श्रीगणेशपुराणे क्रीडाखण्डे त्रिषष्टितमोऽध्यायः
बालचरिते शुक्रत्यागं
॥ दूता ऊचुः ॥
देवान्तको महारौद्रो रौद्रेर्दैत्यैः समावृतः ।
असङ्ख्यैर्विविधैः कालभीतिदैर्व्योममस्तकैः ॥ १ ॥
वयं तद्दर्शनभ्रान्ताः पलाय्य त्वामुपागताः ।
नगरी वेष्टिता राजन् करिष्यसि तत्कुरु ॥ २ ॥
॥ क उवाच ॥
श्रुत्वा दूतमुखाद् राजा वृत्तात्तं समकम्पत ।
अतिम्लानतया यातो बालकं स विनायकम् ॥ ३ ॥
क्रीडन्तं शिशुमध्ये तं वृत्तान्तं सर्वमब्रवीत् ।
॥ राजोवाच ॥
परब्रह्मन्नमस्तेऽस्तु लीलामानुषविग्रह ॥ ४ ॥
चराचरगुरो नानालीलाकर नमोऽस्तु ते ।
अनेकशो वयं त्रातास्त्वया बालस्वरूपिणा ॥ ५ ॥
इदानीमपि रक्षास्मानस्माद्देवान्तकात्प्रभो ।
॥ क उवाच ॥
एवं सम्प्रार्थितस्तेन काशिराजेन बालकः ॥ ६ ॥
देहं कृत्वा विशालं स सिंहारूढो धनुष्करः ।
सिद्धिबुद्धियुतो गर्जन्नादयन् गिरिकन्दराः ॥ ७ ॥
तेजसा लोपयन्सूर्यं वमन्नग्निकणान्मुखात् ।
बाणं खड्गं च परशुं धनुर्हस्ते विधारयत् ॥ ८ ॥
नभोमार्गेण नगराद् बहिर्यातो विनायकः ।
क्ष्वेडितेन स दैत्यानां मनांसि परिकम्पयन् ॥ ९ ॥
ददर्श दुष्टसैन्यं तं देवान्तकममर्षणम् ।
असङ्ख्यातास्तदा दैत्या बभ्रमुः शलभा इव ॥ १० ॥
दृष्ट्वा नानाविधं सैन्यं सिद्धिं प्रोवाच विघ्नराट् ।
एकाकिना न साध्येयं सेना नाना विधीयताम् ॥ ११ ॥
स्वकीया साधितुं दैत्यं कुरु शीघ्रमिदं वचः ।
॥ क उवाच ॥
ततः सिद्धिर्नमस्कृत्वा परमात्माङ्घ्रिपङ्कजम् ॥ १२ ॥
देवान्तकं योधयितुं ययौ चाथ जगर्ज च ।
निनादैः सर्वजन्तूनां दैत्यानां भयदायिनी ॥ १३ ॥
चचाल शेषो द्यौश्चापि पर्वता वृक्षसञ्चयाः ।
तद्गर्जितमहारावैः प्रतिशब्दैरनेकशः ॥ १४ ॥
सस्मार चाष्टसिद्धीः सा ताश्च याता मुदान्विताः ।
अणिमा प्रथमं प्राप्ता गरिमा तदन्तरम् ॥ १५ ॥
महिमा लघिमा चापि सम्प्राप्ते तदन्तरम् ।
प्राप्तिश्चैव तु प्राकाम्यं वशित्वं च समाययौ ॥ १६ ॥
ईशित्वं तदनु प्राप्तं तासां सैन्यमभूदनु ।
गजाश्वरथपादान्तं नानायुधविराजितम् ॥ १७ ॥
वर्षाकाले यथा नद्यः सागरं यान्ति सर्वतः ।
तथा सैन्यं दश दिशो याति स्म युद्धलालसम् ॥ १८ ॥
असङ्ख्यवाद्यनिर्घोषं वीरशब्दैर्नदद्भृशम् ।
कृतान्तसदृशान्वीरान् भूगोलप्राशनोत्सुकान् ॥ १९ ॥
दृष्ट्वा देवान्तकः स्वान्तं चिन्तयामास चेतसा ।
बालं क्षणेन जेष्यामीत्येवं युद्धाय चागतः ॥ २० ॥
अकस्मादीदृशं सैन्यं कुत एतद्विनिर्गतम् ।
दृष्टं विचित्रसामर्थ्यं बालस्य मायया कृतम् ॥ २१ ॥
मरिष्ये मारयिष्ये वा जीवत्स्याज्यो यशो न हि ।
