श्रीगणेशपुराणे क्रीडाखण्डे त्रिंशोऽध्यायः
बालचरिते वामनावतारकथनं
॥ ब्रह्मोवाच ॥
बलिस्तु हरिभक्तत्वान्न किञ्चिदन्वतप्यत ।
वेदवेदाङ्गवित् प्राज्ञः सर्वशास्त्रविशारदः ॥ १ ॥
परनिन्दापरद्रव्यपरद्रोहपराङ्मुखः ।
दाता यज्वा मानयिता मान्यानां परमादरात् ॥ २ ॥
गच्छन्वदन्स्वपन्भुञ्जिस्तिष्ठन्नपि जपन्पिबन् ।
ध्यायति स्म हरि नित्यं भक्त्या संस्थिरचेतसा ॥ ३ ॥
एकदा शुक्रमाहूय पारपूज्य यथाविधि ।
पप्रच्छ तं बलिर्नीतिं शक्रो भुङ्क्त्तेऽमरावतीम् ॥ ४ ॥
कथं च भागो नास्माकं भ्रातृत्वे सततं स्थिते ।
इति मे संशयं प्राज्ञ छेत्तुमर्हस्यशेषतः ॥ ५ ॥
॥ शुक्र उवाच ॥
तव पूर्वैरतेदर्थं कृतं वैरं निरन्तरम् ।
सुरैः सार्द्धं महाभाग ते सर्वे नाशमापिताः ॥ ६ ॥
देवैर्विष्णुसहायैस्तु नानामायाबलाश्रयात् ।
त्यक्त्वा वैरं भवान्साधु यजतां शतसङ्ख्यया ॥ ७ ॥
तत्पुण्यस्य बलादैन्द्रं पदं पूर्णमवाप्स्यसि ॥
॥ बलिरुवाच ॥
सम्यगुक्तं त्वया ब्रह्मन् नीतिशास्त्रविशारद ॥ ८ ॥
साम्नो दानविधेर्भेदाज्जघन्यो निग्रहो मतः ।
सोऽपि पुण्यबलात् सिध्येत् तस्मात्पुण्यं दृढं मतम् ॥ ९ ॥
॥ ब्रह्मोवाच ॥
एवं स निश्चयं कृत्वा वसिष्ठादीन् समाह्वयत् ।
भृग्वादींश्च मुनीन्पूज्य सुमुहूर्ते समारभत् ॥ १० ॥
यज्ञं महासमारम्भं सर्वानन्दकरं परम् ।
सर्वे ते यज्ञकुण्डानि प्राचीसाधनपूर्वकम् ॥ ११ ॥
चक्रुश्च कारयामासुर्यज्ञसम्भारसञ्चयान् ।
वेदिकामण्डपादाँश्च भूमिशोधनपूर्वकम् ॥ १२ ॥
कृत्वाऽभ्युदयिकं श्राद्धं स्वस्तिवाचनपूर्वकम् ।
मातॄणां पूजनं कृत्वा स्थापयामासुरादरात् ॥ १३ ॥
मन्त्रैर्नानाविधैर्विप्राः सर्वा मण्डपदेवताः ।
रेजाते दम्पती तत्र श्वेतवस्त्रावलङ्कृतौ ॥ १४ ॥
अमात्यराजसुहृदां पौराणां च गणैर्वृतौ ।
सम्मानिताः स्त्रियोऽपश्यन् गवाक्षस्तं महोत्सवम् ॥ १५ ॥
अन्वारब्धा ब्राह्मणास्ते पूर्वाङ्गानि न्यवर्तयन् ।
आलभन्त पशुं वेदकल्पवाक्यानुसारतः ॥ १६ ॥
तत्तद्देवाय तन्मन्त्रैर्जुह्वति स्म विधानतः ।
यज्ञवाटे चतुद्वारे सर्वेषामनिवारिते ॥ १७ ॥
आयान्ति यान्ति सर्वेऽपि पूजितास्त्रिविधा जनाः ।
विवदन्ते महावादैरेकतो विदुषां जनाः ॥ १८ ॥
नृत्यन्त्यप्सरसोऽन्यत्र पठन्ते वैदिकाः किल ।
गायन्ति वैष्णवाः शैवा मृदङ्गतालवादनैः ॥ १९ ॥
भुञ्जते ब्राह्मणाः स्वेच्छाभोजनं षड्रसैः क्वचित् ।
कथयन्ति कथा नानाकथाः शृण्वन्ति मोदकाः ॥ २० ॥
एवं सुवितते यज्ञे वसिष्ठाद्या महर्षयः ।
वेसोर्धारां सुमहतीं पातयामासुरग्निषु ॥ २१ ॥
उत्तराङ्गानि सम्पाद्य रथे तौ स्थाप्य दम्पती ।
कर्तुं चावभृथस्नानं सर्वे लोका विनिर्ययुः ॥ २२ ॥
नानावादित्रनिर्घोषैर्वरबन्दीरवैरपि ।
वेदघोषैर्बहुविधैः सामगानैर्हरिप्रियैः ॥ २३ ॥
स्नात्वाऽऽगत्य हरिं सोऽथ तोषयामास तान् द्विजान् ।
अनेकरत्ननिचयैर्धनैर्वस्त्रैरनेकशः ॥ २४ ॥
गोभिरश्वैर्गजैर्गन्ध्यैरिच्छाविषयपूरणैः ।
एकोनशतमेवं ते तस्य यज्ञानपारयन् ॥ २५ ॥
शते यज्ञे समारब्धे शक्रश्चिन्तां परां ययौ ।
कनीयांसं स शरणं स्वपदभ्रंशशङकया ॥ २६ ॥
क्षीरसागरमध्यस्थं शेषशायिनमीश्वरम् ।
मया संवाहितपदं सेव्यमानं सुरैरपि ॥ २७ ॥
गीयमानं नारदेन वीणाहस्तेन सादरम् ।
तुम्बरुप्रमुखैरन्यैरप्सरोगणकिन्नरैः ॥ २८ ॥
अस्तौदसौ हरिर्दृष्ट्वा तं हरि स्वेष्टसिद्धये ।
प्रणम्य सम्पुटं कृत्वा पाण्योर्भावेन सादरम् ॥ २९ ॥
॥ शक्र उवाच ॥
नमोऽनन्तशक्ते नमो विश्वयोने
नमो विश्वभर्त्रे नमो विश्वकर्त्रे ।
नमो दैत्यहन्त्रे नमोऽनेकरूप
नमः सक्तचित्तार्थदायास्तु नित्यम् ॥ ३० ॥
॥ ब्रह्मोवाच ॥
एवं स्तुत्वाऽब्रवीदेनं वासवो बलिचेष्टितम् ।
बलिर्विरोचनसुतो विख्यातो भुवनत्रये ॥ ३१ ॥
ग्रहीष्यति मम पदं मखाच्छतगुणादयम् ।
यावत्तस्य भवेद्वाणी सर्वं ज्ञातं तु विष्णुना ॥ ३१ ॥
तत ऊचे स भगवानिन्द्रं सङ्कटचिन्तया ।
मम भक्तो बलिः शक्र तपस्वी विजितेन्द्रियः ॥ ३३ ॥
तपसः फलमेतेन भोक्तव्यं श्रुतिवाक्यतः ।
न जायते वृथा कर्म शुभं वा यदि वाऽशुभम् ॥ ३४ ॥
साधयिष्ये भवत्कार्यं स्थिरी कुरु मनोहरे ।
ततः स गर्भतां पेदे चादित्या जठरे विभुः ॥ ३५ ॥
सुषूवे नवमे मासि साऽदितिस्तनयं शुभम् ।
प्रभया तस्य ते दीपा निष्प्रभत्वमुपागताः ॥ ३६ ॥
स्नात्वा शीतजलेनाशु जातकर्म यथाविधि ।
चकार कश्यपो धीमान् स्वस्तिवाचनपूर्वकम् ॥ ३७ ॥
कृत्वा पितृमहायज्ञं मातृपूजनपूर्वकम् ।
ददर्श बालकं पश्चात् प्राशयित्वा घृतं मधु ॥ ३८ ॥
ह्रस्वं पृथुलमूर्धानं लघुपादं बृहत्तनुम् ।
दिव्यज्ञानसमायुक्तं दिव्य देहं चतुर्भुजम् ॥ ३९ ॥
नानालङ्कारसंयुक्तं ज्ञात्वा विष्णुमथानमत् ।
उवाच च प्रसन्नात्मा तपो वंशोऽद्य चक्षुषी ॥ ४० ॥
ज्ञानं तथाऽऽश्रमो धन्यो धरा स्वर्गो रसातलम् ।
धन्यास्त्वद्दर्शनादेते सच्चिदानन्दरूपिणः ॥ ४१ ॥
॥ ब्रह्मोवाच ॥
एवमाकर्ण्य तद्वाक्यमुवाच जगदीश्वरः ।
अदित्यास्तपसा तुष्टः पुत्रत्वमहमागतः ॥ ४२ ॥
हर्तुं भूभारमतुलं ज्येष्ठकार्यं च साधितुम् ।
इत्युक्त्वा प्राकृतो भूत्वाऽरुदत्स्तन्यं पपावथ ॥ ४३ ॥
नामनिष्क्रमणं कर्म चक्रेऽन्नप्राशनं मुनिः ।
तृतीये चौलमब्दे स पञ्चमे व्रतबन्धनम् ॥ ४४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते वामनावतारकथनं नाम त्रिंशोऽध्यायः ॥ ३०
॥
इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें -

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें