श्रीगणेशपुराणे क्रीडाखण्डे अशीतितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे अशीतितमोऽध्यायः

श्रीगणेशदर्शनं
॥ क उवाच ॥

तत्र सा काननं दृष्ट्वा रम्यं पुष्पजलान्वितम् ।
तस्थौ पद्मासनगता नासाग्रन्यस्तलोचना ॥ १ ॥
गणेशध्याननिरता प्राङ्मुखी जपतत्परा ।
एकाक्षरस्य मन्त्रस्य शुष्कद्रुम इव स्थिता ॥ २ ॥


न फलं न जलं मूलं पर्णं कन्दं न मारुतम् ।
अत्ति सा निश्चला तत्र निर्वाणं परमं श्रिता ॥ ३ ॥
एवं सा द्वादशाब्दानि व्यतीतानि ततो विभुः ।
कृपयाऽऽविरभूत्प्रीतो गुणेशो गुणवल्लभः ॥ ४ ॥
किरीटकुण्डलधरो दशबाहुस्त्रिशूलभृत् ।
भालचन्द्रः शङ्खचक्रमुक्तामालाविभूषितः ॥ ५ ॥
अक्षमालां च कमलं कस्तूरीतिलकं दधत् ।
मध्ये नारायणमुखो दक्षिणे च शिवाननः ॥ ६ ॥
वामे ब्रह्ममुखः शेषे पद्मासनगतो विभुः ।
तत्फणामण्डलच्छायः कुन्दकर्पूरसन्निभः ॥ ७ ॥
उवाच जगदम्बां तां यं ध्यायसि दिवानिशम् ।
गुणेशो गुणेश इति सोऽहं ते दर्शनं गतः ॥ ८ ॥
तव निष्ठां च भक्ति च तप उग्रमवेक्ष्य च ।
मम स्वरूपं वक्ष्यामि प्रीतस्तव वरानने ॥ ९ ॥
त्रयस्त्रिंशत्कोटिदेवेष्वधिको न च मत्परः ।
गुणत्रयविभागाच्च गुणेश इति मां विदुः ॥ १० ॥
त्रिदेहो गुणतश्चाहं सन्तुष्टस्तपसा च ते ।
वरं वरय मत्तस्त्वं यत्ते मनसि वर्तते ॥ ११ ॥
असाध्यमपि दास्यामि त्रैलोक्येऽस्मिन् महेश्वरि ।
इति तद्वचनं श्रुत्वा हर्षगद्गदनिः स्वना ॥ १२ ॥
उन्मील्य नयने गौरी पश्यति स्म पुरो विभुम् ।
गुणशं त्रिगुणेशं च त्रितनुं प्रणनाम सा ॥ १३ ॥
उवाच जन्मनिष्ठा च तपो मन्त्रो हरोऽपि च ।
अद्य धन्यतमो जातो दृष्ट्वा ते पदपङ्कजम् ॥ १४ ॥
अद्य सिद्धिः परा प्राप्ता साक्षादृष्टो यतो भवान् ।
न काङ्क्षेऽन्यवरं कच्चित् त्वद्वाक्यं न च लङ्घये ॥ १५ ॥
अतस्त्वं पुत्रतां याहि मम प्रीतिकरो भव ।
निरन्तरं दर्शनं ते सेवनं पूजनं भवेत् ॥ १६ ॥
इति तस्या वचः श्रुत्वा गुणेशो हर्ष निर्भरः ।
उवाच गिरिजां तां स भविष्यामि सुतस्तव ॥ १७ ॥
वाञ्छितं पूरयिष्यामि लोकानां च तवापि च ।
एवमुक्त्वा गुणेशस्तामन्तर्धानमगात्क्षणात् ॥ १८ ॥
न ददर्श यदा देवी गुणेशं तं क्षणात्तदा ।
अमन्यत मया दृष्टः स्वप्ना किं सुखदःक्षणम् ॥ १९ ॥
ईश्वरस्योपदेशेन दृष्टो देवोऽखिलार्थदः ।
न सोढुं विरहं तस्य शक्तास्मीति व्यधाच्छिवा ॥ २० ॥
गुणेशप्रतिमां कृत्वा स्थापयामास सादरम् ।
प्रासादं कारयामास चतुर्द्वारं सुशोभनम् ॥ २१ ॥
गिरिजात्मजेति तन्नाम स्थापयामास सुन्दरम् ।
सिद्धिक्षेत्रमिति ख्यातं भविष्यति नृणामिह ॥ २२ ॥
अनुष्ठानवतां सिद्धिर्भविष्यति न संशयः ।
इति दत्त्वा वरं तत्र सम्पूज्य च यथा विधि ॥ २३ ॥
प्रदक्षिणा नमस्कारान्कृत्वा च द्विजपूजनम् ।
दत्त्वा दानानि तेभ्यश्च गृहीत्वाशीर्वचो द्विजात् ।
त्रिसन्ध्याक्षेत्रमगमद् योगस्थं ददृशे हरम् ॥ २४ ॥
तत्पादपङ्कजे स्वीयं शिरःपद्मन्न्यधाच्छिवा ।
उवाच निजवृत्तान्तमाज्ञां प्राप्य विभो तव ॥ २५ ॥
उपदेशं मनोश्चापि द्वादशाब्दं कृतं तपः ।
अवायुभक्षया स्वामिन् ततस्तुष्टो गुणेश्वरः ॥ २६ ॥
उवाच परमप्रीतो भावं ज्ञात्वा परं मम ।
तवोदरेऽवतारं तु करिष्याम्यचलात्मजे ॥ २७ ॥
वाञ्छितं च करिष्यामि देवानां च तवापि च ।
एवमुक्त्वा क्षणेनाऽसौ तत्रैवाऽन्तर्दधे विभुः ॥ २८ ॥
ततोऽहं परमप्रीता मूर्तिं प्रासादमेव च ।
विधाय स्थापयित्वा तां तवान्तिकमुपागता ॥ २९ ॥
॥ क उवाच ॥
एवं श्रुत्वा प्रियावाक्यं प्रहृष्टमानसो हरः ।
प्रोत्फुल्लनयनः प्राह धन्याऽसि गिरिजात्मजे ॥ ३० ॥
साक्षाद् दृष्टो गुणेशस्ते गृहे सोऽवतरिष्यति ॥ ३१ ॥
हनिष्यति महादैत्यं भूभारं च हरिष्यति ।
इन्द्रादिलोकपालानां स्वपदानि प्रदास्यति ॥ ३२ ॥
एतन्मम वचो देवि न च विस्मर्तुमर्हसि ।
॥ क उवाच ॥
एवमुक्त्वा शिवो देव आलिलिङ्ग शिवां तदा ॥ ३३ ॥
आनन्दाश्रूणि मुञ्चन्तौ रोमाञ्चिततनू उभौ ।
तिष्ठन्तौ परमाह्लायुतावम्बामहेश्वरौ ॥ ३४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशदर्शनं नामऽशीतितमोऽध्यायः ॥ ८० ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-80

कोई टिप्पणी नहीं:

123