श्रीगणेशपुराणे क्रीडाखण्डे सप्तत्रिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे सप्तत्रिंशोऽध्यायः
बालचरिते शमीमन्दारमाहात्म्यं

॥ कीर्तिरुवाच ॥
कथं स्तुतिः कृता ताभिस्तां मे वद महामुने ।
॥ मुनिरुवाच ॥
श्रूयतां सा स्तुतिः कीर्ते शृणुष्वावहिता च ताम् ॥ १ ॥
॥ ता ऊचुः ॥
नमस्ते सर्वरूपाय सर्वान्तर्यामिणे नमः ।
नमः सर्वकृते तुभ्यं सर्वदात्रे कृपालवे ॥ २ ॥


नमः सर्व विनाशाय नमस्तेऽनन्तशक्तये ।
नमः सर्वप्रबोधाय सर्वपात्रेऽखिलादये ॥ ३ ॥
परब्रह्मस्वरूपाय निर्गुणाय नमो नमः ।
चिदानन्दस्वरूपाय वेदानामप्यगोचर ॥ ४ ॥
मायाश्रयायामेयाय गुणातीताय ते नमः ।
सत्यायासत्यरूपाय गुणाविक्षोभकारिणे ॥ ५ ॥
शरणागतपालाय दैत्यदानवभेदिने ।
नमो नानावताराय विश्वरक्षणतत्पर ॥ ६ ॥
अनेकायुधहस्ताय सर्वशत्रुनिबर्हण ।
अनेकवरदात्रे ते भक्तान्ना हितकारक ॥ ७ ॥
॥ ब्रह्मोवाच ॥
एवं स्तुत्वा पुनर्नत्वा याचन्ति स्म वरान् बहून् ।
देवानां जलरूपाणां स्वरूपाणि प्रयच्छ भोः ॥ ८ ॥
नास्मृतिः सर्वदा ते स्यात्तथा कर्तुमिहार्हसि ।
॥ गणेश उवाच ॥
ददामि वाञ्छितं वोऽहमनुष्ठानवशीकृतः ॥ ९ ॥
स्तुत्याऽनयाशु सन्तुष्टस्तथाऽस्तु वचनं तु वः ।
सावित्र्या वचनाज्जाता जलभूताःसुराः शुभाः ॥ १० ॥
तद्वाक्यमन्यथा कर्तुं न हि शक्तः पितामहः ।
निजं स्वरूपं यास्यन्ति स्थित्वांशेन तथाविधान् ॥ ११ ॥
स्वाधिकारान् प्रपत्स्यन्ते नान्यथा भाषितं मम ।
शमीपत्रैः पूजयन्तु यूयं देवास्तु मामिह ॥ १२ ॥
येनर्पितं शमीपत्रं भुवनं तेन चार्पितम् ।
सुवर्णशतभाराणां फलं प्राप्तं न संशयः ॥ १३ ॥
॥ ब्रह्मोवाच ॥
एवं ब्रुवति विघ्नेशे स्वरूपधारिणः सुराः ।
स्थिता अंशान्नदीरूपा ददृशुस्ते विनायकम् ॥ १४ ॥
तेऽपि सम्प्रार्थयामासुर्नत्वा स्तुत्वा गजाननम् ।
क्षमापराधं नो देव बुद्धिमोहव्यपाश्रयात् ॥ १५ ॥
त्यक्त्वा ज्येष्ठां भवन्तं च प्रारभामो यजिं च ताम् ।
दृष्टं तु तत्फलं सद्यः प्रसादात् ते पुनर्नवाः ॥ १६ ॥
जाताः स्म परमानन्दं प्राप्ताः स्म कृपया तव ।
एवमुक्त्वा पुपूजूस्ते शमीपत्रैर्विनायकम् ॥ १७ ॥
सोऽपि तान्प्रतिनन्द्याऽथ पिदधे विघ्ननाशनः ।
ततस्ते सुन्दरां मूर्तिं कृत्वा पाषाणतः शुभाम् ॥ १८ ॥
चतुर्भुजां करिकराननां हेरम्बनामतः ।
प्रासादं परमं कृत्वा स्थापयामासुरादरात् ॥ १९ ॥
ऊचुश्च सर्वलोकानामुपकाराय ते सुराः ।
इमं यः पूजयेद्भक्त्या विद्याधीशं सुपत्तने ॥ २० ॥
तस्य प्रसन्नो भगवान् सर्वान्कामान्प्रदास्यति ।
वन्दनात्स्मरणाद्वापि नमनान्नात्र संशयः ॥ २१ ॥
या तत्रासीन्महामूर्तिर्मन्दारतरुनिर्मिता ।
तां गृहीत्वा ययाविन्द्रः स्वपुरं परमर्द्धिमत् ॥ २२ ॥
सपत्नीकः पूजयते भक्त्येदानीमपि प्रभुः ।
सर्वे देवाः स्वस्वपदे ततो मन्दारवृक्षजाम् ॥ २३ ॥
कृत्वा मूर्तिं गणेशस्य शमीपत्रैरपूजयन् ।
मुदं प्रापुः स्वयोषिद्भिरापुः कामाननुत्तमान् ॥ २४ ॥
ब्रह्मा द्वादशवर्षाणि तपः कृत्वा महत्तरम् ।
कृत्वा प्रसन्नं विघ्नेशं पुनर्यागमकारयत् ॥ २५ ॥
सोऽपि मन्दारजां मूर्तिं पुपूजे परमादरात् ।
विघ्नराजस्य वरदां शमीपत्रैरनेकधा ॥ २६ ॥
स्वर्णपत्रैश्च दूर्वाभिर्मन्दारैः केतकैरपि ।
श्वेतदूर्वाङ्कुरैश्चापि सर्वकामफलप्रदाम् ॥ २७ ॥
॥ गृत्समद उवाच ॥
एवं ते वर्णितो मातर्महिमा लेशतः शुभे ।
मन्दारस्य च शम्याश्च श्रवणात्पापनाशनः ॥ २८ ॥
ततःप्रभृति देवस्य प्रियाऽत्यन्तं शमी शुभा ।
अपूजि स त्वयाऽज्ञानात्तेनासौ पुत्र उत्थितः ॥ २९ ॥
मन्दारस्यापि महिमा मया सम्यङ्निरूपितः ।
इदानीमनुजानीहि गमिष्ये निजमन्दिरम् ॥ ३० ॥
॥ ब्रह्मोवाच ॥
श्रुत्वा च महिमानं सा शमीमन्दारसम्भवम् ।
प्रणिपत्य मुनिं पुत्रजीवनं विससर्ज ह ॥ ३१ ॥
श्रुत्वेदमाख्यानवरं गणेशप्रीतिवर्द्धनम् ।
न स सङ्कष्टमाप्नोति सर्वाङ्कामाँल्लभेन्नरः ॥ ३२ ॥
यः स्मरेत्प्रातरुत्थाय शमीं मन्दारमेव च ।
गणेशं च सदा भक्त्या निष्पापः स सुखी भवेत् ॥ ३३ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शमीमन्दारमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥

    इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-37

कोई टिप्पणी नहीं:

123