श्रीगणेशपुराणे क्रीडाखण्डे एकत्रिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे एकत्रिंशोऽध्यायः
क्रीडाखण्डे बालचरिते वामनविक्रमं

॥ ब्रह्मोवाच ॥

वेदाँश्च चतुरः साङ्गानध्यापयत तं मुनिः ।
एकस्मिन् दिवसे तातं वामनः पर्यपृच्छत ॥ १ ॥
केनोपायेन देवानां पदप्राप्तिर्भविष्यति ।
भूभारहरणं तन्मे यथावद्वक्तुमर्हसि ॥ २ ॥


॥ कश्यप उवाच ॥
उपदेशं करिष्यामि मन्त्रस्य सिद्धिदस्य ते ।
षडक्षरस्य विघ्नेशतोषकस्य ममात्मज ॥ ३ ॥
तस्मिन्प्रसन्ने विघ्नेशे जगत्स्थित्यन्तकारिणि ।
अनेकब्रह्माण्डविधौ सर्वकारणकारणे ॥ ४ ॥
सर्वे कामाः प्रसिध्यन्ति तदर्थे यत्नमाचर ।
॥ ब्रह्मोवाच ॥
एवमुक्त्वा ददौ तस्मै सुमुहुर्ते महामनुम् ॥ ५ ॥
तदैव चलितस्तस्मादाश्रमाद्धर्षसंयुतः ।
प्रणम्य तमनुज्ञाप्य जगाम तपसे शिशुः ॥ ६ ॥
भ्रमता ददृशे तेन विदर्भे स्थानमुत्तमम् ।
लतावृक्षसमाकीर्णं कासारपरिशोभितम् ॥ ७ ॥
तत्र पद्मासनं कृत्वा जजाप तं मनुं शुभम् ।
षडक्षरं वर्षमात्रं निराहारो जितेन्द्रियः ॥ ८ ॥
निर्वाणं तस्य तज्ज्ञात्वाऽऽविरासीत् सिद्धिबुद्धियुक् ।
मयूरवाहनो देवः शुण्डादण्डविराजितः ॥ ९ ॥
विलसद्दशदोर्दण्डो रत्नमाला विभूषितः ।
आशीविषलसन्नाभिर्नानालङ्कारशोभितः ॥ १० ॥
आगतो दृढभक्तं तं धेनुर्वत्समिवादरात् ।
वामनस्तं पुरो दृष्ट्वा सर्वतेजोऽभिभाविनम् ॥ ११ ॥
सर्वसिद्धिकरं देवं सर्वविघ्ननिवारणम् ।
नुनाव परया भक्त्या देवदेवं गजाननम् ॥ १२ ॥
॥ वामन उवाच ॥
अव्यक्तं व्यक्तहेतुं निगमनुततनुं सर्वदेवाधिदेवं
ब्रह्माण्डानामधीशं जगदुदयकरं सर्ववेदान्तवेद्यम् ।
मायातीतं स्ववेद्यं स्थितिविलयकरं सर्वविद्यानिधानं
सर्वेशं सर्वरूपं सकलभयहरं कामदं कान्तरूपम् ॥ १३ ॥
तं वन्दे विघ्नराजं विधिहरमुनिभिः सेव्यमानं
सनागैस्तेजोराशि त्रिसत्यं त्रिगुणविरहितं तत्त्वमस्यादिबोध्यम् ।
भक्तेच्छोपात्तदेहं निजजनसुखदं तत्त्वबुद्धि प्रकाशं
साम्बाद्यैः स्तूयमानं सकलतनुगतं भुक्तिमुक्तिप्रदं तम् ॥ १४ ॥
॥ ब्रह्मोवाच ॥
इति स्तुतो देवदेवः प्रसन्नः प्राह वामनम् ।
वरं वरय तुष्टोऽयं यत्ते मनसि वर्तते ।
स्तोत्रेण तपसा चैव परितुष्टो ददामि तत् ॥ १५ ॥
॥ वामन उवाच ॥
न ते स्वरूपं विदुरब्जजाद्या ब्रह्मर्षयो ये सनकादिकाद्याः ।
दृष्टोऽसि स त्वं जगतामधीश त्वत्तः कमन्यं वरमद्य याचे ॥ १६ ॥
अथापि ते वाक्यभिदाभयात् वा याचे वरं तं मम नाथ देहि ।
पराजयो मे न भवेत् कदापि कार्येऽखिले विघ्नभयं न च स्यात् ॥ १७ ॥
उद्यतोऽस्ति बलिः शक्रपदमत्तुं क्रतोर्बलात् ।
स च मां शरणं यातस्तस्य सिद्धिर्यथा भवेत् ॥ १८ ॥
तथा कुरु जगत्कर्तर्यदि तुष्टोऽसि मेऽनघ ।
॥ गजानन उवाच ॥
एतत्ते भविता सर्वं स्मरणान् मम सुव्रत ॥ १९ ॥
सेत्स्यन्ति सर्वकार्याणि महान्ति च लघूनि च ।
॥ ब्रह्मोवाच ॥
एवमुक्त्वा गते देवे वामनोऽकारयच्छुभाम् ।
काश्मीरोपलजां सोऽथऽस्थापयन्मूर्तिमुत्तमाम् ॥ २० ॥
चतुर्भुजां त्रिनयनां शुण्डादण्डविराजिताम् ।
प्रसन्नकरिहस्तेन भक्तानामभयप्रदाम् ॥ २१ ॥
स्मरणाद्दर्शनाद्ध्यानात्पूजनात्सर्वकामदाम् ।
प्रासादं कारयामास रत्नकाञ्चननिर्मितम् ॥ २२ ॥
तत्रैकं ब्राह्मणं स्थाप्य ग्रामं दत्वा धनानि च ।
त्रिकालं पूजनै तस्य कारयामास तेन सः ॥ २३ ॥
आगतः स्वगृहं नत्वा पितरं सर्वमब्रवीत् ।
तपश्च तत्फलं चाथ यज्ञं गन्तुमपृच्छत ॥ २४ ॥
कश्यपेनाऽभ्यनुज्ञातो वामनो दर्भदण्डभृत् ।
सूत्रकृष्णाजिनधरो मेखली यज्ञमाययौ ॥ २५ ॥
ह्रस्वाकृतिं मुनिं दृष्ट्वा मुनयो विस्मितास्तदा ।
नायं मुनिर्यतस्तेजो दृश्यते परमाद्भुतम् ॥ २६ ॥
तं दृष्ट्वा परमायान्तं बलिरुत्थाय सत्वरम् ।
कोऽसि त्वमिति पप्रच्छ नत्वा तं कुत आगतः ॥ २७ ॥
किं वाञ्छसि वद विभो पिता माता च कौ तव ।
वसतिस्तव कुत्रास्ति तत ऊचे स वामनः ॥ २८ ॥
न स्मरे पितरौ राजन्ननाथं विद्धि मां कृशम् ।
त्रैलोक्ये वसतिर्मेऽस्ति याचे भूमिं त्रिभिः पदैः ॥ २९ ॥
मितां कर्तुं पर्णकुटीं शक्तिश्चेदस्ति दीयताम् ।
॥ ब्रह्मोवाच ॥
इति वाक्यं मुनेः श्रुत्वा हृदि ज्ञात्वा कृपायुतम् ॥ ३० ॥
तं दातुमुद्यतं भूमिमूचे काव्यो बलिं तदा ।
॥ शुक्र उवाच ॥
न ब्राह्मणो हरिरयं कपटं रूपमास्थितः ॥ ३१ ॥
हरिष्यति त्रिभुवनं पदत्रयमिषेण तु ।
मा दीयतामस्य किञ्चिदिति सत्यं ब्रवीमि ते ॥ ३२ ॥
तमुवाच महादैत्यो मूढ किं वदसे वचः ।
हरिश्चेद् विमुखो गच्छेत् सर्वं मे सुकृतं नयेत् ॥ ३३ ॥
अस्मात् पात्रं किमन्यत् स्यादस्मै दत्तमनन्तकम् ।
इत्युक्त्वा तं पुनः प्राह वामनं दैत्यपुङ्गवः ॥ ३४ ॥
ब्रह्मन् दत्ता मया भूमिः सङ्कल्पः क्रियतामिति ।
वामनः प्राह राजानं सङ्कल्पयितुमुद्यतम् ॥ ३५ ॥
तावद्धारां निरुध्यैव स्थितः शक्रोऽन्यदेहतः ।
ददौ शलाकां तत्पात्रे भग्ननेत्रो बहिर्गतः ॥ ३६ ॥
ततः पाणितले तस्य वामनस्य जलं ददौ ।
स्मृत्वा गणेशं ववृधे वामनो हर्षनिर्भरः ॥ ३७ ॥
मूर्ध्नाक्रम्य स्वर्गलोकमेकपादेन रोदसी ।
पातालान्यपरेणापि दत्तं तन्मस्तकेऽपरम् ॥ ३८ ॥
तत ऊचे बलिं देवो गच्छ त्वं धरणीतलम् ।
त्वां विनाऽहं कथं यामीत्येवमाह बलिस्तु तम् ॥ ३९ ॥
इत्याकर्ण्य वचस्तस्य पुनस्तं प्राह वामनः ।
सान्निध्यं मम तत्रापि भविता त्वदनुग्रहात् ॥ ४० ॥
इन्द्रो मां शरणं यातः प्रियं कार्यं हि तस्य मे ।
तवापि मम भक्तस्य प्रियं पश्चाद् भविष्यति ॥ ४१ ॥
ऐन्द्रे पदे निवृत्तेऽस्य पदं दास्ये तवैव तत् ।
ततो ब्रह्मादयो देवास्तुष्टुवुर्वामनं विभुम् ॥ ४२ ॥
मुमुचुः पुष्पवर्षाणि वाद्यानि ववदुः सुराः ।
पुपूजुस्तेऽपि सर्वे च जगुश्च ननृतुः परे ॥ ४३ ॥
ततश्चान्तर्दधे देवो वामनोऽनन्तविक्रमः ।
स्वं स्वं स्थानं गता देवा यथापूर्वं मुदान्विताः ॥ ४४ ॥
॥ ब्रह्मोवाच ॥
एवं तेन कृता मूर्तिविख्याताऽभूज्जगत्रये ।
गजाननस्य देवस्य सर्वेषां कामदा नृणाम् ॥ ४५ ॥
इत्येतत् कथितं सर्व प्रसङ्गाद् बलिचेष्टितम् ।
लाघवं वामनस्यापि महिमा सुमुखस्य ह ॥ ४६ ॥
अदोषाख्ये पुरे तेन स्थापितस्य महात्मना ।
दशबाहोः प्रसिद्धस्य देवदक्षिणभागतः ।
प्रियत्वं तस्य शम्यास्ते कथयिष्येऽधुना स्फुटम् ॥ ४७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते वामनविक्रमोनामैकत्रिंशोऽध्यायः ॥ ३१ ॥

    इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-31

कोई टिप्पणी नहीं:

123