श्रीगणेशपुराणे क्रीडाखण्डे पञ्चसप्ततितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे पञ्चसप्ततितमोऽध्यायः

सुरपराजय
॥ क उवाच ॥

बुद्धिमन्तं सुतं ज्ञात्वा सवितुर्वरदर्पितम् ।
राज्यं तस्मै ददौ सर्वं देशकोशबलान्वितम् ॥ १ ॥
पिता वनं ययौ तस्य स्वात्मसाधनलालसः ।
स तु पित्राभिषिक्तः सन् राज्यं कर्तुं मनो दधे ॥ २ ॥


श्रेणीमुख्यान् समाहूय प्रकृतीरधिकारिणः ।
आस्थापयत् स्वाधिकारे मानयित्वांऽशुकादिभिः ॥ ३ ॥
डिण्डिरवेण स्वाज्ञाया भङ्गदोषमघोषयत् ।
दिग्जयार्थं ततो वीरानाज्ञापयत सत्वरम् ॥ ४ ॥
तेजसाऽहेपयत् सूर्यमतिभीषणविग्रहः ।
वीरा अग्रे प्रयान्ति स्म विकरालारुणाननाः ॥ ५ ॥
नग्ननानाशस्त्रधरा रजश्छादितभास्कराः ।
ततो गजाश्चतुर्दन्ता नानावर्णविभूषिताः ॥ ६ ॥
ययुर्महाश‍ृङ्खलिनः कम्पयन्तो वसुन्धराम् ।
महामात्रसमारूढाश्चञ्चलाः पर्वता इव ॥ ७ ॥
नानावर्णध्वजयुता दिग्गजान्भेत्तुमिच्छवः ।
घण्टाघोषेण महता नादयन्तो दिगन्तरम् ॥ ८ ॥
अश्वारोहा ययुः पश्चान्नानालङ्करणान्विताः ।
असङ्ख्यतूणधनुषां शस्त्राणां मण्डलान्विताः ॥ ९ ॥
सिन्धुदैत्यश्चमूमध्ये रराज हयपृष्ट्गः ।
मुक्तामालालसत्कण्ठो धनुर्बाणलसत्करः ॥ १० ॥
खड्गखेटधरो गच्छंश्चूर्णयन्द्रुमपर्वतान् ।
यद् यन्नगरमुद्दिश्य याति दैत्यो महाबलः ॥ ११ ॥
तस्य तस्याधिपं वीरा धृत्वा निन्युर्निजाधिपम् ।
स्वकीयं नायकं चिन्हं मुद्रां तत्र न्यवेशयन् ॥ १२ ॥
ततोऽन्ये शरणं याता दासभावमुपागताः ।
करदाँस्तान् स कृत्वैव ररक्ष स्वपदे बलात ॥ १३ ॥
एवं सर्वान् वशं चक्रे दैत्यकोट्यस्ततोऽन्वयुः ।
शुम्भो निशुम्भो वृत्रश्च प्रचण्डः काल एव च ॥ १४ ॥
कदम्बासुरनामाच शम्बरः कमलासुरः ॥ १५ ॥
कोलासुरोऽब्रवीत् तत्र यथा त्रिपुरदैत्यराट् ।
विजित्य लोकत्रितयमधिकारान् हि नो ददौ ॥ १६ ॥
तथा यच्छाधिकारान्नो जित्वा त्रैलोक्यमोजसा ॥ १७ ॥
तस्मिन् हते शिवेनाऽद्य दृष्टोऽसि प्रबलोऽसुरः ।
न ते पराक्रमतुलां कृतान्तोऽपि लभेत् क्वचित् ॥ १८ ॥
तवाज्ञां कर्तुमिच्छामस्तव सेवां महाबल ।
एवमाकर्ण्य तद्वाक्यं सन्तुष्टः सिन्धुदैत्यराट् ॥ १९ ॥
ददावश्वान् गजान् तेभ्यो वस्त्राणि भूषणानि च ।
॥ सिन्धुरुवाच ॥
प्रबलस्तु तदाऽहं स्यां यदा जेष्येऽमरावतीम् ॥ २० ॥
हरविष्णुसत्यलोकान् पातालानि च सप्त च ।
॥ क उवाच ॥
साधु साध्विति सर्वेषु ब्रुवत्सु सर्वदैत्यपाः ॥ २१ ॥
जगर्जुश्च जहृर्षश्च ब्रह्माण्डं पर्यकम्पयन् ।
न भूप युद्धात्कण्डूर्नो ह्यशमद् देवयुद्धतः ॥ २२ ॥
शमं यास्यत्यतो जग्मुः शीघ्रमेवावजन् दिवम् ।
रुरुधुस्ते शक्रपुरीं ब्राह्मणा इव वित्तदम् ॥ २३ ॥
मध्यं विविशुरपरे लुण्ठन्तो रत्नसञ्चयान् ।
कोलाहलो महानासीद् देवानां तत्र गर्जताम् ॥ २४ ॥
ततः सभामध्यगतो हरिर्दूतमुखात् ततः ।
शुश्राव दैत्याभिगमं वेष्टितां च निजां पुरीम् ॥ २५ ॥
शीघ्रमैरावतारूढो वज्रहस्तोऽमरान्वितः ।
आययौ तेन दैत्येन योद्धुकामः सुराधिपः ॥ २६ ॥
केचिदूचुः सुरास्तत्र नायं युद्धक्षमो हरे ।
विना रमापतिं चास्य न समो दृश्यते क्वचित् ॥ २७ ॥
यावद् वदत्सु तेष्वेवं तावद् दैत्यो महाबलः ।
शक्रं सुरगणैर्युक्तमविध्यच्छरवृष्टिभिः ॥ २८ ॥
तावद् देवगणाः केचित्पलायनपरा ययुः ।
ततोऽधावन् महेन्द्रोऽसौ गर्जमानो रुषान्वितः ॥ २९ ॥
ग्रसन् देत्यगणान् सर्वान् वज्रोद्यतकरोऽरिहा ।
अहनद् दैत्यराजं तं मस्तके वज्रतो दृढम् ॥ ३० ॥
स मूर्छां महतीं प्रायान् मुहूर्तात् पुनरुत्थितः।
उवाच च हरिं गच्छ स्वक्षयं न क्षयं व्रज ॥ ३१ ॥
मम मुष्टिप्रहारेण कालो मृत्युं गमिष्यति ।
तत्र का गणना तेऽस्ति नाश‍ृणोत्तद्धरिर्वचः ॥ ३२ ॥
रोषाविष्टो महादैत्यस्ततो मुष्टिप्रहारतः ।
बिभेदैरावतकटं रुधिरौघप्रवर्षितम् ॥ ३३ ॥
तत उड्डीय दैत्यस्तच्चतुर्दन्तानधारयत् ।
अपातयद् गजपतिमाश्चर्यं हरिराययौ ॥ ३४ ॥
दधार च हरिं पादेऽपोथयद् यावदेव तम् ।
तावत् सूक्ष्मेण वपुषा निर्गतो हस्तमध्यतः ॥ ३५ ॥
जगाम दूरदेशं स मनसा प्रशशंस तम् ।
नैतादृशं बलं दृष्टमतिष्ठञ्चेन्मृतोऽभवम् ॥ ३६ ॥
ततोऽमरगणैः सार्द्धं शरणन्तं हरिं हरिः ।
जगाम वपुषाऽन्येन विसृज्यैरावतं गजम् ॥ ३७ ॥
सिन्धुदैत्यस्तु सेन्द्रेषु देवेषु विद्रुतेषु च ।
इन्द्रासनसमारूढो दैत्यवृन्देन वेष्टितः ॥ ३८ ॥
ददौ पदानि देवानां दैत्येभ्यः सकलानि सः ।
ततः शुम्भादयो दैत्याः स्थित्तास्तेषु निराकुलाः ॥ ३९ ॥
नमस्यन्तोऽसुरपतिं प्रशंसन्तो बलाधिकम् ।
नानावादित्रनिर्घोषैर्नादयन्तस्त्रिविष्टपम् ॥ ४० ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे सुरपराजयो नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥

   इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-75

कोई टिप्पणी नहीं:

123