श्रीगणेशपुराणे क्रीडाखण्डे चतुस्त्रिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे चतुस्त्रिंशोऽध्यायः
बालचरिते भ्रुशुण्डिशापवर्णनं

॥ कीर्तिरूवाच ॥

ब्रूहि ब्रह्मन्नशेषेण संवादं नारदेन्द्रजम् ।
श्रुत्वा तं संशयं त्यक्त्वा तृप्ताः स्याममृतादिव ॥ १ ॥
॥ ब्रह्मोवाच ॥
इति तस्या वचः श्रुत्वा वक्तुं समुपचक्रमे ।
स मुनिरितिहासं तं संवादं नारदेन्द्रजम् ॥ २ ॥


॥ मुनिरूवाच ॥
कदाचित् पर्यटन् सुभ्रु नारदो दिव्यदर्शनः ।
यदृच्छया गतः शक्रं त्रिलोकीभ्रमणे रतः ॥ ३ ॥
शक्रस्तं परिपूज्यैव पप्रच्छौरवचेष्टितम् ।
यदाह नारदो धीमांस्तच्छृणुष्व महामुने ॥ ४ ॥
॥ नारद उवाच ॥
देशे मालवसंज्ञात औरवो नाम वै द्विजः ।
वेदवेदाङ्गवित् साक्षाद्भानुरस्तं विना यथा ॥ ५ ॥
शक्तो यो मनसा स्रष्टुं पातुं हर्तुं चराचरम् ।
धर्मपत्नीरतो नित्यं समलोष्ठाश्मकाञ्चनः ॥ ६ ॥
मेधावी तपसा श्रेष्ठो जातवेदा इवापरः ।
सुमेधा नाम तस्यासीत् पत्नी परमधार्मिका ॥ ७ ॥
लावण्यलहरी कान्ता नानालङ्कारशोभना ।
रूपेण निर्जितरतिर्धिक्कृताप्सरसोगणाः ॥ ८ ॥
पतिशुश्रूषणरता लालिता परमादरात् ।
तयोःसमभवत् कन्या साऽपि ताभ्यां सुलालिता ॥ ९ ॥
नामास्याश्चक्रतुरुभौ शमीकेति निजेच्छया ।
यद् यद् प्रार्थयते सा तद् तां ददाति पिता विभुः ॥ १० ॥
सा तु कन्या रूपवती सञ्जाता सप्तवार्षिकी ।
तदर्थं चिन्तयामास वरार्थमौरवो गतः ॥ ११ ॥
धौम्यपुत्रं स शुश्राव वेदशास्त्राङ्गपारगम् ।
शौनकस्य मुनेः शिष्यं तेजोराशिं परं मुनिम् ॥ १२ ॥
गुरुवाक्यरतं दान्तं गुरुशुश्रूषकं परम् ।
मन्दारनामकं शान्तं समाहूयं शुभे दिने ॥ १३ ॥
तां ददौ गृह्यविधिना पारिबर्हं ददौ बहु ।
जाते विवाहे मन्दारो ययौ स्वस्याश्रमं प्रति ॥ १४ ॥
यौवनस्थां तु तां ज्ञात्वा शमीकां पुनराययौ ।
मन्दारो मानितः सम्यग्गौरवेण सुपूजितः ॥ १५ ॥
सम्भोज्य सुमुहूर्तेन दत्त्वा वस्त्रादि काञ्चनम् ।
प्रास्थापयदुभौ विप्रो जामातरमथाब्रवीत् ॥ १६ ॥
इयं सुता मम ब्रह्मन् दत्ता तुभ्यं विधानतः ।
पालयस्व बहुस्नेहादद्ययावन्मया यथा ॥ १७ ॥
प्रणिपत्याथ श्वशुर ओमित्युक्त्वा जगाम सः ।
स्वमाश्रमपदं प्राप्य चिक्रीड निजभार्यया ॥ १८ ॥
कदाचिद् ऋषिमुख्योऽसौ भ्रुशुण्डी तस्य चाश्रमम् ।
मन्दारस्य समायातो द्विरदाननभक्तिमान् ॥ १९ ॥
रुष्टोऽसावनलः साक्षात् तुष्टश्चेदीश्वरोपमः ।
तपसा निर्गता शुण्डा भ्रुशुण्डीति च सोऽभवत् ॥ २० ॥
स्थूलोदरो बृहत्कायो नानालङ्कारमण्डितः ।
ददर्शतुरुभौ तं तौ मन्दारः शमिका तदा ॥ २१ ॥
विरूपमिव तन्दृष्ट्वा जहसतुर्मुदा तदा ।
सोऽपमानभयात् त्रस्तश्चुकोपारुणलोचनः ॥ २२ ॥
उवाच तं मन्दमते न जानासि मदोद्धतः ।
अहसीद् विवृर्तैदन्तैः पत्न्या सह यतस्तु माम् ।
अतो यातं वृक्षयोनौ सर्वप्राणिविवर्जितौ ॥ २३ ॥
॥ ब्रह्मोवाच ॥
शापं श्रुत्वाऽतिकठिनं सन्तप्तौ तौ बभूवतुः ॥ २४ ॥
प्रणम्य प्रोचतुर्विप्रमुच्छापं वक्तुमर्हसि ।
तत ऊचे भ्रुशुण्डी स जानन् करुणया युतः ॥ २५ ॥
शुण्डां दृष्ट्वा कृतं हास्यं युवाभ्यां मूढभावतः ।
शुण्डावान् देवदेवोऽसौ सप्रसन्नो भवेद्यदा ॥ २६ ॥
तदा युवां निजं रूपं प्राप्स्येथे नात्र संशयः ।
एवमुक्त्वा गतो यावन्मुनिराश्रममण्डलम् ॥ २७ ॥
तावत्तौ वृक्षतां यातौ त्यक्त्वा देहौ तु मानुषो ।
मन्दारतां च मन्दारो ब्राह्मणः प्राप तत्क्षणात् ॥ २८ ॥
शमिका शमितां प्राप्ता सर्वतः कण्टकैर्वृता ।
उभौ वृक्षौ प्राणिमात्रैर्वर्जितौ मुनिवाक्यतः ॥ २९ ॥
अनागतौ तु तौ ज्ञात्वा शौनकश्चिन्तयान्वितः ।
मासमात्रे गते नैव याति कस्मान्महाबलः ॥ ३० ॥
मन्दारो यामि तं दृष्टुं शिष्या यान्तुमया सह ।
शीघ्रमौरवमागम्य पप्रच्छ शनकैरिदम् ॥ ३१ ॥
आनेतुं शमिकां प्राप्तो मन्दारः क्वास्ति तद्वद ।
॥ औरव उवाच ॥
मयाऽप्रेषितदैवाशु दत्त्वा कन्यां तया सह ॥ ३२ ॥
नागतश्वेत्स्वाश्रमं स न जाने क्व गतो ह्यसौ ।
चिन्तयामासुरथ ते औरवः शौनकादयः ॥ ३३ ॥
किमुभौ भक्षितौ मार्गे वृकव्याघ्रतरक्षुभिः ।
अथवा निहतौ चोरैर्दष्टावाशीविषेण वा ॥ ३४ ॥
ततस्ते त्वरिता जग्मुस्तदुदन्तबुभुत्सया ।
क्वचित् क्वचिज्जना ऊचुर्मासमात्रमितो गतौ ॥ ३५ ॥
ततोऽरण्ये पदे दृष्टे स्त्रीपुंसोश्चारुरूपिणी ।
अनूपे ते तयोर्ज्ञात्वा स्नात्वा ध्यात्वा विलोकयन् ॥ ३६ ॥
ज्ञात्वा भ्रुशुण्डिना शप्तावुपहासरुषावशात् ।
वृक्षतां गमितौ सर्वपक्षिकीटविवर्जितौ ॥ ३७ ॥
मन्दारतां तु मन्दारः शमिका शमितामपि ।
शोचाते तावुभौ विप्रौ औरवः शौनकोऽपि च ॥ ३८ ॥
धौम्यपुत्रः साधुरयमध्ये तु समुपागतः ।
अधीतविद्यः स कथं गमितो द्रुमतां बलात् ॥ ३९ ॥
पिता श्रुत्वा त्यजेत्प्राणान् पृष्टः किं वा वदामि तम् ।
औरवोऽपि शुशोचैनां शमिकां निजकन्यकाम् ॥ ४० ॥
॥ ब्रह्मोवाच ॥
तावुभौ परिचिन्त्यैवं न भेदो भक्तदेवयोः ।
गणेशं परिराध्यैवं मोचयाव इमावघात् ॥ ४१ ॥
जितेन्द्रियावूर्ध्वदृष्टी निराहारौ दृढव्रतो ।
एकाङ्गुष्ठस्थितावुर्व्यां तोषयामासतुर्मुदा ॥ ४२ ॥
ततस्तौ कृपयाविष्टौ तेपाते परमं तपः ।
षडक्षरेण मन्त्रेण देवदेवं विनायकम् ॥ ४३ ॥
एवं द्वादशवर्षाणि चेरतुस्तप उत्तमम् ।
औरवः कन्यकार्थं च शिष्यार्थं शौनकोऽपि च ॥ ४४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते भ्रुशुण्डिशापवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥

    इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-34

कोई टिप्पणी नहीं:

123