एवं वदति दैत्येन्द्र सेनान्यः प्राब्रुवन् वचः ॥ २२ ॥
वयं योत्स्यामहे सैन्यै रक्ष पृष्टं जयो भवेत् ।
पीत्वा वाक्यामृतं तेषां हृष्टो देवान्तकोऽब्रवीत् ॥ २३ ॥
सम्यगुक्तं महावीरा यान्तु युद्धाय यामि च ।
जयोऽस्तु मम वाक्येन भवतां पुण्यकर्मणाम् ॥ २४ ॥
आशिषं परिगृह्यैव नमस्कृत्वा सुरान्तकम् ।
कर्दमो नाम दैत्योऽथ ययौ व्यूहं रथाकृतिम् ॥ २५ ॥
दीर्घदन्तो ययौ चक्रव्यूहं परमदुर्जयम् ।
गरिम्णा वीरमुख्यैस्तु रचितं वीरमोहनम् ॥ २६ ॥
प्रथिम्ना पालितं व्यूहं तालजङ्घो ययौ मुदा ।
महिम्ना रचितं व्यूहं यक्ष्मनामा समाययौ ॥ २७ ॥
प्राप्त्या विरचितं व्यूहं ययौ घण्टासुरो महान् ।
प्राकाम्यरचितं व्यूहं रक्तकेशो बलान्वितम् ॥ २८ ॥
कालान्तको ययौ व्यूहं वशितारचितं परम् ।
ईशितारचितं व्यूहं दुर्जयोऽभिययौ बली ॥ २९ ॥
एतेषां वचसाऽशक्यं वक्तुं सामर्थ्यमञ्जसा ।
अष्टौ व्यूहानयुध्यन्त दैत्या अष्टौ महाबलाः ॥ ३० ॥
परस्परं विनिघ्नन्तःपरान् परमदुर्जयान् ।
शरधारा विमुञ्चन्तो जलधारा यथा घनाः ॥ ३१ ॥
चिच्छिदुरुत्तमाङ्गानि शस्त्रैर्नानाविधैर्भटाः ।
निहतैश्च तदावीरैर्गजैरश्वैर्वसुन्धरा ॥ ३२ ॥
ऊरुभिर्जानुभिर्हस्तैश्छिन्नैरासीत्सुदुर्गमा ।
खेटानि पुरतः कृत्वा जघ्नुः पादांश्च केचन ॥ ३३ ॥
उड्डीय गिरिवत् केचित्पेतुर्वीरेषु चूर्णितुम् ।
रजोऽन्धकारे नाज्ञासीत्स्वीयः स्वीयं परस्परम् ॥ ३४ ॥
ततो निपेतुः सहसा दैत्या देवहता भुवि ।
देवा हताश्च दैत्याश्च कुर्वते भैरवान् रवान् ॥ ३५ ॥
कबन्धा युयुधुस्तत्र मुमुदुश्चाप्सरोगणाः ।
शुशुभुः शस्त्रसङ्घातैः पुष्पिताः किंशुका यथा ॥ ३६ ॥
शुक्रस्तत्र मृतान्दैत्यानुज्जीवयति विद्यया ।
अष्टौ व्यूहा ययुश्चिन्तां मृतशेषा बलान्विताः ॥ ३७ ॥
ईशितायै ततः प्रोचुः सर्वे ते शुक्रचेष्टितम् ।
तस्याः क्रोधवशादेका कृत्या स्यान्निर्गता पुरः ॥ ३८ ॥
कटाक्षेण तयाऽऽज्ञप्ता भार्गवं तु निजे भगे ।
कृत्वा तदाऽन्तर्दधे सा पश्चात्तत्याज बर्बरे ॥ ३९ ॥
तेन बर्बरदेशीयं तं वदन्ति मनीषिणः ।
ततो मुमुदिरे देवा युयुधुश्च बलान्विताः ॥ ४० ॥
निहन्यमाना दैतेयाः पलायनपरा ययुः ।
केचिच्च शरणं प्राप्ता रक्ष रक्षेति चापरे ॥ ४१ ॥
प्रत्यूचुर्देवगन्धर्वानणिमादिकृतांस्तदा ।
कदा विजयिनो दैत्याः कदाचिद् देवतागणाः ॥ ४२ ॥
अभवन् युद्धनिरताः परस्परजयैषिणः ।
द्वन्द्वयुद्धमभूद् घोरं तस्मिन्नुपरते युधि ॥ ४३ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शुक्रत्यागो
नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें