श्रीगणेशपुराणे क्रीडाखण्डे षट्षष्टितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे षट्षष्टितमोऽध्यायः

सिद्धिपराजय
॥ क उवाच ॥

शारदा रौद्रकेतुश्च रात्रौ देवान्तकं सुतम् ।
एकाकिनं निरीक्ष्यैनं समालिङ्ग्य समूचतुः ॥ १ ॥
आच्छादयन्तं वदनं व्रीडितं भृशविह्वलम् ।
अभाषमाणं कम्पन्तं वातयुक्तमिव द्रुमम् ॥ २ ॥


॥ पितोवाच ॥
किमर्थं वदसे नैव स्वामवस्थां तु मूकवत् ।
ईप्सितं साधयिष्यामि यत्नात् त्रैलोक्यदुर्लभम् ॥ ३ ॥
॥ क उवाच ॥
पीत्वा वागमृतं तस्य सावधानमनाः सुतः ।
उवाच पितरं मातुर्निकटे निर्विशङ्कया ॥ ४ ॥
॥ पुत्र उवाच ॥
भवदाज्ञां गृहीत्वैव योद्धुं यातो विनायकम् ।
शरैराशीविषाकारैरसङ्ख्यर्नाशिताः सुराः ॥ ५ ॥
प्रवर्तिता असृङ्नद्यो भग्ना सेना तु काश्यपी ।
तत एका महाकृत्या दरीवक्त्रा नभः स्पृशी ॥ ६ ॥
करालकेशी पातालचरणा पर्वतस्तना ।
आगता देवसेनाया रक्षणार्थं ममान्तिकम् ॥ ७ ॥
खड्गेन निहता सा तु विव्यथे नैव किञ्चन ।
निक्षिप्ता सर्वसेना मे तया तात दरीभगे ॥ ८ ॥
भक्षयन्त्येव सर्वाणि शस्त्राणि शरसञ्चयान् ।
सा मां भगे विनिक्ष्यिप्य याता देवं विनायकम् ॥ ९ ॥
स्निग्धत्वात्तद्भगस्याहं चलितः पतितो भुवि ।
महान्धकारे न ज्ञातः पलाय्य गृहमागतः ॥ १० ॥
स्नात्वा नदीजले तात व्रीडितोऽधोमुखस्ततः ।
॥ क उवाच ॥
एवं पुत्रवचः श्रुत्वा रौद्रकेतुर्जगाद तम् ॥ ११ ॥
उपायं ते वदाम्येकं न चिन्तां कर्तुमर्हसि ।
ततो मुहूर्तमालोक्य ददौ तस्मै महामनुम् ॥ १२ ॥
अघोरस्य सबीजं तमुवाच जनकः पुनः ।
शिवं ध्यात्वा च सम्पूज्य कुर्वनुष्ठानमुत्तमम् ॥ १३ ॥
होमं च तर्पणं विप्रभोजनं च दशांशतः ।
शिवे प्रसन्ने कुण्डाद्धि तुरङ्गो निःसरिष्यति ॥ १४ ॥
तमारुह्य व्रज रणं जयं प्राप्स्यसि निश्चितम् ।
॥ क उवाच ॥
एवं पितुर्वचः श्रुत्वा प्राह पुत्रो मुदा च तम् ॥ १५ ॥
उपदेशः कृतः सम्यग्विधिमस्य ब्रवीतु मे ।
ततो लोकं निवार्यैव जग्मतुर्गृहमध्यतः ॥ १६ ॥
उभावारक्तवसनौ रक्तचन्दनचर्चितौ ।
रक्तपुष्पाणि सन्नीय शिवं पुपूजतुस्तदा ॥ १७ ॥
अनुष्ठानं बहुदिनं चक्रतुः परमादरात् ।
अनुष्ठाने समाप्ते तु कुण्डं चक्रतुरादरात् ॥ १८ ॥
षट्कोणं लक्षणैर्युक्तं मेखलायोनिसंयुतम् ।
तत्राग्निं विधिवत्स्थाप्य पात्राणि च यथाविधि ॥ १९ ॥
पञ्चप्रेतासनगतौ जहुवुस्तौ हविस्तदा ।
स्वजानुभागमांसानि छित्त्वा छित्त्वा च भक्तितः ॥ २० ॥
असृग्घृतेन मांसेन तप्तोऽभूत् पावकस्तदा ।
दशांशहोमे जाते तु पुपूजे वह्निदेवताम् ॥ २१ ॥
बलिदानं चकाराशु छित्त्वा पुत्रशिरस्तदा ।
तेन पूर्णाहुतिं चक्रे विससर्जाथ पावकम् ॥ २२ ॥
ईश्वरस्य प्रसादेन पुत्रोऽस्य पूर्ववद् बभौ ।
ब्राह्मणान्भोजयामास तर्पणान्ते यथाविधि ॥ २३ ॥
ततो रात्र्यां व्यतीतायामुदिते च दिवाकरे ।
ददर्श तुरगं कृष्णं स्निग्धाङ्गं बलवत्तरम् ॥ २४ ॥
मनोजवं हेषितेन कम्पयन्तं जगत्त्रयम् ।
पुपूज परया भक्त्या नीराज्यैनं यथाविधि ॥ २५ ॥
अलङ्कृत्यालङ्करणैर्मणिमुक्तामयैः शुभैः ।
नमस्कृत्य द्विजान् सम्यक् पितरं परिगृह्य च ॥ २६ ॥
आशिषोऽथ समारुह्य तमश्वं स सुरान्तकः ।
शेषसेनां समादाय ययौ शेषं प्रकम्पयन् ॥ २७ ॥
शस्त्रास्त्रैः कवचैः शूलैर्भाति सेना धनुः शरैः ।
आससाद रणस्तम्भं तथा सह सुरान्तकः ॥ २८ ॥
क्रन्दत्सु सर्वसैन्येषु संत्रस्ता देववाहिनी ।
व्याप्ते तु राजसा व्योम्नि न प्राज्ञायत किञ्चन ॥ २९ ॥
पुनरप्यागतो दैत्यः सद्यः सेनाविघातकः ।
सिद्धिसेनाचराश्चैव प्राद्रवन् दुःखिता भृशम् ॥ ३० ॥
दृष्ट्वा रणागतं तं तु सिद्धिसेना समुत्थिता ।
हेषाभिः सिंहनादैश्च नादयन्ती दिगन्तरम् ॥ ३१ ॥
ततः शत्रप्रहारैश्च निजघ्नुरितरेतरम् ।
सहस्व प्रहरामीति प्रबोध्य जघ्नुरोजसा ॥ ३२ ॥
भुवि जानुं विनिक्षिप्य शरानाशीविषोमपान् ।
आकर्णं धनुराकृष्य युयधुस्ते परस्परम् ॥ ३३ ॥
खेटानि चान्तरे कृत्वा युयुधुश्चापरे तदा ।
स्मृत्वा पूर्वप्रहारं च परिजघ्नुश्च केचन ॥ ३४ ॥
पूर्ववैरमनुस्मृत्य रिपुंश्चक्रे विरूपिणः ।
कोऽपि वीरश्रिया युक्तो रिपुं केशेषु चाग्रहीत् ॥ ३५ ॥
पार्ष्णिघातैर्मुष्टिघातैः पातयामास भूतले ।
कौचिन्मत्तौ शिरोघातं जघ्नतुरितरेतरम् ॥ ३६ ॥
ततो भग्नां दैत्यसेनां दृष्ट्वा स तु सुरान्तकः ।
अश्वं सम्प्रेषयामास सेनां सिद्धिविनिर्मिताम् ॥ ३७ ॥
अश्वहेषां समाकर्ण्य केचिन्मूर्च्छागता भुवि ।
पतिता अश्वचरणैश्चूर्णिताश्चापरेसुराः ॥ ३८ ॥
त्रिशूलेन हताश्चान्ये खड्गेन च तथा परे ।
बाणजालैरनेकैश्च पातयामास वै सुरान् ॥ ३९ ॥
सर्वस्मिन् हन्यमाने तु स्वसैन्ये सिद्धयस्तदा ।
पलायनं समालम्ब्य ययुः सर्वा विनायकम् ॥ ४० ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे सिद्धिपराजयो नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-66

कोई टिप्पणी नहीं:

123