श्रीगणेशपुराणे क्रीडाखण्डे षट्त्रिंशत्तमोऽध्यायः
बालचरिते शमीपत्रार्पणप्रसन्नेन विनायकेन देवाङ्नाभ्यः स्वरूपदर्शनं
॥ गृत्समदुवाच ॥
सहयाद्रिपर्वते देवो न्यवसद् गिरिजायुतः ।
स्वगणैर्मुनिभिर्युक्तः पुण्यक्षेत्रे महाबले ॥ १ ॥
दिदृक्षुः प्रययौ तत्र ब्रह्मा लोकपितामहः ।
पत्नीद्वयसमायुक्तो देवगन्धर्वकिन्नरैः ॥ २ ॥
दृष्टवा तु शङ्करं पूज्य स्वाभिप्रायं न्यवेदयत् ।
आकारयामास तदा परमर्षीन् सदाशिवः ॥ ३ ॥
जमदग्निं वसिष्ठं च मार्कण्डेयं च नारदम् ।
कपिलं पुलहं कण्वं विश्वामित्रं त्रितं द्वितम् ॥ ४ ॥
त आययुः शिवाहूता अन्ये सर्वे दिदृक्षवः ।
उषःकाले मुहूर्तं ते निष्कास्य प्रारभन् मखम् ॥ ५ ॥
त्वरावन्तोऽथ विस्मृत्य पूजां वैनायकीं शुभाम् ।
सावित्रीं गृहकार्येषु सक्तां त्यक्त्वा मुनीश्वराः ॥ ६ ॥
गायत्रीमुपवेश्यैव पुण्याहवाचनं च ते ।
कारयित्वाऽभ्युदयिकं मातृपूजनपूर्वकम् ॥ ७ ॥
अस्थापयन्नग्निकुण्डे यावद् वैश्वानरं च ते ।
सावित्री तावदायातारम्भं दृष्ट्वा रुषान्विता ॥ ८ ॥
उवाच क्रोधरक्ता सा वीक्ष्य सर्वान् सभासदः ।
॥ सावित्र्युवाच ॥
मामनादृत्य यागोऽयं समारब्धो न सेत्स्यति ॥ ९ ॥
॥ ऋषिरूवाच ॥
मुञ्चन्ती मुखतो ज्वाला दग्धुकामा चराचरम् ।
शशाप सा देवमुनीन् जडा यूयं भविष्यथ ॥ १० ॥
नियुक्त्वाऽनधिकारां तां गायत्रीं सर्व एव यत् ।
ततो देवाः प्रणम्यौच्चैः प्रार्थयामासुरुत्सुकाः ॥ ११ ॥
सावित्रीं सर्वजननी डलयोरैक्यतः शुभे ।
जलरूपा भविष्यामो नदीनदस्वरूपिणः ॥ १२ ॥
तथेत्युक्ते तया देव्या नदीरूपत्वमागताः ।
वेण्या नाम्ना महेशोऽभूत्कृष्णः कृष्णाऽभवन्नदी ॥ १३ ॥
तत्तन्नाम्ना बभूवुस्ते सरितः सर्वदेवताः ।
यत्र पूर्वं विघ्नराजो नार्च्यते ज्ञानदुर्बलैः ॥ १४ ॥
तत्र विघ्ना भवन्त्येवं शङ्करस्य यथा पुरा ।
पुरत्रयवधे जाता विघ्नास्तस्याप्रपूजनात् ॥ १५ ॥
ब्रह्मा चिन्तां परां प्राप मखविघ्न उपस्थिते ।
मन्निमित्तं सुराः सर्वे धुनीरूपमुपागताः ॥ १६ ॥
विमानं सर्वलोकेषु गमितः केन कर्मणा ।
सङ्कल्पबाधश्च कथमद्य प्राप्तो दुरत्ययः ॥ १७ ॥
विघ्नहर्ता जगन्नाथो न स्मृतो न च वाऽर्चितः ।
सर्वेषां चैव देवानां यतो मोहः समाविशत् ॥ १८ ॥
तं प्रसन्नं करिष्यामि ततो यज्ञो भविष्यति ।
एवं यावच्चिन्तयते ब्रह्मा तावत्सुराङ्गनाः ॥ १९ ॥
देवान् वै तादृशान् ज्ञात्वा समीयुर्ब्रह्मणोऽन्तिकम् ।
पुलोमजा च गिरिजा छायाऽपि कमलाऽपि च ॥ २० ॥
अन्या अपि समूचुस्तं सर्वास्ताः कमलाननम् ।
कथं यज्ञः समारम्भि मान्या नो मानिता कथम् ॥ २१ ॥
नापूजि च कथं विघ्नहर्ता पूर्वं गजाननः ।
त्वयि विस्मरणं चैव न वाऽस्मारि सुरैः कथम् ॥ २२ ॥
किमस्माभिरनुष्ठेयं देवैर्वा जलरूपिभिः ।
कं याम शरणं देव त्वदृते कमलोद्भव ॥ २३ ॥
इति तासां वचः श्रुत्वा मा भयं कुरुतेति कः ।
ता उवाच यजिष्येऽहं यथा सर्वं भवेच्छुभम् ॥ २४ ॥
किमसाध्यं हि भक्तानां सुप्रसन्ने गजानने ।
सर्वाः कुरुध्वं तद्भक्तिं स वः सर्वप्रियं चरेत् ॥ २५ ॥
प्रसादयिष्येऽहमपि जगदीशं विनायकम् ।
अनादिनिधनं देवं सर्वकारणकारणम् ॥ २६ ॥
इत्युक्तास्ता गता दूरं देशं कर्णाटकं शुभम् ।
मन्दारमूलं विघ्नेशं स्थित्वा ध्यातुं तदीरिताः ॥ २७ ॥
रामेण स्थापितं पूर्वं वक्रतुण्डेति नामतः ।
यद्वरैर्विजयी रामो हत्वा राक्षसपुङ्गवान् ॥ २८ ॥
दशाननं च विख्यातं ययौ पत्न्या निजं पदम् ।
तेपुस्तत्र तपो घोरं सर्वास्ताः सुरयोषितः ॥ २९ ॥
काचिन्नामजपं चक्रे काचिन्मन्त्रजपं तथा ।
काचित्पद्मासनं तस्थौ ध्यायन्ती परमेश्वरम् ॥ ३० ॥
काचिद् वीरासनगता निराहारा तथाऽपरा ।
सम्मार्जयन्ती द्वाराणि चत्वराणि गृहाणि च ॥ ३१ ॥
प्रदक्षिणानमस्कारैः कुर्वन्ती भक्तिमुत्तमाम् ।
काचिदेकाङ्गुष्ठगता तस्थौ ध्यात्वा विनायकम् ॥ ३२ ॥
काचिन्निमील्य नयने स्तोत्राण्येवाऽपठत्तदा ।
बहुकाले व्यतिक्रान्ते न तुतोष विनायकः ॥ ३३ ॥
तदा चिन्तां परां जग्मुः किं कुर्म इति विह्वलाः ।
ततः सुमनसां भारान् दूर्वाभारांस्तथाऽपराः ॥ ३४ ॥
समर्प्य पुपुजुर्दैवं धूपदीपान्नकाञ्चनैः ।
मन्दारपुष्पैरन्याश्च शमीपत्रैरथापराः ॥ ३५ ॥
नभोवाणीं ततः श्रुत्वा शमीपत्रं विना विभुः ।
न सन्तुष्येदिति तदा सर्वा एव शमीदलैः ॥ ३६ ॥
पुपूजः परया भक्त्या देवदेवं गजाननम् ।
ततःपरमकारुण्यात्सुप्रसन्नः शमीदलैः ॥ ३७ ॥
आविरासीत्पुरस्तासां लसच्चारुचतुर्भुजः ।
किरीटकेयूरधरो हारकुण्डलमण्डितः ॥ ३८ ॥
लम्बकर्णो लसद्गण्डो विषाणद्वयमण्डितः ।
सिद्धिबुद्धियुतश्चाखुवाहनः पीतवस्त्रवान् ॥ ३९ ॥
सर्वास्ता ददृशुर्देवं कोटिसूर्यसमप्रभम् ।
निमील्य नयने नेमुर्दण्डवत् पृथिवीतले ॥ ४० ॥
तुष्टुवुस्ताः करपुटं कृत्वा सौम्य महाव्रतम् ।
अतिप्रसन्नवदनाः परमानन्दनिर्भराः ॥ ४१ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शमीपत्रार्पणप्रसन्नेन विनायकेन
देवाङ्नाभ्यः स्वरूपदर्शनं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें