श्रीगणेशपुराणे क्रीडाखण्डे अष्टतत्रिंशोऽध्यायः
बालचरिते दुरासदवरप्राप्तिवर्णनं
॥ कीर्तिरुवाच ॥
सम्यगुक्तं त्वया ब्रह्मन् शमीमाहात्म्यमादरात् ।
मन्दारस्यापि कथितं तेन मे तुष्यते मनः ॥ १ ॥
जीवितश्च कुमारोऽयमुपदिष्टः षडक्षरम् ।
न चोच्चारयितुं शक्यं बालभावान्मुनीश्वर ॥ २ ॥
सुगमं सुप्रसादं च स्वराज्यप्रापकं मुने ।
जप्तुं शक्यं बालकेन मन्त्रमस्मै दिशाधुना ॥ ३ ॥
॥ मुनिरुवाच ॥
सम्यगदृष्टा तव मतिर्गजाननपदाम्बुजे ।
अतोऽहमस्य दास्यामि निज मन्त्रं सुखप्रदम् ॥ ४ ॥
सर्वस्य जगतो हेतुर्नाम यच्चतुरक्षरम् ।
शुभाशुभस्य च द्रष्टर्दुष्टदैत्यहरस्य च ॥ ५ ॥
सर्वधर्मपरित्रातुर्दिवोदासोपकारिणः ।
द्विजरूपधरस्यापि वाराणस्यां स्थितस्य ह ॥ ६ ॥
विश्वेश्वरस्याविमुक्तप्राप्त्यै यत्नं प्रकुर्वतः ।
सर्वान्तर्यामिणश्चापि विश्वेश्वरनुतस्य ह ॥ ७ ॥
जगतः पालनार्थाय जनार्दननुतस्य च ।
ध्यातस्य पूजितस्यापि ब्रह्मणा सृष्टिहेतवे ॥ ८ ॥
अर्चितस्य शिवेनापि सर्वसंहारहेतवे ।
पुलोमजाधवेनापि पूजितस्य सुभक्तितः ॥ ९ ॥
दैत्यानां निधनार्थाय देवराज्यसुखात्पये ।
सूर्येण वरुणेनापि शशिना च यमेन च ॥ १० ॥
अग्निना वायुना स्वस्वगुणोत्कर्षाय पूजिताः ।
बृहस्पत्युशनोभ्यां च स्वस्वोत्कर्षाय पूजितः ॥ ११ ॥
शेषेणाराधितो ढुण्ढिर्धराधरणहेतवे ।
गन्धर्वकिन्नरा यक्षाः सिद्धचारणराक्षसाः ॥ १२ ॥
ऋषयः पशवः सर्वे स्थावरा जङ्गमाः शुभाः ।
आराधयन्ति विश्वेशं स्वस्वकार्यार्थसिद्धये ॥ १३ ॥
अपारगुणपारोऽयं ढुण्ढिराजोऽखिलेश्वरः ।
गुणान्तं न ययुर्यस्य ब्रह्मविष्णुशिवादयः ॥ १४ ॥
तस्मिन्स्तु पूजिते भक्त्या शमीपत्रेण भावतः ।
पुत्रस्ते भविता राज्यभागी शत्रुनिबर्हणः ॥ १५ ॥
॥ कीर्तिरुवाच ॥
श्रुतो मे महिमा ब्रह्मन् ढुण्ढिराजाश्रयोऽखिलः ।
किङ्कर्मा कथमुत्पन्नः कस्यांशः किं पराक्रमः ॥ १६ ॥
केनास्य च कृतं नाम केनासौ पूजितः पुरा ।
इमं मे संशयं ब्रह्मन् छेत्तुमर्हस्यशेषतः ॥ १७ ॥
॥ मुनिरुवाच ॥
सम्यक्पृष्टं त्वया भद्रे ज्ञानाधिकतया शुभे ।
भक्त्या निवेदितश्चायं संशयस्मं नुदामि ते ॥ १८ ॥
यथा दुरासदो दैत्यो हतोऽनेन तु राक्षसः ।
मायावतारो मोहाय यातो दिवोदासं नृपम् ॥ १९ ॥
अविमुक्तं समानीतो यथा विश्वेश्वरो हरः ।
ढुण्डिराजेति नामास्य येन जातं नृपाङ्गने ॥ २० ॥
तत्सर्वं कथयिष्यामि यथा स्कन्दाच्छ्रुतं मया ।
अगस्त्याय कथयता शृणुष्वैकमनाः शुभे ॥ २१ ॥
॥ स्कन्द उवाच ॥
शृणुष्वावहितो ब्रह्मन्नविमुक्ताश्रयां कथाम् ।
यस्याः श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ २२ ॥
कश्यपाय हरिः प्राह सृज नानाविधाः प्रजाः ।
प्ररूढतपसा कायः ससृजेऽथ जरायुजा प्रजाः ॥ २३ ॥
एकविंशतिसाहस्रमण्डजाः स्वेदजास्तदा ।
उद्भिजाश्चैव तावन्त्यो मानष्यं तासु दुर्लभम् ॥ २४ ॥
पुण्येन लभते तच्च ब्राह्मण्यं बहपुण्यतः ।
तच्चेत्संरक्षितं सम्यग् धर्माधर्मव्यवस्थया ॥ २५ ॥
ददाति परमं स्थानं यद्गत्वा न निर्वतते ।
चतुराशीतिलक्षेषु नो चेत्पतितजन्मसु ॥ २६ ॥
दुराचारा नरा याम्ययातनासु पतन्ति वै ।
कर्मक्षये ततो जाते बहुकालेन ते पुनः ॥ २७ ॥
मृत्युलोकं समायान्ति काणाः कुब्जा दरिद्रिणः ।
तदेषामनुकम्पार्थं ब्रह्मेशानादयः सुराः ॥ २८ ॥
ऋषयश्च महाभागा नानातीर्थानि चक्रिरे ।
क्षेत्राणि च महार्हाणि प्राणिपापहराणि च ॥ २९ ॥
विलयन्तः स्थितास्तत्र पापं देवर्षयस्तदा ।
यत्र स्थितानां जन्तूनां पापस्य विलयो भवेत् ॥ ३० ॥
जन्तून् पापात् परित्रातुं स्थिता देवर्षयः सदा ।
सर्वश्रेष्ठां सर्वगुणां भुक्तिमुक्तिप्रदां शुभाम् ॥ ३१ ॥
विश्वेश्वरो निर्ममेऽथ ध्यातृज्ञातृविमुक्तिदाम् ।
सर्वतीर्थमयीं रम्यां नाम्ना वाराणसीं पुरीम् ॥ ३२ ॥
यत्र चक्रे सरः ख्यातं विष्णुना प्रभविष्णुना ।
तपस्यता कृतं चारु स्नानमात्रेण मुक्तिदम् ॥ ३३ ॥
यदृष्ट्वा कन्धराकम्पाच्छिवस्य कुण्डलान्मणिः ।
पतितस्तत्र सञ्जाता नाम्ना सा मणिकर्णिका ॥ ३४ ॥
ततो भगीरथाहूता जाता भागीरथी नदी ।
अत्र कीटपतङ्गानां मुक्तिर्मरणतो भवेत् ॥ ३५ ॥
त्रिवारनामस्मरणात् काशीवासफलप्रदा ।
धन्यास्ता वीरुधो वल्ल्यस्तृणवृक्षा न चान्यतः ॥ ३६ ॥
गछन्ति कमठा मत्स्या भूकैलासं विहाय तत् ।
नित्यं यत्र स्थितो शम्भुर्नानारूपोऽथ रूपवान् ॥ ३७ ॥
रविः शशी हरिर्ब्रह्मा स एव गिरिजापतिः ।
विनायकः शक्तिरूपः कारणं जगतोऽपि सः ॥ ३८ ॥
प्रलयेऽपि त्रिशूलाग्रे ध्रियते येन काशिका ।
एकोऽयं पञ्चधा जातो लोकानुग्रहकाम्ययाः ॥ ३९ ॥
भक्तो यां ध्यायति मूर्तिं सा तेन ध्रियते क्षणात् ।
अत्र यो मनुते भेदं सोऽवीचीर्लभते नरः ॥ ४० ॥
स्तुतिमेकत्र निन्दां वा परत्र यः समाचरेत् ।
स याति नरकानेकविंशतिं बहुवत्सरम् ॥ ४१ ॥
अतो भस्मासुरसुतः ख्यातो नाम्ना दुरासदः ।
स शुक्रमुपसङ्गम्य विद्यां पञ्चाक्षरीमगात् ॥ ४२ ॥
दिव्यवर्षसहस्रं स एकाङ्गुष्ठस्थितोऽभवत् ।
निराहारः काष्ठभूतः सवल्मीकोऽस्थिशेषवान् ॥ ४३ ॥
नेत्रमात्रावशिष्टोऽसौ जजाप परमं मनुम् ।
आययौ तं वरं दातुं तत्क्लेशपरितोषितः ॥ ४४ ॥
दशबाहुः पञ्चवक्त्रो रुण्डमालाविभूषितः ।
त्रिशुलं डमरु बिभ्रज्जटाजूटविभूषितः ॥ ४५ ॥
गङ्गाधरस्त्रिनयनश्चिताभस्माङ्गलेपनः ।
वृषध्वजो वृषारूढः शशिरेखाविभूषितः ॥ ४६ ॥
अपर्णाङ्ककृपाविष्टो जगाद दैत्यपुङ्गवम् ।
॥ शिव उवाच ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते तपसा क्लेशितो भृशम् ॥ ४७ ॥
ईप्सितं ते प्रदास्यामि वरयस्व हृदि स्थितम् ।
॥ ब्रह्मोवाच ॥
तत उन्मील्य नयने बद्ध्वाञ्जलिपुटोऽसुरः ॥ ४८ ॥
प्रणम्य परितुष्टाव वरदं तं महेश्वरम् ।
त्वं जगत् कारणं देव परमानन्दविग्रहः ॥ ४९ ॥
क्षराक्षरातीततनुर्गुणत्रयविकारकृत् ।
गुणातीतो ज्ञानमयो व्यक्ताव्यक्तविधानवित् ॥ ५० ॥
मुनिध्येयतनुः सर्वभक्तानुग्रहकारकः ।
ब्रह्माण्डानामनन्तानां हेतुः श्रेयस्करः सताम् ॥ ५१ ॥
अखण्डानन्दपूर्णस्त्वममोघफलदायकः ।
सर्वाधारः सर्वसहः सर्वशक्त्युपबृंहितः ॥ ५२ ॥
पृथिवीवायुसलिलवह्नितेजः स्वरूपवान् ।
अद्य धन्यं तपो नेत्रे पितरौ जन्म ते यतः ॥ ५३ ॥
दृष्ट स्वरूपं साक्षान्मे गतं पापं लयं परम् ।
योगिहृच्छ्रुतिवाचो यो गोचरो न कदाचन ।
इदानीं वरये देव तन्मे त्वं दातुमर्हसि ॥ ५४ ॥
॥ शिव उवाच ॥
निःशङ्कं वरयाशु त्वं सर्वं दास्येऽतिदुर्लभम् ।
स्तोत्रेण तपसा चैव प्रणयेन सुतोषितः ॥ ५५ ॥
॥ मुनिरुवाच ॥
ततो वव्रेऽभयं देवात्सुप्रसन्नात्सदाशिवात् ।
चतुराकरजेभ्यो मे मा मृत्युः सम्भवेदिति ॥ ५६ ॥
यक्षरक्षःपिशाचेभ्यो देवदानवकिन्नरात् ।
मुनिमानवगन्धर्वसर्पेभ्यो हि वनेचरात् ॥ ५७ ॥
दृष्ट्वा रूपं मदीयं तु त्रसेयू रणमूर्द्धनि ।
सर्वे देवा महाभाग सुरराज्यं च यच्छ मे ॥ ५८ ॥
संस्मृतिश्चरणे नित्यं भक्तिस्तेऽव्यभिचारिणी ॥ ५९ ॥
॥ शिव उवाच ॥
एकां शक्तिं विना सर्वदेवेभ्योऽदायितेऽभयम् ।
शक्तितेजोद्भवः कश्चिज्जित्वा सञ्जीवयिष्यति ॥ ६० ॥
शिरसि स्थाप्य चरणं धरिष्यति निरन्तरन् ।
निष्काशितो यदा तेन चरणस्ते शिरो गतः ॥ ६१ ॥
तदा पुनस्त्रिलोकी त्वं बलाज्जेष्यसि तेजसा ।
भक्तिश्च मे दृढतरा स्मृतिस्ते वै भविष्यति ॥ ६२ ॥
॥ गृत्समद उवाच ॥
एवं दत्त्वा वरांस्तस्मै शिवोऽन्तर्धानमन्वगात् ।
दुरासदोऽपि स्वगृहमाययौ हर्ष निर्भरः ।
इदं स्तोत्रं पठेद्यस्तु सर्वान्कामानवाप्नुयात् ॥ ६३ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दुरासदवरप्राप्तिवर्णनं
नामाऽष्टतत्रिंशोऽध्यायः ॥ ३८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें