श्रीगणेशपुराणे क्रीडाखण्डे द्वाविंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे द्वाविंशोऽध्यायः
बालचरिते कीर्तिस्तवनं

॥ ब्रह्मोवाच ॥

श‍ृणुष्वावहितो ब्रह्मन्नितिहासं पुरातनम् ।
प्रियव्रतायाऽकथयत् स्वयमेव गजाननः ॥ १ ॥
॥ गजानन उवाच ॥
शमीपत्रस्य सहिमा शृणुष्वार्य महाफलम् । (महिमानं शृणुष्वार्य ! शमीपत्रस्य सत्फलम्)
न यज्ञैर्न च दानैश्च व्रतैः कोटिशतैरपि ॥ २ ॥


न जपैः पूजनैर्वापि मम तोषस्तथा भवेत् ।
न पद्मैर्नान्यकुसुमैः शमीपत्रैर्यथा भवेत् ॥ ३ ॥
शमीति कीर्तनादेव पापं नश्यति वाचिकम् ।
स्मरणान्मानसं पापं स्पर्शनात् कायजं तथा ॥ ४ ॥
नित्यं तत्पूजनाद्ध्यानाद् वन्दनाच्चैव भक्तितः ।
निर्विघ्नकरमायुष्यं ज्ञानं पापक्षयोऽपि च ॥ ५ ॥
वाञ्छासिद्धिरचापल्यं जायते नात्र संशयः ।
॥ मुनिरुवाच ॥
कोऽसौ प्रियव्रतो राजा किंशीलः कुत्र वाऽभवत् ॥ ६ ॥
कथं वै तस्य कथिता गुणाः शम्या महात्मना ।
एनं मे संशयं ब्रह्मन् कृपया नुद सुव्रत ॥ ७ ॥
॥ ब्रह्मोवाच ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शङ्करस्य च संवादं पार्वत्या सह पुत्रक ॥ ८ ॥
॥ पार्वत्युवाच ॥
कथं शमी प्रिया देव सर्वज्ञ जगदीश्वर ।
गजाननस्य मे शंस यदि ते मय्यनुग्रहः ॥ ९ ॥
॥ शङ्कर उवाच ॥
शृणु प्रिये प्रवक्ष्यामि कथामेकां शुचिस्मिते ।
यथा प्रिया गणेशस्य शमीति ज्ञास्यते तथा ॥ १० ॥
प्रियव्रतो नाम राजा पूर्वमासीन्महामतिः ।
सत्यवान् धर्मसम्पन्नो धर्मात्मा शंसितव्रतः ॥ ११ ॥
तेजस्वी च वदान्यश्च वेदशास्त्रार्थतत्त्ववित् ।
सर्वलक्षणसम्पन्नश्चतुरङ्गबलाधिकः ॥ १२ ॥
पालयामास पृथिवीं प्रजाः पुत्रानिवौरसान् ।
कीर्तिश्च प्रथम भार्या प्रभा तस्यापराऽभवत् ॥ १३ ॥
धूर्तश्च कुशलस्तस्य प्रकृती सम्बभूवतुः ।
कुशलौ नीतिशास्त्रेषु षडाननपराक्रमौ ॥ १४ ॥
बुद्धया पराक्रमेणापि रसा सर्वा वशीकृता ।
स तु राजा वंश नीतः प्रभया तस्य भार्यया ॥ १५ ॥
क्रीडतेऽहर्निशं सोऽथ नानालङ्कारशोभया ।
यौवनाक्रान्तवपुषा रम्भादिभ्योऽतिरम्यया ॥ १६ ॥
क्षणमात्रं न सहते वियोगं स तया सह ।
धिक्करोति सदा ज्येष्ठां तद्वचो न श‍ृणोत्यपि ॥ १७ ॥
रुषा निरीक्षेत तां स तन्मृतिं चिन्तयत्यपि ।
स्वयं न भाषते किञ्चिन्नगृह्णाति तयाऽर्पितम् ॥ १८ ॥
ततस्तस्याऽभवत्पुत्रः प्रभायां पतिसन्निभः ।
जातकर्म च राजाऽस्य कृत्वा धर्ममनेकधा ॥ १९ ॥
नाम चास्याकरोत्पद्मनाभिरित्थं द्विजेरितम् ।
शुक्लपक्षे यथा चन्द्रो ववृधे सोऽपि बालकः ॥ २० ॥
बुद्धिमान् कुशलो युद्धे पितृतोऽप्यधिकोऽभवत् ।
पञ्चमे व्रतबन्धं च चकाराऽस्य नृपस्तदा ॥ २१ ॥
प्रियवतो महाबुद्धिर्मद्राणामधिपो बली ।
पाञ्चालराजकन्यां स भार्यां तस्याप्यमेलयत् ॥ २२ ॥
अतिवैभवयुक्तौ तौ विवाहं चक्रतुस्तयोः ।
कदाचिदस्य सा पत्नी ज्येष्ठा दासीत्वमापिता ॥ २३ ॥
पादसंवाहनं कर्तुमागता भर्तृसन्निधिम् ।
निपपात महीपृष्ठे सपत्न्या चरणाहता ॥ २४ ॥
दुःखिता रुदती ह्रीणा जगाम निजमन्दिरम् ।
कमहं शरणं यायां को मे दुःख व्यपोहयेत् ॥ २५ ॥
सपत्न्याऽमानिताया मे त्राता स्याद्धरिरव्ययः ।
स्मृतमात्रस्तु यस्राता द्रौपद्या करुणानिधिः ॥ २६ ॥
यां नैव मनुते भर्ता न कोऽपि मनुतेऽपि ताम् ।
अतो न जीवितेनार्थः शोषयिष्ये कलेवरम् ॥ २७ ॥
पिबे हालाहालं वापि पते वापीं जलान्विताम् ।
न मनो निश्चयं याति तस्या विह्वलचेतसा ॥ २८ ॥
एतस्मिन्नत्तरे दैवाद् देवलो ब्राह्मणोत्तमः ।
पुरोहितः समायातः स जगाद गजाननीम् ॥ २९ ॥
उपासनां क्लेशहन्त्रीं सर्वकामफलप्रदाम् ।
सा तदैव प्रपद्याशु मूर्तिं मन्दारनिर्मिताम् ॥ ३० ॥
गजाननस्य सम्पूज्य स्नात्वा शुद्धदिने तु सा ।
उपविष्टा पूजयितुं परमेण समाधिना ॥ ३१ ॥
त्यक्त्वा हरं हरिं चाम्बां तेजोयुक्तं परं रविम् ।
सर्वैः सम्पूज्यते देवदेव आदौ गजाननः ॥ ३२ ॥
विचार्यमाणे पञ्चानां भेदो नैवोपलभ्यते ।
यो भेदेनेक्षते चैतान् स याति नरकान् नरः ॥ ३३ ॥
एक एव परानन्दपूर्णोऽसौ परमेश्वरः ।
स्वेच्छया पञ्चधा जातो लोकानुग्रहकारणात् ॥ ३४ ॥
एक एव पुमान् यद्वत् पुत्रमातुलनामभिः ।
सा सम्यक् षोडशभिस्तमुपचारैः पुपूज ह ॥ ३५ ॥
दूर्वापुष्पैर्दक्षिणाभिर्नमस्कारैरनेकधा ।
कृत्वा करपुटं सा तु तुष्टाव जगदीश्वरम् ॥ ३६ ॥
॥ कीर्तिरुवाच ॥
त्वमेव जगदाधारस्त्वमेव सर्वकारणम् ।
त्वमेव ब्रह्मा विष्णुश्च बृहद् भानुस्त्वमेव हि ॥ ३७ ॥
चन्द्रो यमो वैश्रवणो वरुणो वायुरेव च ।
त्वमेव सागरा नद्यो लताकुसुमसंहतिः ॥ ३८ ॥
सुखं दुखं तयोर्हेतुस्त्वं नाशस्त्वं विमोचकः ।
इष्टविघ्नकरो नित्यं महाविघ्नकरो विराट् ॥ ३९ ॥
त्वमेव पुत्रलक्ष्मीदस्त्वमेव सर्वकामधुक् ।
त्वमेव विश्वयोनिश्च त्वमेव विश्वहारकः ॥ ४० ॥
त्वमेव प्रकृतिस्त्वं वै पुरुषो निर्गुणो महान् ।
त्वमेव शशिरूपेण सर्वमाप्यायसे जगत् ॥ ४१ ॥
त्वमेव भूतभव्यं च भाविभावात्मकः स्वराट् ।
शरण्यः सर्वभूतानां शत्रूणां तापनः परः ॥ ४२ ॥
कर्मकाण्डपरो यज्वा ज्ञानकाण्डपरः शुचिः ।
सर्ववेत्ता सर्वविधिः सर्वसाक्षी च सर्वगः ॥ ४३ ॥
सर्वव्यापी सर्वविष्णुः सर्वसत्यमयः प्रभुः ।
सर्वमायामयः सर्वमन्त्रतन्त्रविधानवित् ॥ ४४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते कीर्तिस्तवनं नाम द्वाविंशोऽध्यायः ॥ ३२ ॥

    इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-32

कोई टिप्पणी नहीं:

123