श्रीगणेशपुराणे क्रीडाखण्डे एकोनसप्ततितमोऽध्यायः
मायाप्रदर्शनं
॥ क उवाच ॥
ततो देवान्तकोऽतीव विस्मितोऽतर्कयत् तदा ।
यथा यथा मया माया क्रियतेऽस्य निवृत्तये ॥ १ ॥
तथा तथाऽप्ययं बालो दर्शयत्येव पौरुषम् ।
कदायं निधनं यायात् कदा स्वप्स्ये गतश्रमः ॥ २ ॥
इत्येवं चिन्तयाविष्टो धनुः सज्यमथाकरोत् ।
अभिमन्त्र्य शरं घोरं विससर्ज विनायके ॥ ३ ॥
स सायको बाणवर्षमनन्तं कृतवान् विभौ ।
शक्तिं च निर्ममे घोरां त्रैलोक्यग्राससाहसाम् ॥ ४ ॥
ददर्श विघ्नराजस्तं तदङ्के दैत्यपुङ्गवम् ।
वर्षन्तं शरजालानि तीक्ष्णानि सुबहून्यपि ॥ ५ ॥
ततोऽष्टसिद्धयः शीघ्रमुड्डीय बलवत्तरम् ।
दध्रुस्तां सहसा शक्तिमानिन्युस्तां विनायकम् ॥ ६ ॥
आनीयमाना सा हस्तान्निःसृत्याऽथ पलायिता ।
रोषात् ताभिर्दैत्यपतिरानायि स कचग्रहात् ॥ ७ ॥
अणिमानं ततो दैत्यो जघान मुष्टिना दृढम् ।
मुष्टिघातं समासाद्य मूर्च्छिता निपपात ह ॥ ८ ॥
लघिमा गरिमा चाथ वशिमा तं महासुरम् ।
यावल्लत्ताप्रहारैस्तु निजघ्नुस्तावदेव हि ॥ ९ ॥
दैत्येन विधृताः वेगाच्चरणेषु पृथक्पृथक् ।
यावदास्फालयत् पृथ्व्यां निःसृतास्तावदेवताः ॥ १० ॥
प्राकाम्यं चैव भूतिश्च जघ्नतुस्तं ततो बलात् ।
पपात भूतले दैत्यो वमन्नग्निं मुखात्ततः ॥ ११ ॥
क्षणाल्लभ्य ततः संज्ञामारुरोह हयं दृढम् ।
शस्त्रपाणिर्वायुवेगो निजघान विनायकम् ॥ १२ ॥
दृढासिघाताद् देवोऽथ किञ्चिन् मूर्च्छामवाप्तवान् ।
निमेषात्सावधानोऽभूदधावद् दैत्यनायकम् ॥ १३ ॥
हिरण्यकशिपुं विष्णुर्यथा वृत्रं शचीपतिः ।
शरं च कमलं पाशमङ्कुशं च चतुःकरैः ॥ १४ ॥
बिभ्राणः शुशुभे वीरश्रिया परमया ज्वलन् ।
गर्जित्वा घनवद् देवो जघान दैत्यपुङ्गवम् ॥ १५ ॥
चतुर्भिरायुधैर्वेगान्न चचाल तथापि सः ।
आश्चर्यं परमं प्राप दृष्ट्वा शस्त्रं वृथागतम् ॥ १६ ॥
वज्रात् सारतरं मेने दैत्यदेहं विनायकः ।
ततो देवो राक्षसस्य धूम्राक्ष्यस्य महायुधम् ॥ १७ ॥
वज्रं सञ्चूर्णयन् सूर्यमण्डलादागतं तु यत् ।
तदादायाऽहनत्तेन दैत्यं तच्छतधाऽभवत् ॥ १८ ॥
न रोमापि चचालाऽस्य तदप्याश्चर्यमुत्तमम् ।
ततो नानाशस्त्रघातैर्जघ्नतुस्तौ परस्परम् ॥ १९ ॥
मस्तके पृष्ठभागे च हृदये बाहुमण्डले ।
तयोः शस्त्रविघातेन जातो वह्निर्वसुन्धराम् ॥ २० ॥
ददाह न च तौ भीतौ युद्धमेवान्वपद्यत ।
निशीथे तमसा व्याप्ते विरामं न समीयतुः ॥ २१ ॥
ततः कृत्रिमदीप्त्या तौ परस्परमयुध्यताम् ।
ततो मायां रौद्रकेतुश्चक्रे सुरविमोहिनीम् ॥ २२ ॥
अदितिं सुन्दरां कृत्वा दैत्यहस्ते न्यवेशयत् ।
पद्मनेत्रां पीनकुचां कुङ्कुमारक्तभालिकाम् ॥ २३ ॥
मुक्तहारां सुवलयां दिव्यांशुकविराजिताम् ।
लावण्यलहरीं रुक्मविलसद्दिव्यकञ्चुकाम् ॥ २४ ॥
विनायकं निरीक्ष्यैव रुरोद दैत्यहस्तगा ।
धाव धावेति तं प्राह त्रासिताऽहं किमीक्ष्यसे ॥ २५ ॥
एवं ब्रुवत्या दैत्योऽस्याश्चिच्छेद कञ्चुकीं बलात् ।
अंशुकं च चकर्षांस्या मदेनाविष्टचेतसा ॥ २६ ॥
उच्चैरुवाच देवं सा क्व गता पुरुषार्थता ।
लोकलज्जाभयान्मां त्वं निःस्नेहाशु विमोचय ॥ २७ ॥
विनायको निरीक्ष्यैतां वाष्पकण्ठो रुषान्वितः ।
न सस्मार विचारं स शस्त्राणि जगलुः करात् ॥ २८ ॥
शुशोच मम मातेयं कथमस्य करे गता ।
धिग्जन्म यस्य जननि गताऽवस्थां दुरत्ययाम् ॥ २९ ॥
देवानां जननी चैव सम्प्राप्ता दृष्टसङ्गतिम् ।
काशिराजोऽपि तं दृष्ट्वा शोचन्तं गणनायकम् ॥ ३० ॥
स्वयं शुशोच बहुधा लोकोऽपि नगरे स्थितः ।
ततो देवान्तको देवं जगर्हे बहुधा तदा ॥ ३१ ॥
धिग्जन्म पौरुषं तेऽद्य न प्राणं त्यजसे कथम् ।
निर्लज्जोऽसि मुखं लोके दर्शयस्येव योऽधुना ॥ ३२ ॥
त्वत्समीपं हनिष्येऽस्याः शिरः कायात्खलाधुना ।
॥ क उवाच ॥
इति तं निष्ठुरं वाक्यं श्रुत्वा देवो विनायकः ॥ ३३ ॥
तर्कयामास मनसि सत्यमेव वदत्ययम् ।
प्राणत्यागाय किं कार्यं विषं वा पाशबन्धनम् ॥ ३४ ॥
उदरे शस्त्रसङ्घातः कार्यो वा मृत्युहेतवे ।
इत्थं यावच्चिन्तयते दुःखशोकसमन्वितः ॥ ३५ ॥
तावदाकाशवाणीं स शुश्राव च विनायकः ।
॥ आकाशवाणी उवाच ॥
मायेयं रचिता देव दैत्येन दुष्टबुद्धिना ॥ ३६ ॥
अवधेहि रणंयत्तो भूत्वा जहि निजं रिपुम् ।
ततः स सावधानोऽभूज्ज्ञात्वा मायामयीं तु ताम् ॥ ३७ ॥
जहर्ष च महाबुद्धिर्दैत्यं हन्तुं प्रचक्रमे ।
स्मृत्वा च तद्वरं शम्भुदत्तं तस्मै दुरात्मने ॥ ३८ ॥
उषः कालं विना सर्वशस्त्रास्त्राणि वृथा त्वयि ।
एवं तस्य वरं ज्ञात्वा प्रातर्युद्धाय निर्ययौ ॥ ३९ ॥
दैत्योऽपि पुरतोऽपश्यद् युद्धान्ते तं विनायकम् ।
आरक्तनयनं भ्राजन्मुकुटं कुण्डलोज्वलम् ॥ ४० ॥
दन्तप्रकाशरुचिरं मुक्तादामविभूषितम् ।
दिव्याम्बरं सुधामानं व्योमस्पृक्पुष्करं विभुम् ॥ ४१ ॥
दृष्ट्वा देवान्तको रूपं बिभाय च विसस्मरे ।
अर्द्धं नरशरीरं किमर्द्धं गजसमं परम् ॥ ४२ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे मायाप्रदर्शनं नामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें