श्रीगणेशपुराणे क्रीडाखण्डे त्रयस्त्रिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे त्रयस्त्रिंशोऽध्यायः
बालसञ्जीवनं

॥ ब्रह्मोवाच ॥

एवं साऽनुदिनं पूज्य तुष्टाव तं विनायकम् ।
एकस्मिन् दिवसे तस्याः सख्यो दूर्वार्थमाययुः ॥ १ ॥
शुक्रमासवशान्नापुः क्वापि दूर्वाङ्कुरान् शुभान् ।
शमीपत्राणि भूयांसि गृहित्वा तु तदन्तिकम् ॥ २ ॥


आययुः परमश्रान्ता दूर्वाऽभावं न्यवेदयन् ।
शमीपत्रैः पुपूजेनं सर्वोपचारपूर्वकम् ॥ ३ ॥
दूर्वां विना निराहाराऽतिष्ठत् सा नियमे रता ।
तस्य तुष्टिः परा जाता शमीपत्रैः समर्पितैः ॥ ४ ॥
अशेत तत्पुरः स्वप्नमपश्यत् सा महाद्भुतम् ।
अब्दान्ते सैव मूर्तिस्तामिमां वाचमुवाच ह ॥ ५ ॥
वरं ददामि ते सुभ्रु शमीपत्रैः सुतोषितः ।
सा नोवाच यदा किञ्चित् कीर्तिः सा तां पुनर्जगौ ॥ ६ ॥
॥ मूर्तिरुवाच ॥
वश्यस्ते भविता कान्तो भोगाश्वानेकशः शुभाः ।
त्वद्भक्तिनिरतः पुत्रो भविष्यति महाबलः ॥ ७ ॥
क्षिप्रप्रसादनेत्येवं कुरु नामास्य सुन्दरम् ।
तुर्येऽब्देऽस्य विषान्मृत्युर्भविष्यति पुनः क्षणात् ॥ ८ ॥
गृत्समदो द्विजोभेऽत्यं पुनस्तं जीवयिष्यति ।
राज्यकर्ता चिरायुश्च धर्मशीलो भविष्यति ॥ ९ ॥
इदं स्तोत्रं पठेद्यस्तु मम सन्तोषकारणम् ।
तस्य वश्यो भवेद् राजा किमन्यः प्राकृतो जनः ॥ १० ॥
पुत्रवान् धनसम्पन्नौ वेदवेदाङपारगः ।
बुद्धिश्च वर्धते तस्य मेधावृद्धिर्भवेद् दृढा ॥ ११ ॥
वाच्छिताँल्लभते सोऽर्थान् त्रिसन्ध्यं यः पठेदिदम् ।
मम भक्तिर्दृढा तस्य मोक्षश्चान्ते भविष्यति ॥ १२ ॥
एवं दत्त्वा वरान् स्वप्ने स देवो पिदधे क्षणात् ।
जागृता साश्रुनयना विस्मिता मानसेऽवदत् ॥ १३ ॥
दीनानाथेन महती कृपा मयि नियोजिता ।
अनुग्रहो महान्मह्यं यद्दत्तं दर्शनं स्वयम् ॥ १४ ॥
विनायकेन देवेन पाविता परमादरात् ।
अद्याहं तेन देवेन सर्वभूतानुकम्पिना ॥ १५ ॥
इयमेवपरा सिद्धिरिदमेव तपःफलम् ।
अयमेव परो लाभो यदवोचन्मया सह ॥ १६ ॥
॥ ब्रह्मोवाच ॥
ततः प्रभाते स्नाता सा परमानन्दनिर्भरा ।
पुपूज परया भक्त्या गणेशं वरदं शुभम् ॥ १७ ॥
समाप्य नियमं मूर्तिं पूर्वस्थाने न्यवेशयत् ।
पुरोहितं समानीय पूजयामास भक्तितः ॥ १८ ॥
गणेशं मनसा ध्यात्वा वदन्ती नाममालिकाम् ।
स्मरन्ती तद्वरान् कीर्तिः समयं च प्रतीक्षती ॥ १९ ॥
ततः कालेन महता प्रभा सा निष्प्रभाऽभवत् ।
रक्तपित्तवती जाता प्रारब्धादीश्वरेच्छया ॥ २० ॥
करौ पादौ च नासा च तस्याः क्षरति नित्यशः ।
अतिबीभत्सरूपां तां तत्याज मनसा पतिः ॥ २१ ॥
न वक्ति नेक्षते ज्ञात्वा प्रयत्नान् निष्फलान्बहून् ।
ततः कीर्तेर्गृहं यातस्तपसा सुन्दराकृतेः ॥ २२ ॥
कृपया गणराजस्य स्वयं वश्योऽभवच्च सः ।
स गृहीत्वा करे तां तु मञ्चकं समुपानयत् ॥ २३ ॥
चिक्रीड स्वेच्छया कीर्त्या तन्निष्ठस्तत्परायणः ।
न वियोगं क्षणं तस्याः सहते नृपसत्तमः ॥ २४ ॥
साऽपि भोगानलङकाराननन्तान् बुभुजे सती ।
साऽपि गर्भवती जाता कालेन सुषुवे सुतम् ॥ २५ ॥
शुभे मुहूर्ते राजाऽसौ ददौ दानान्यनेकशः ।
पुत्रजन्मप्रहृष्टः सन् ब्राह्मणेभ्यो यथार्हतः ॥ २६ ॥
दिक्षु स्थाप्य द्विजान् पञ्च जातकर्म चकार सः ।
क्षिप्रप्रसादनेत्येवं नाम चक्रे ततोऽस्य ह ॥ २७ ॥
तुतोष पुत्रं दृष्ट्वैव नानालङकारसंयुतम् ।
अतिप्रीतिमती कीर्तिरभवत् पुत्रदर्शनात् ॥ २८ ॥
प्रभा च दुःखिता पुत्रं सपत्न्या वीक्ष्य सुन्दरम् ।
एष एव भवेद् राजा ज्येष्ठपुत्रोऽयमित्यत ॥ २९ ॥
दध्योदनं तु सविषं कीर्तिपुत्राय सा ददौ ।
स तु विह्वलतां यातो विवृत्तनयनः क्षणात् ॥ ३० ॥
प्रभैव च महाशब्दं कृत्वाऽरोदीद् भृशातुरा ।
तस्या शब्दं समाकर्ण्य कीर्तिस्तमगमत् तदा ॥ ३१ ॥
तमुदन्तं सा पतये न्यवेदयत सादरम् ।
भिषजोऽपि ददुस्तस्मा औषधानि नृपाज्ञया ॥ ३२ ॥
परीक्ष्य विषबाधां ते तस्मै राज्ञे न्यवेदयन् ।
न गुणाय भवन्ति स्म नानामन्त्रौषधानि च ॥ ३३ ॥
प्रभातु धिक्कृता भर्त्रा निरस्ता दूरतो गृहात् ।
कीर्तिस्तं बालकं गृह्य सखीभिः काननं ययौ ॥ ३४ ॥
नगराद् योजनं याति तावद् बालो ममार सः ।
अङ्के कृत्वा तु तं बालं रुरोद शोकविह्वला ॥ ३५ ॥
मूर्च्छिता पतिता भूमौ लतेव वायुनेरिता ।
च्युतालङ्करणा ध्वस्तकङ्कणा मस्तकाञ्चला ॥ ३६ ॥
क्षणेन किञ्चिदाश्वस्ता सस्मार द्विरदाननम् ।
उत्पतेः स्मरती बालचेष्टितं निघ्नती स्वहृत् ॥ ३७ ॥
दैवात् तेनैव मार्गेण प्रययौ मुनिसत्तमः ।
नाम्ना गृत्समदः साधुः साक्षात्सूर्य इवापरः ॥ ३८ ॥
गणेशभक्तप्रवरस्तपसां परमो निधिः ।
स तस्थौ करुणाविष्टः सा कीर्तिः प्रणनामतम् ॥ ३९ ॥
उवाच श्वसती सा तं गणनाथप्रसादजः ।
अयं बालो मम मृतो जीवयैनं तपो बलात् ॥ ४० ॥
क्षिप्रप्रसादन इति नाम देवाज्ञया कृतम् ।
सपत्न्या दुष्टभावेन विषमस्मै समर्पितम् ॥ ४१ ॥
ततोऽनेन समप्रापि मुने मरणमीदृशम् ।
न सतां दर्शनं व्यर्थमिति याचे तपोधन ॥ ४२ ॥
शरणागतसन्त्यागं नेहन्ते साधवो जनाः ।
इति तस्या वचः श्रुत्वा मुहूर्तं ध्यानतत्परः ॥ ४३ ॥
अभवन्मुनिशार्दूलस्ततो गृत्समदोऽब्रवीत् ।
श‍ृणु देवि प्रवक्ष्येऽहमुपायं पुत्रजीवने ॥ ४४ ॥
अज्ञानतः शमीपत्रैस्त्वयाऽपूजि विनायकः ।
तत्पुण्यमस्य हस्ते त्वमर्पयस्व ममाज्ञया ॥ ४५ ॥
तत्प्रसादादाशु सुत उत्थास्यति तवाधुना ।
सा तु तद्वचनस्यान्ते कीर्तिहर्षसमन्विता ॥ ४६ ॥
ददौ तस्मै शमीपूजासम्भवं पुण्यमुत्कटम् ।
उत्तस्थौ सुकुमारोऽस्या अमृतेनोक्षितो यथा ॥ ४७ ॥
सा तु हर्षान्मुनेः पादौ ववन्दे शिरसा पुनः ।
उवाच तं मुनिं ज्ञातं कथं शम्या प्रपूजनम् ॥ ४८ ॥
महिमानं वद मुने शमीपूजनसम्भवम् ।
येन सञ्जीवितो बालो मुक्तश्च यमकिङ्करैः ॥ ४९ ॥
ज्ञात्वा तं च करिष्यामि नित्यं शम्याः प्रपूजनम् ।
येन वै बहुधा क्रूरा यमदूता दुरासदाः ॥ ५० ॥
निरस्ता गणनाथस्य दूतैर्बहु रणाजिरे ।
जीवयित्वा शिशुं मे ते गता धाम गजाननम् ॥ ५१ ॥
येन पुण्येन बालो मे विषं त्यक्त्वा सुखी पुनः ।
सञ्जीवन्नुत्थितः शीघ्रं सुप्तोत्थित इवापरः ॥ ५२ ॥
अतोऽहं परिपृच्छामि महिमानं शमीभवम् ।
॥ ब्रह्मोवाच ॥
इति तद्वचनं श्रुत्वा प्रोचे गृत्समदस्तु ताम् ॥ ५३ ॥
॥ गृत्समद उवाच ॥
उच्चारिते नाम्नि यस्याः कोटिपातकनाशनम् ।
महिमानं हि कस्तस्याः साकल्पेन वदेद् भुवि ॥ ५४ ॥
सङ्क्षेपेण तु वक्ष्यामि महिमानं यथामति ।
व्रतदानतपोभिश्च नानातीर्थऽनिषेवणैः ॥ ५५ ॥
पञ्चाग्निसाधनैरप्सु निवासैर्हिमकालिकैः ।
न तत्फलमवाप्नोति यत् स्याच्छम्या प्रपूजने ॥ ५६ ॥
प्रातःकाले त्रिसन्ध्यं वा शमीं नित्यं स्मरेत् तु यः ।
वन्दयेदर्चयेद् वापि भक्तिभावसमन्वितः ॥ ५७ ॥
ध्यात्वा गजाननं देवं तस्य तुष्टो विनायकः ।
ददाति वाञ्च्छितानर्थानन्ते मोक्षं न संशयः ॥ ५८ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादं शक्रस्य च महात्मनः ॥ ५९ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालसञ्जीवनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥

    इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-33

कोई टिप्पणी नहीं:

123