श्रीगणेशपुराणे क्रीडाखण्डे एकसप्ततितमोऽध्यायः
विनायकाश्रमं प्रतिगमनं
॥ क उवाच ॥
अपरस्मिन्दिने ब्रह्मन् राजा भद्रासनं गतः ।
अमात्यान् वीरमुख्यांश्च वृद्धांश्च सुहृदो द्विजान् ॥ १ ॥
आकार्य च नमस्कृत्य जगाद हृदि संस्थितम् ।
॥ राजोवाच ॥
विवाहाय तु पुत्रस्य समाहूतो विनायकः ॥ २ ॥
उत्पाता बहवो जातास्ते च तेन निराकृताः ।
अदित्यै च मया प्रोक्तं शीघ्रं ते तनयं शुभम् ॥ ३ ॥
आनयिष्ये तत्र बहुदिवसा जग्मुरञ्जसा ।
स्वस्थेषु त्रिषु लोकेषु विवाहोऽस्य विचिन्त्यताम् ॥ ४ ॥
॥ अमात्या ऊचुः ॥
सम्यगुक्तं महाराज विलम्बो विघ्नकारितः ।
जातो विवाहकार्येऽस्मिन् गतेऽस्मिन् स विधीयताम् ॥ ५ ॥
विनायकप्रसादेन सर्वमव्याकुलं जगत् ।
दूरस्थानां च सुहृदां प्रेष्यन्ता लग्नपत्रिकाः ॥ ६ ॥
दूतांश्च सर्वसम्भारान्कर्तुं ग्रामेषु युज्यताम् ।
॥ क उवाच ॥
इति प्रकृतिवाक्यानि श्रुत्वा लोकाः सभासदः ॥ ७ ॥
साधूक्तमिति तत्रोचुस्ततो राजा जहर्ष च ।
ज्योतिर्विद्भिर्लग्नदिनं निश्चिकाय तदैव सः ॥ ८ ॥
प्रेषयामास सुहृदो दूतानाकारितुं शुभान् ।
सामग्रीं कारयामास दूतैराप्तैर्यथाविधि ॥ ९ ॥
ततो मगधराजोऽपि सुतामादाय तां पुरीम् ।
आययुः सर्वसुहृदो नानादिग्भ्यः समागताः ॥ १० ॥
उपायनानि भूरीणि ददुस्तेऽन्योन्यमादरात् ।
देवतास्थापनं तौ च चक्रतुः सुमहोत्सवान् ॥ ११ ॥
साङ्गोपाङ्ग विवाहं तौ सम्यक् सम्पाद्य यत्नतः ।
तोषयामासतुर्विप्रान् सर्वलोकान् धनादिभिः ॥ १२ ॥
विसृज्य सुहृदः सर्वांस्ततो राजा विनायकम् ।
भूषयामास विविधैर्भूषणैरंशुकैर्वरैः ॥ १३ ॥
अभ्यज्य भोजयामास स्वाद्वन्नं सह बन्धुभिः ।
ततो रथं समारुह्य सह तेन नृसत्तमः ॥ १४ ॥
ययौ वादित्रनिर्घोषैः कश्यपाश्रममुत्तमम् ।
ततो नागरिकाः सर्वे हित्वा कृत्यानि निर्ययुः ॥ १५ ॥
भोजनं पठनं निद्रा व्यासङ्ग तत्यजुस्तदा ।
अकृत्वा स्वस्ववेषं ते त्वरया निर्ययुः पुरात् ॥ १६ ॥
ततो बालसहस्राणि रुरुधुस्तं विनायकम् ।
अस्माँस्त्यक्त्वा कथं यासि कथं निष्ठुरतां गतः ॥ १७ ॥
गमिष्य इति पूर्वं नः कथं नोक्तं प्रसङ्गतः ।
अभुक्त्वाऽस्मद्गृहे यासि कथं तं निजमाश्रमम् ॥ १८ ॥
कश्चिद्बालो दधाराऽस्य पादपद्मं रुदन्मुहुः ।
कश्चित्स्नेहात्समालिङ्ग्य दधार करपङ्कजम् ॥ १९ ॥
पौराङ्गनास्तथैवैनं बाला मुन्धाः सयौवनाः ।
विपर्यस्य निजा भूषा आययुस्तं विलोकितुम् ॥ २० ॥
यथा पाथोनिधिं सर्वां वर्षाकाले समुद्रगाः ।
यान्ति हंसा यथा मुक्तासमूहं मरुतो हरिम् ॥ २१ ॥
अतिप्रीतियुताः प्रोचुः कथं यासि विनायक ।
अकस्मात्स्नेहमुत्सृज्य कथं निष्ठुरतां गतः ॥ २२ ॥
॥ क उवाच ॥
रथादवतताराऽसौ दृष्ट्वा तान् नृपसंयुतः ।
परिश्रान्तान्धावमानान्स्खलतः पततोऽपि च ॥ २३ ॥
तानुवाच ततः सर्वान्मुहूर्तं त्वरया जनाः ।
नृपेण सहितः शीघ्रमागतो नगराद्बहिः ॥ २४ ॥
इदानीं प्रार्थये सर्वान् न त्याज्या करुणा मयि ।
अपराधास्तु क्षन्तव्या मया वः सदने कृताः ॥ २५ ॥
न च त्याज्यः परिचयो यदि वो दर्शनं भवेत् ।
एवं तद्वाक्यमाकर्ण्य पौराः सर्वे शुचान्विताः ॥ २६ ॥
रोमाञ्चाञ्चितगात्रास्ते प्रोचुर्गद्गदया गिरा ।
॥ जना ऊचुः ॥
न माया मायिनस्तेऽस्ति सर्वस्य जगतः पितुः ॥ २७ ॥
न पिता त्यजते बालान् सापराधानपि ध्रुवम् ।
न चन्द्र उष्णतां याति सुवर्णं नीलतामपि ॥ २८ ॥
कथं निष्ठुरतां यातः कथं गन्तुं समुत्सुकः ।
पूर्वमेव न चागाश्चेत्तदा शोको न सम्भवेत् ॥ २९ ॥
चोरयित्वा कथं यासि सर्वेषां नो मनांसि च ।
कथं कार्यं करिष्यामो नीतेषु नो मनस्सु च ॥ ३० ॥
जले नष्टे जलचराः कथं जीवन्ति तद्वद ।
प्राणे गते शरीरेण किं प्रयोजनमस्ति नः ॥ ३१ ॥
कस्तत्र प्रतिकारः स्यादिक्षुश्चेत्स्रवते विषम् ।
तस्मान्नो नय यत्र त्वं यासि तत्र स्वकिङ्करान् ॥ ३२ ॥
तद्वचः परिकर्ण्याऽसौ प्रोचे गद्गदया गिरा ।
मुञ्चन्नेत्राश्रु बहुलं सर्वान् स्त्रीवृद्धबालकान् ॥ ३३ ॥
॥ देव उवाच ॥
न खेदः सर्वदा कार्यो न वियोगो मम क्वचित् ।
सर्वान्तर्यामिणोऽपायहीनस्यानन्दरूपिणः ॥ ३४ ॥
न चित्तस्य समाधानं भवेद्वै चिन्तनेन मे ।
मम मूर्तिं मृदा कृत्वा पूजयन्तु गृहे गृहे ॥ ३५ ॥
सङ्कटं वो यदा तु स्यात्स्मर्तव्योऽहं तदा जनाः ।
साक्षात्कारं प्रदास्यामि नाशयिष्यामि सङ्कटम् ॥ ३६ ॥
॥ क उवाच ॥
वचनं तत्समाकर्ण्य ननन्दु सर्वनागराः ।
नेमुः प्रदक्षिणीकृत्य जयशब्दैः प्रतुष्टुवुः ॥ ३७ ॥
गृहीत्वाज्ञां ययु सर्वे पौराः स्वं स्वं निवेशनम् ।
विनायकोऽपि शीघ्रं स रथारूढो ययौ पुरः ॥ ३८ ॥
काशिराजेन सहितो मातृदर्शनलालसः ।
स ददर्श परावृत्यं मुखं पौरकुमारकान् ॥ ३९ ॥
आक्रन्दतस्तानुवाच पुनर्यास्ये व्रजन्तु हि ।
चिन्ता न कार्या सत्यं वो ब्रवीमि नानृतं क्वचित्
।
एवं तान् स परावृत्य क्षणात् स्वाश्रममाप्तवान् ॥
४० ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकाश्रमप्रतिगमनं नामैकसप्ततितमोऽध्यायः ॥ ७१
॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें