श्रीगणेशपुराणे क्रीडाखण्डे
एकचत्वारिंशोऽध्यायः
बालचरिते श्रीगणेशदुरासदयुद्धवर्णनं
॥ बृह्मोवाच ॥
एवं प्रशंसितो देव्या देवैश्च स विनायकः ।
उवाच पार्वतीं प्रीत्या प्रणिपत्य मुदा युतः ॥ १ ॥
॥ गणेश उवाच ॥
देवानां सर्वलोकानां कर्तुं पालनमुत्तमम् ।
दुरासदं निहन्तुं च हर्तुं भूभारमेव च ॥ २ ॥
मातस्त्वां सेवितुं धर्मं कर्तुं कर्म च वैदिकम् ।
अवतीर्णोऽस्मि सर्वज्ञे ! यदब्रवीषि करोमि तत् ॥ ३ ॥
एवं ब्रुवति विघ्नेशे सुराः सर्वे तमूचिरे ।
पुनः स्तुत्वा च नत्वा ज जगत्कारणकारणम् ॥ ४ ॥
रजांसि विममेद्भूमेरुडूनि मिहिका अपि ।
जानीयात् स गुणांस्ते यो विममेत् सागरे जलम् ॥ ५ ॥
धन्यं चक्षुर्हि देवानां यद् दृष्टौ चरणौ विभोः ।
इदानीं नो गतं दुःखं प्राप्तं च स्वस्वकं पदम् ॥ ६ ॥
दुरासदं हरस्वैनं भूभारं चाखिलेश्वर ।
॥ ब्रह्मोवाच ॥
इति देववचः श्रुत्वा जहास स विनायकः ॥ ७ ॥
ऊचे सर्वं करिष्यामि दशायुधधरः प्रभुः ।
एवमुक्त्वा सुरान् देवो हर्षगद्गदया गिरा ॥ ८ ॥
सिंहारूढो ययौ शीघ्रं पुरीं वाराणसीं तदा ।
तमन्वयुर्देवगणा गिरिजा गिरिशोऽपि च ॥ ९ ॥
ज्ञात्वा दुरासदो दैत्यो विनायकमुपागतम् ।
देवसेनायुतं वीरो निर्ययौ नगराद् बहिः ॥ १० ॥
दृष्ट्वा सेनां तु दैत्यस्य सामात्यां सायुधां दृढाम् ।
नानाविधायुधवतीं गर्जन्तीं घनवन्मुहुः ॥ ११ ॥
गुहाविदारयन् सर्वाः स जगर्ज विनायकः ।
उवाच तं महादैत्यं भ्रान्तोऽस्यद्यापि रे कथम् ॥ १२ ॥
त्वया बलाद् देवगणा निर्जिताश्च महीभुजः ।
मुनयो धिक्कृताः सर्वे तदाऽहं नाभवं खल ॥ १३ ॥
निर्भयेन त्वया दोषा बहवः सञ्चिताः पुरा ।
तेषां फलमिदानीं त्वं गणेशात् प्राप्तुमर्हसि ॥ १४ ॥
उपद्रुतास्त्वया लोकास्त्रैलोक्यवासिनोऽखिलाः ।
तदर्थमवतीर्णोऽहमुद्धर्तुं त्वां भुवो भरम् ॥ १५ ॥
शरणं याहि रे त्यक्त्वा मानं लज्जा सुदुस्त्यजाम् ।
यासी सङ्ग्रामशिरसि चेदिदानीं मरिष्यसि ॥ १६ ॥
शिवप्राप्तवरात् सर्वं त्रैलोक्यं पीडितं त्वया ।
एवमुक्त्वा दुष्टबुद्धिं गणेशो रणसंभ्रमः ॥ १७ ॥
परशुं तोलयामास ज्वालामालासुशोभितम् ।
आच्छाद्य भास्करं क्षोभात् प्रलयानलसन्निभः ॥ १८ ॥
जवेन हृदये तस्य त्यक्त्वा शस्त्रं कृतान्तवत् ।
परशुना हतस्तस्य रोमापि न चचाल ह ॥ १९ ॥
क्रोधसंरक्तनयन उदतिष्ठद् ग्रसन्निव ।
त्रैलोक्यं तमुवाचाथ देवदेवं दुरासदः ॥ २० ॥
न देवा देवराजो वा दिक्पाला वा न मे पुरः ।
यातास्त्वं तु कथं यातो बालभावाद् व्रजाधुना ॥ २१ ॥
न बिभेम्यन्तकान्मूढ ! किमर्थं मर्तुमिच्छसि ।
एवमुक्त्वा ततः कोशान्निष्काश्यासिं महोज्ज्वलम् ॥ २२ ॥
क्षुरधारं यदाघातादद्रयश्चूर्णतां ययुः ।
दैत्यस्तेनाहनद्देवमङकुशेन न्यवारयत् ॥ २३ ॥
सोऽसिः परशुघातेन शतधा खण्डितोऽपतत् ।
भग्नासिर्मल्लयुद्धाय ययौ दैत्यो महाबलः ॥ २४ ॥
त्यक्त्वायुधानि देवोऽपि ववृधे तादृशो बलात् ।
ततो युद्धं तयोरासीत्तुमुलं रोमहर्षणम् ॥ २५ ॥
बाहुभ्यां कूर्पराभ्यां च मुष्टिभ्यां तौ प्रजघ्नतुः ।
पादाभ्यां जानुजङ्घाभ्यां पृष्ठाभ्यां च निजघ्नतुः ॥ २६ ॥
उड्डीय पेततुर्देहे पर्यायेण महास्वनौ ।
पार्ष्णिघातान् प्रकुर्वन्तौ घातान् कूर्परयोरपि ॥ २७ ॥
सक्थ्नोश्च जानुघातांस्तौ स्कन्धाघातान् परस्परम् ।
लुलुण्ठतुर्धरण्यां तौ धूलिधूसरितौ भृशम् ॥ २८ ॥
परस्परं जयन्तौ च लपन्तौ साधु साध्विति ।
एवं बहुदिनं युद्धं दृष्ट्वा देवा विसिस्मिरे ॥ २९ ॥
चेतसा बहु लज्जन्तौ ज्ञात्वा सामर्थ्यमस्य ह ।
तता विनायको मुष्टिं ललाटे दृढमाहनत् ॥ ३० ॥
स्फुटितं मुखमस्याशु धरण्यां पतितस्य ह ।
द्विमुहूर्तं निपतितो वज्राहत इवाचलः ॥ ३१ ॥
स कथञ्चित्प्रबुद्धोऽभूत्त्यक्त्वा मूर्च्छां चिरागताम् ।
तदात्मानमशक्तं स मनुते स्म भृशातुरः ॥ ३२ ॥
आययौ सैन्यमध्ये स दिनान्ते स विनायकः ॥ ३३ ॥
य इदं शृणुयाद्युद्धं युद्धकाले उपस्थिते ।
स जयं प्राप्नुयान्मर्त्यो यथा देवो विनायकः ॥ ३४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते
श्रीगणेशदुरासदयुद्धवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें