं क्व निवासोऽस्य येन बन्धुर्हतो मम ।
तं हत्वा सुखमेष्यामि बन्धुं यास्यामि वा मृतः ॥ ३४ ॥
मम भ्रूभङ्गमात्रेण कम्पते भुवनत्रयम् ।
मयि क्षुब्धे तु कस्त्राता लोकानां पितरौ यतः ॥ ३५ ॥
॥ क उवाच ॥
श्रुत्वा देवान्तकवचः आश्वस्तौ तावुभौ तदा ।
शोकसागरमग्नौ तावद्धृतौ तेन वाक्यतः ॥ ३६ ॥
ऊचतुः परमं वाक्यं ज्येष्ठपृष्टौ सविस्तरम् ।
काशिराजेति विख्यातो राजापरमधार्मिकः ॥ ३७ ॥
वैवाहिको महोत्साहस्तद्गृहे समपद्यत ।
आकारिताः सर्वजनाः कश्यपस्यात्मजोऽपि च ॥ ३८ ॥
स बाल एव बलवान्विनायक इति स्मृतः ।
तेन मार्गे हतो भ्राता धूम्राक्षो मम पुत्रक ॥ ३९ ॥
तस्य प्रत्याम्नायकृते प्रेषिता वीरसम्मताः ।
धावमाना ययुस्ते च सहस्रार्द्ध निशाचराः ॥ ४० ॥
सप्तवर्षेण ते सर्वे नाशिता मुनिसूनुना ।
तेषां प्रत्याम्नायकृते स्वयं यातो नरान्तकः ॥ ४१ ॥
अनेकशस्त्रसम्पन्नश्चतुरङ्गबलान्वितः ।
एकोऽपि नागतस्तस्मादकस्माद्ददृशे शिरः ॥ ४२ ॥
शोकं कृत्वा तव पुर आनीतं तच्छिरोऽधुना ।
॥ क उवाच ॥
इति तद्वाक्यमाकर्ण्य च कम्पे रक्तलोचनः ॥ ४३ ॥
देवान्तकश्चोदतिष्ठद् ग्रसन्निव जगत्त्रयम् ।
उवाच गर्वमोहेन पितरं वेगवत्तरम् ॥ ४४ ॥
कालं हनिष्येऽखिलघ्नं न्युब्जां पृथ्वीं विधाय च ।
करिष्ये क्रोधदृष्टयैव ब्रह्माण्डं भस्मसात्क्षणात् ॥ ४५ ॥
इत्युक्त्वा क्ष्वेडितं कृत्वा जगतीं कम्पयन्निव ।
देवाधिकारे ये दैत्यास्तान्सर्वान्नाजुहाव च ॥ ४६ ॥
नत्वा तौ पितरौ वाक्यं प्रोचे देवान्तकस्तदा ।
इदानीं मुनिपुत्रं तमानयिष्यामि सत्वरम् ॥ ४७ ॥
सहैव तेन दास्यामि मूर्ध्न्यस्य च धनञ्जयम् ।
एवमुक्त्वा बलात्सर्वे उड्डीय सहसा च ते ॥ ४८ ॥
देवान्तकोऽप्य सङ्ख्याता विहङ्गा इव शीघ्रगाः ।
काशिराजपुरीं प्राप्ये वेष्टयेयुः समन्ततः ॥ ४९ ॥
कोलाहलो महानासीद् रजसाच्छादिता दिशः ।
न प्रकाशो रवेरासीत्पौराश्च चुक्रुशुर्भृशम् ॥ ५० ॥
नरान्तके हते द्वित्रिदिवसा नैव यद्गताः ।
तत्कथं पुनरायातः प्रलयोऽत्र जनापहः ॥ ५१ ॥
कोऽयं प्रचण्डदेहेन दुष्प्रेक्ष्यो वै समागतः ।
क्षमः कालं कलयितुं भक्षितुं वा जगत्त्रयम् ॥ ५२ ॥
दैत्यानां परिखा जाताः प्रेषिता दैत्यपुङ्गवाः ।
हतास्तेनाथ ते सर्वे गन्तुं मार्गो न विद्यते ॥ ५३ ॥
एवं तदस्तु पौरेषु तावद् दूताः समागताः ।
काशिराजं कथयितुं देवान्तकसमागमम् ॥ ५४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे नगरीनिरोधो नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-62

कोई टिप्पणी नहीं:

123