श्रीगणेशपुराणे क्रीडाखण्डे षट्सप्ततितमोऽध्यायः
देवदानवयुद्धवर्णनं
॥ क उवाच ॥
वैकुण्ठे सुखमासीनमागतोऽमरसंयुतः ।
हरिर्हरिं नमस्कृत्य निजगाद प्रयोजनम् ॥ १ ॥
॥ इन्द्र उवाच ॥
किं न जानासि गोविन्द सिन्धुदैत्यकृतामिमाम् ।
आपदं नोऽमरावत्यां दुष्टैराक्रमणं कृतम् ॥ २ ॥
तेन सार्द्धं कृतं युद्धं यथाशक्ति सुरैः सह ।
न स जेतुं क्षमो दैत्योऽतस्त्वां शरणमन्वियाम् ॥ ३ ॥
न त्वां विना गतिर्नोऽस्ति सर्वदा त्वं गतिर्हि नः ।
निर्दालयैनं नो देहि स्थानानि जगदीश्वर ॥ ४ ॥
॥ क उवाच ॥
श्रुत्वा हरिवचो विष्णुश्चिन्ताश्चर्यसमन्वितः ।
उवाच तं न भीः कार्या प्रविज्येष्येऽसुरं क्षणात् ॥ ५ ॥
एवमुक्त्वा हृषीकेशो रुरोह निजवाहनम् ।
तदुड्डानेन च तदा चकम्पे भुवनत्रयम् ॥ ६ ॥
पतिता अवनौ वृक्षाः पक्षिवृन्दसमन्विताः ।
किरीटकुण्डलधरो वनमालाविभूषितः ॥ ७ ॥
कौस्तुभार्चिर्लसद्वक्षाः कस्तूरीतिलकोज्ज्वलः ।
शङ्खचक्रगदापद्महस्तो यातोऽमरावतीम् ॥ ८ ॥
ज्ञात्वा देवगणान् प्राप्तान् गरुडासनसंयुतान् ।
युद्धायाजग्मुरसुरा नानाशस्त्रधरास्तदा ॥ ९ ॥
धनुश्चक्रधरो दैत्यः सतूणो हयसङ्गतः ।
सिन्धुरप्यागतो रोषाद् योद्धुकामो महाबलः ॥ १० ॥
ततः कुबेरो वरुणो वायुरग्निः पुरन्दरः ।
सोमो मित्रश्च भौमश्च नासत्यौ मदनोऽपि च ॥ ११ ॥
ततोऽभवद् द्वन्द्वयुद्धं सिन्धुदैत्येपुरः स्थिते ।
प्रचण्डो वरुणेनाजौ कमलेन च यक्षराट् ॥ १२ ॥
वृत्रेण शतयज्वा च निशुम्भः पवनेन च ।
शुम्भोऽपि युयुधे तत्र विष्णुना प्रभविष्णुना ॥ १३ ॥
वह्निश्चण्डेन मुण्डेन सोमश्च युयुधे भृशम् ।
कदम्बेन च भौमश्च मदनेन च शम्बरः ॥ १४ ॥
नासत्यौ कालदैत्येन सर्व एव च सैनिकाः ।
शस्त्रैरस्त्रैः प्रजघ्नुस्ते मर्मस्थानानि चासकृत् ॥ १५ ॥
केचिद् युयुधिरे मल्ललीलया युद्धदुर्मदाः ।
परस्परं शस्त्रघातैः केचित् तत्र प्रपेदिरे ॥ १६ ॥
मृता मुमूर्षवः केचिद् व्यङ्गाश्चैव ववल्गिरे ।
जयं पराजयं तेन प्रापुः क्वचित्कमेव च ॥ १७ ॥
ततो वृत्रासुरः शक्रमहनन् मुष्टिघाततः ।
मस्तकं मस्तकेनैव निजघ्नतुरथौजसा ॥ १८ ॥
एवं हस्तेन हस्तं च पादं पादेन जघ्नतुः ।
वक्षःस्थलेन वक्षश्च ततो वज्रेण सोऽहनत् ॥ १९ ॥
जघान वृत्रः शक्रं तं सोऽपतन्मूर्च्छितो भुवि ।
यावत् पलायति सुरो वमन् रक्तं मुखाद्बहु ॥ २० ॥
ततः पपात भूपृष्ठे हतो मूर्च्छां गतो भृशम् ।
पुनः संज्ञामवाप्यैव वज्रकल्पेन मुष्टिना ॥ २१ ॥
जघान वृत्रः शक्रं तं सोऽपतन्मूर्छितो भुवि ।
यावत्पलायति पुरो वमन् रक्तं मुखाद्बहु ।
तावद् दैत्या योद्धुकामाः समीयुः सर्वतोदिशम् ।
दृष्ट्वा पराक्रमं तेषां मघवाऽन्तर्दधे तदा ॥ २२ ॥
एवं ये ये द्वन्द्वयुद्धं कुर्वन्तो देवतागणाः ।
ते सर्वे भग्नदर्पास्तु पलायनमकुर्वत ॥ २३ ॥
एवं देवेषु भग्नेषु गरुडं प्राहिणोद्धरिः ।
चक्रदीप्त्या स्वदीप्त्या च भासयन्विदिशो दिशः ॥ २४ ॥
अहनच्चक्रधाराभिर्दैत्यश्रेणीरनेकशः ।
केचिद्भग्नानना दैत्याः केचिद्भग्नशिरोधराः ॥ २५ ॥
केचिच्च शतधा जाताः शीर्णजानूरुबाहवः ।
केचिच्च शरणं याता न ममार जनार्दनः ॥ २६ ॥
सर्वे महाबला दैत्या मुक्तिं हरिहता गताः ।
मेदोमांसवहा नद्यः सद्यस्तत्र प्रवर्तिताः ॥ २७ ॥
ततः शङ्खनिनादेन हरिः सर्वं व्यनादयत् ।
एवं जयति गोविन्दे सर्वे शुम्भादयोऽसुराः ॥ २८ ॥
तमेव योद्धुमायाता द्वन्द्वयुद्धं विहाय तत् ।
विराङ्रूपेण भगवान्धृत्वा तांश्चतुरोऽसुरान् ॥ २९ ॥
भिन्दीपालेन पाषाणं यथा क्षिपति मानवः ।
तथा चण्डं च मुण्डं च निशुम्भं शुम्भमेव च ॥ ३० ॥
भ्रामयित्वाऽक्षिपद् दूरे मध्ये कृत्वा सरिद्वराम् ।
ते मूर्च्छां परिभूयैव पुनश्च वाहिनीं गताः ॥ ३१ ॥
हृदि प्रचण्डं पृष्ठे तु वृत्रं मुष्टिप्रहारतः ।
जघान हरिरव्यग्रः कालं कमलमेव च ॥ ३२ ॥
भौमासुरं च शिरसि कदम्बं चक्रघाततः ।
कोलासुरं च गदया विव्याध हृदि माधवः ॥ ३३ ॥
ततः सिन्धुरगात्तूर्णं कृतकोलाहलारवः ।
दिगन्तान् नादयन्प्रोचे बलं ते दर्शितं हरे ॥ ३४ ॥
ममापि पौरुषं पश्य न च गन्तुं त्वमर्हसि ।
न मे दृष्टिगतो जीवन् रिपुर्याति कदाचन ॥ ३५ ॥
भूतभव्यभविष्यज्ञ किं पूर्वं न विचारितम् ।
यस्य शब्देन च भृशं कम्पते भुवनत्रयम् ॥ ३६ ॥
तत्पुरः कथमायातः खद्योत इव पूषणम् ।
ततोऽमरगणाः प्रोचुर्वल्गन्तं सिन्धुदैत्यपम् ॥ ३७ ॥
शूरा न हि प्रजल्पन्ति दर्शयन्त्येव पौरुषम् ।
अस्माकं न हरेराज्ञा नो चेत्त्वं शतधा भवेः ॥ ३८ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे देवदानवयुद्धवर्णनं नाम षट्सप्ततितमोऽध्यायः ॥ ७६
॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें