श्रीगणेशपुराणे क्रीडाखण्डे अष्टषष्टितमोऽध्यायः
भयानकास्त्रयुद्धं
॥ क उवाच ॥
ततो दैत्यो बाणयुगं मन्त्रयामास सादरम् ।
निद्रास्त्रेण तदा चैकं गन्धर्वांस्त्रेण चापरम् ॥ १ ॥
वामजानुं पुरः स्थाप्य ज्यामाकृष्य ससर्ज तौ ।
तयोः शब्देन सहसा च कम्पे भुवनत्रयम् ॥ २ ॥
एकः सैन्ये निपतितोऽपरो देवसमीपतः ।
ततस्ताला मृदगाँश्च गन्धर्वाम्प्सरसस्तथा ॥ ३ ॥
गाननृत्यानि चित्राणि पुरोऽपश्यद् विनायकः ।
पतितानि च शस्त्राणि न बुबोध करात्तदा ॥ ४ ॥
मोहितो मञ्जुलरवैः कर्तव्यं नाभ्यपद्यत ।
सैनिकाः सुषुपुः सर्वे निद्रास्त्रेण विमोहिताः ॥ ५ ॥
निशामुखे यथा बाला अव्यवस्थं हि शेरते ।
स्त्रियोऽपि चाथ ताः सर्वाः सुषपुर्विगतत्रपाः ॥ ६ ॥
देवान्तकोऽपश्यदेवं जहर्ष च जगर्ज च ।
ततः संस्थापयामास गुल्मानि परितो बहु ॥ ७ ॥
देवसैन्यस्य महतो बली वीरयुतानि च ।
चक्रे कुण्डं त्रिकोणं च भूमिसाधनपूर्वकम् ॥ ८ ॥
असृक्कुम्भान्समानीय शतसङ्ख्यान्प्रयत्नतः ।
स्नात्वा पद्मासनं चक्रे नानाप्रेतेषु सादरम् ॥ ९ ॥
दैत्यान्निहत्य शतशो मांसराशिं महत्तरम् ।
चकाराभिचरं दैत्यो वह्निं स्थाप्य यथाविधि ॥ १० ॥
दिगम्बरो जुहावाथ मांसानि मन्त्रपूर्वकम् ।
सहस्रे तु हुते पश्चाद्बलिं पूर्णाहुतिं च यः ॥ ११ ॥
चकार कुण्डमध्ये सोऽपश्यच्छक्तिं क्षुधातुराम् ।
नरमांसानि तस्यै स ददौ पातुं च तान्घटान् ॥ १२ ॥
अतृप्तां तां परिज्ञाय प्रेतानन्यानथार्पयत् ।
ततः सा बहिरायाता व्योमकेशी भयङ्करा ॥ १३ ॥
विशालगर्तनेत्राऽतिकरालवदनाऽरुणा ।
उवाच परमप्रीता नादयन्ती दिशो दश ॥ १४ ॥
तृप्तास्मि रक्तमांसैस्ते न भयं विद्यते क्वचित् ।
तामुवाचाथ दैत्योऽपि पुपूजे भक्तिभावतः ॥ १५ ॥
उपचारैः षोडशभिः प्रणिपातपुरःसरम् ।
ततो दिव्याम्बरधरो नानालङ्कारभूषितः ॥ १६ ॥
देव्या अङ्कं समासाद्य जगर्ज बलवत्तरम् ।
सोड्डीय तेन सहिता नभस्येव स्थिताऽभवत् ॥ १७ ॥
नानाशस्त्रधरा सोऽपि धनुर्बाणधरो बभौ ।
तामुवाच रौद्रकेतुपुत्रः परमहर्षितः ॥ १८ ॥
कश्यपस्यात्मजो बालश्चञ्चलो बहुलं पुरा ।
इदानीमत्र किं तेन कर्तव्यं कुचरेण मे ॥ १९ ॥
इदानीं सर्वसैन्यानि नाशयिष्ये तवाग्रतः ।
एवं ब्रवति दैत्येन्द्र काशिराजोऽशृणोद्वचः ॥ २० ॥
ततो विनायकं राजा बोधयामास सादरम् ।
॥ काशीराजोवाच ॥
भूतभव्यभविष्यज्ञ कथं मायां न बुध्यसे ॥ २१ ॥
गान्धर्वीं दैत्यरचितां कथं सक्तोऽसि तत्र वै ।
देवान्तकेनाभिचरान्निर्मितां राक्षसीमिव ॥ २२ ॥
सा हनिष्यति ते सैन्यं सावधानमना भव ।
॥ क उवाच ॥
एवं नृपवचः श्रुत्वा सावधानमना विभुः ॥ २३ ॥
बुद्ध्वा तज्ज्ञानदृष्ट्यैव सर्वं मायामयं तदा ।
शरद्वयं विनिष्कृष्य मन्त्राभ्यां परिमन्त्र्य च ॥ २४ ॥
घण्टास्त्रेण खगास्त्रेण श्रोत्राकर्षणसम्भ्रमात् ।
विनायको मुमोचाऽथ तौ बाणौ वेगवत्तरौ ॥ २५ ॥
गर्जन्तौ घनवद्रुक्मपुङ्खौ मारुतवेगिनौ ।
सहसाच्छादयन्तौ च सहस्रकरमण्डलम् ॥ २६ ॥
घण्टानादः समभवन् महान् सर्वविमोहनः ।
ततो घण्टास्वनान् श्रुत्वा प्रोत्तस्थुः सर्वसैनिकाः ॥ २७ ॥
सिद्धयः सर्ववीराश्च युयुधुः शस्त्रपाणयः ।
अपरस्तस्य सैन्येषु मुक्तो बाणः खगास्त्रतः ॥ २८ ॥
ततः खगाः प्रादुरासन्नानारूपा महौजसः ।
पक्षवातेन तेषां तद्गान्धर्वं लयमागतम् ॥ २९ ॥
अन्धकारं यथा सूर्यसारथेरुदयान्मुने ।
ततस्ते पक्षिणः सर्वे बभक्षुर्दैत्यसैनिकान् ॥ ३० ॥
पक्षाघातहताः केचित् केचिच्चञ्च्वग्रविक्षताः ।
केचिद् भीत्यैव पतिता दैत्याः प्राणान् विहाय च ॥ ३१ ॥
हाहाकारो महानासीद् दैत्यसैन्येषु सर्वशः ।
ततो देवान्तको रोषात् खड्गास्त्रं प्राहिणोत्तदा ॥ ३२ ॥
तस्य ध्वनिं समाकर्ण्य चुक्षुभे सैन्यसागरः ।
दिग्गजाश्च ततः खड्गा असङ्ख्याता विनिःसृताः ॥ ३३ ॥
वह्निमन्तश्च सङ्घट्टात् सेनयोरुभयोरपि ।
अग्निदग्धास्तदा दैत्या निपेतुर्धरणीतले ॥ ३४ ॥
खगाश्च निहताः केचित् केचिद् दग्धास्तथाग्निना ।
अपरे ययुरन्तर्द्धि दिशश्चाथ चकाशिरे ॥ ३५ ॥
असङ्ख्यखड्गप्रभया सेन्नाचक्षुर्महोमुषा ।
खड्गवृष्टया विनिहता देवाः पेतुर्धरातले ॥ ३६ ॥
केषाच्चिद् बाहवच्छिन्नाः केषाच्चिन्मस्तकाः कराः ।
जठरे जानुभागे च पृष्ठभागेऽपरा हताः ॥ ३७ ॥
निपेतुर्देवपुञ्जेषु मृतेषु च गतासवः ।
अष्टसिद्धिकृताः सर्वाः सेना एवं विनाशिताः ॥ ३८ ॥
असृङ्नद्यो दश दिशो याताः प्रेतवहास्तदा ।
विनायकस्ततो दृष्ट्वा दैत्यस्याद्भुतविक्रमम् ॥ ३९ ॥
बाणं निष्काश्य सुदृढं वज्रास्त्रेणाभिमन्त्र्य च ।
आक्रन्दनेन महता दैत्यसैन्ये मुमोच तम् ॥ ४० ॥
पर्वताश्च द्रुमास्तस्य शब्देन पतिता भुवि ।
तदस्त्रानलसंयोगाद् दिग्दाहः समजायत ॥ ४१ ॥
देदीप्यमानं सहसाच्छादयन् रविमण्डलम् ।
पक्षिणो निहता दग्धास्तेजसा तस्य केचन ॥ ४२ ॥
खण्डितं तेन सहसा खड्गास्त्रं तत्सहस्रशः ।
निर्ददाह तदा दैत्यसेनां वज्रैरनेकशः ॥ ४३ ॥
सहस्रशो निहन्यन्ते एकया वज्रधारया ।
यतो यतोऽगमद् दैत्यस्तत्र तत्रापतच्च तत् ॥ ४४ ॥
चुचूर्ण मस्तकान् पादान् हस्तान् स्कन्धानुरूनपि ।
धरां भित्त्वा गता दैत्यास्तानप्यथ जघान तत् ॥ ४५ ॥
एवं सर्वे हता दैत्या वज्रैस्तीक्ष्णैः सहस्रशः ।
ततो देवान्तकं जग्मुस्तानि वज्राणि सर्वशः ॥ ४६ ॥
सोऽपि बाणं समादाय मन्त्रयामास यत्नतः ।
रौद्रास्त्रेणाथ संयोज्य धनुषः कर्षणेन तम् ॥ ४७ ॥
ससर्ज परसैन्येषु शिवनामाङ्कितं शुभम् ।
नादयन् गगनं सोऽथ दिशश्च विदिशोऽपि च ॥ ४८ ॥
वमन्नग्निकणान् दिक्षु प्रलयानलसन्निभः ।
भूलोका देवलोकाश्च भयाद् याता दिशो दश ॥ ४९ ॥
विनायकस्य सैन्येषु महाकोलाहलो ह्यभूत् ।
तस्मिन्निपतिते बाणे पुरुषो घोरदर्शनः ॥ ५० ॥
निःसृतो भीषणमुखस्त्रैलोक्यं ग्रासयन्निव ।
जटिलो दीर्घहस्तश्च दीर्घपादो महोदरः ॥ ५१ ॥
धराधरो व्योमगोष्ठो गिरिजिह्वो भयानकः ।
वज्रास्त्रं भक्षयामास क्षणात् स पुरुषो महान् ॥ ५२ ॥
विनायकं हन्तुकामो ययौ तस्यान्तिकं क्षणात् ।
ततो विनायकः शीघ्रं ब्रह्मास्त्रं समयोजयत् ॥ ५३ ॥
मन्त्रेण शतसङ्ख्येन सायके वेगवत्तरे ।
आकर्णकर्षणाद् देवो मुमोच सहसा च तम् ॥ ५४ ॥
चकम्पे तस्य शब्देन तारेण भुवनत्रयम् ।
विस्फुलिङ्गैर्दिशो दग्धा न प्राज्ञायत किञ्चन ॥ ५५ ॥
ततोऽपि पुरुषो जज्ञे तादृशोऽतिभयानकः ।
तावुभौ युद्धतो व्योम्नि परस्परजयैषिणौ ॥ ५६ ॥
नानाविधं मल्लयुद्धं चक्रतुस्तौ महाबलौ ।
क्षणेनान्तर्हितो चोभौ न दृश्यतेऽथ कुत्रचित् ॥ ५७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे भयानकास्त्रयुद्धं नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें