श्रीगणेशपुराणे क्रीडाखण्डे चत्वारिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे चत्वारिंशोऽध्यायः
बालचरिते विनायकावतरणं

॥ गृत्समद उवाच ॥

ततः केदारमगमन्सर्वे देवर्षयस्तदा ।
व्यजिज्ञपुः पद्मभवं सशिवं सर्ववित्तमम् ॥ १ ॥
प्रणभ्य शिरसा सर्वे वागीन्द्राग्निपुरः सराः ।
॥ देवर्षय ऊचुः ॥
पदभ्रष्टा वयं देवाः स्वाचारन्मुनयोऽपि च ॥ २ ॥


दुरासदभिया देव स्नानं कर्तुं न च क्षमाः ।
केनास्मै हि वरो दत्तो येनासौ भुवनेश्वरः ॥ ३ ॥
जातो दुष्टो वधश्चास्य कस्मादेतद् विचिन्त्यताम् ।
येनैव सौख्यं लोकानां तत्कर्तव्यं दयालुभिः ॥ ४ ॥
॥ ब्रह्मोवाच ॥
इति तद्वचनं श्रुत्वा प्रोवाच चतुराननः ।
उपायं कथयिष्यामि तद्वधाय सुरर्षयः ॥ ५ ॥
यदा तेन तपस्तप्तं दारुणं बहुवासरम् ।
ददावस्मै वरान्देवो ह्यनन्तानम्बिकापतिः ॥ ६ ॥
एनं यो घातयेद्देवः स नास्ति भुवनत्रये ।
कदाचिद्देवदेवोऽसौ गुणत्रयविभागकृत् ॥ ७ ॥
अहं शिवश्च विष्णुश्च त्रेधा जाता यदाज्ञया ।
गुणत्रयविभागात्स गुणेश इति पप्रथे ॥ ८ ॥
विश्वव्यापी च मायावी विश्वकर्ताऽपहारकः ।
गुणातीतो गुणेशश्च परात्परतरः शिवः ॥ ९ ॥
बिभृयात्सोऽवतारं चेत्पार्वत्या जठरे विभुः ।
तदैव तस्य नाशः स्यान्नान्यथा सुरसत्तमः ॥ १० ॥
स्तुवन्तु सर्वे तस्मात्तं विश्वचिन्ताकरं प्रभुम् ।
आदौ कुरुत तां देवीं प्रसन्नां भववल्लभाम् ॥ ११ ॥
तत्तेजः सम्भवो बालो दुरासदवधे भवेत् ।
एवमेव वरस्तेन शङ्करेण कृतोऽस्य ह ॥ १२ ॥
॥ मुनिरुवाच ॥
एवं वाक्यं ब्रह्ममुखाच्छ्रुत्वा देवा जहर्षिरे ।
तुष्टुवुर्भवकान्तां तां भवानीं भक्तवत्सलाम् ॥ १३ ॥
॥ देवर्षय ऊचुः ॥
नमामहे त्वां जगदेकहेतुं परात्परां विश्वविचित्रशक्तिम् ।
अचिन्त्यरूपां त्रिदशैरशेषैरशेषवन्द्यां त्रिगुणां गुणेशाम् ॥ १४ ॥
धराधरां त्वां धरणीस्वरूपामाधारभूतां स्थिरजङ्गमानाम् ।
त्रैलोक्यसारां त्रिगुणादिभूतां त्रयीतनुं तां त्रिदशस्वरूपाम् ॥ १५ ॥
नमामहे देवि वरप्रदां त्वां विष्णोर्विमोहां पददां सुराणाम् ।
भक्तार्तिहन्त्रीं सकलार्थदात्रीं त्रैलोक्यकर्त्रीं निखिलार्थगोप्त्रीम् ॥ १६ ॥
एवं स्तुत्वा तदा देवीं जगाद सुरसत्तमान् ।
वृणुध्वं वाञ्छितं देवाः स्तोत्रेणानेन तोषिता ॥ १७ ॥
ददामि सकलान्कामान्भवतां ये मनोगतान् ।
तत ऊचुः सुराः सर्वे वृत्तान्तं ब्रह्मणेरितम् ॥ १८ ॥
तत ऊचे च तान्देवी स्तुवन्तु गणनायकम् ।
शुभाशुभस्य यः कर्ता सर्वासिद्धिकरो विभुः ॥ १९ ॥
अवाप्तसर्वकामार्थः सर्वस्य जगतः पिता ।
ततस्ते तुष्टुवर्देवं भक्त्या सर्वे विनायकम् ॥ २० ॥
॥ देवर्षय ऊचुः ॥
नताः स्मो विघ्नकर्तारं दयालुं सर्वपालकम् ।
सर्वस्य जगतो हेतुं सर्वव्यापिनमीश्वरम् ॥ २१ ॥
अनेकशक्तिसंयुक्तं सर्वकामप्रपूरकम् ।
दीनानुकम्पिनं देवं सर्वज्ञं करुणानिधिम् ॥ २२ ॥
स्वेच्छोपात्ताकृतिं नैकावतारनिरतं सदा ।
गुणातीतं गुणक्षोभं चराचरगुरुं विभुम् ॥ २३ ॥
एकदन्तं द्विदन्तं च त्रिनेत्रं दशहस्तकम् ।
शुण्डादण्डमुखं विघ्ननाशनं पापहारकम् ॥ २४ ॥
भक्तानां वरदं नित्यं सृष्टिस्थित्यन्तकारकम् ।
अनादिमध्यनिधनं भूतादिं भूतवर्धनम् ॥ २५ ॥
त्रिलोकेशं सुराधीशं दुष्टदानवमर्दनम् ।
लम्बकर्णं बृहद्भानुं व्यालभूषाधरं शुभम् ॥ २६ ॥
एवं स्तुत्वा तु तं देवं गणेशं सर्वसिद्धिदम् ।
शुश्रुवुस्ते नभोवाणीं माभूद् वो मानसो ज्वरः ॥ २७ ॥
दुरासदं महावीर्यं हनिष्यामि भयङ्करम् ।
इति श्रुत्वा नभोवाणीं पुनः शङ्करमाययुः ॥ २८ ॥
ध्याननिष्ठं च ते दृष्ट्वा प्रणम्योचुश्च पार्वतीम् ।
॥ देवा ऊचः ॥
न जानीमो नभोवाणीं केनेमामीरितां शुभे ।
हरस्य ध्याननिष्ठात्वात् कथं कुर्मोऽखिलेश्वरि ॥ २९ ॥
॥ देव्युवाच ॥
ततो देवा इदानीं यो निश्चयं स मरिष्यति ।
तस्याः क्रोधेन तप्ताया निश्वसन्त्याः पुनःपुनः ॥ ३० ॥
आस्यान्नासापुटान्नेत्रान्निः सृतं तेज उत्तमम् ।
ज्वालामालाकुलं दग्धुं ब्रह्माण्डमिव चोद्यतम् ॥ ३१ ॥
प्रत्याहतदृशः सर्वे ददृशुर्ज्ञानचक्षुषा ।
वैनायकीं महामूर्तिं दशहस्तां तमोनुदाम् ॥ ३२ ॥
बिभ्रतीं मुकुटं रत्नकोटिसूर्यसमप्रभाम् ।
विद्युत्पभामहारत्नकुण्डले रदनं शुभम् ॥ ३३ ॥
दिव्याम्बरे च सिन्दूरमायुधानि दशैव च ।
कस्तूरीतिलकं भाले मालां हृदि फलान्विताम् ॥ ३४ ॥
यत्तेजो व्यानशे विश्वं प्रलयानलसन्निभम् ।
व्यालयज्ञोपवीतं च ज्ञात्वा नेमुः सुरास्तदा ॥ ३५ ॥
प्रार्थयामासुरथ ते आनन्दघनमीश्वरम् ।
दृष्टोऽतियोगगम्यस्त्वमप्रतर्क्योऽव्ययःस्वराट् ॥ ३६ ॥
निरामयो निराभासो निर्विकल्पोऽजरोऽमरः ।
सर्वस्वरूपः सर्वेशः स्वप्रकाशो जगन्मयः ॥ ३७ ॥
अव्यक्तो जगदाधारो ब्रह्मरूपोऽखिलार्थदृक् ।
पुराणपुरुषो ज्ञानमूर्तिर्वाचामगोचरः ॥ ३८ ॥
वयं धन्या वयं धन्या दृष्ट्वा तं ननृतुः सुराः ।
॥ मुनिरुवाच ॥
यथा देवैर्वर्णितोऽसौ तेजोरूपी विनायकः ॥ ३९ ॥
एवमेव जगन्माता प्रशशंस गजाननम् ।
निर्गुणं यन्निराकारमव्यक्तं सर्वगं परम् ॥ ४० ॥
ध्यानगम्यं चिदाभासं सच्चिदानन्दविग्रहम् ।
सर्वव्यापी जगद्धेतुरद्य यावद् विचिन्तितम् ॥ ४१ ॥
विनायकस्वरूपेण साकारं दृष्टमद्य यत् ।
अवतीर्णं मम गृहे हन्तुं दैत्याननेकशः ॥ ४२ ॥
जगतामुपकाराय पातुं विश्वं चराचरम् ॥ ४३ ॥
पुपूज पार्वती भक्त्या ददौ सिंहं स्ववाहनम् ।
वक्रतुण्डेति नामास्य दध्रे सर्वार्थदं नृणाम् ॥ ४४ ॥
दुरासदस्य च वधं प्रार्थयामास तं तदा ।
देवानां च पदप्राप्तिं निःसपत्नामयाचत् ॥ ४५ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विनायकावतरणं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥

    इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-40

कोई टिप्पणी नहीं:

123