श्रीगणेशपुराणे क्रीडाखण्डे त्रिसप्ततितमोऽध्यायः
सिन्धूत्पत्तिवर्णनं
॥ व्यास उवाच ॥
कथं ब्रह्मन् शिवगृहे मयूरेश्वर संज्ञितः ।
अवतीर्णः किमर्थं वा किं च तच्चरितं पितः ॥ १ ॥
मयुरेश्वरसंज्ञा च कथं जाता विनायके ।
एतन्मे सर्वमाचक्ष्व शृण्वन्स्तृप्यामि न क्वचित् ॥ २ ॥
॥ क उवाच ॥
त्रेतायुगे महादैत्यः सिन्धुनामाऽभवत्पुरा ।
स हतस्तेन बलिनाऽवतीर्णे न शिवालये ॥ ३ ॥
शौनकस्य च संवादं राज्ञा च चक्रपाणिना ॥ ४ ॥
मैथिले विषये राजा गण्डकीनगरे शुभे ।
चक्रपाणिरिति ख्यातः साक्षाद् विष्णुरिवापरः ॥ ५ ॥
न गुणा वर्णितुं शक्याः शेषेणाऽस्य कदाचन ॥ ६ ॥
तेजसा लोपयन् भानुं लावण्येन च मन्मथम् ।
मत्या बृहस्पतिं स्कन्दं विक्रमेण बलेन च ॥ ७ ॥
येनेयं सकला पृथ्वी क्षणेन वशवर्तिनी ।
कृता सर्वे च राजानः सेवायां विनियोजिताः ॥ ८ ॥
तुरङ्गाणां गजानां च पदातीनां जयैषिणाम् ।
रथानां च न यस्यास्ति सङ्ख्यानं जगतीतले ॥ ९ ॥
साक्षाल्लक्ष्मीः स्थिरा यस्य गृहे दर्शनगोचरा ।
रत्नकाञ्चनमुक्ताभिरनिशं भासयन् दिशः ॥ १० ॥
भद्रं भद्रकरं यस्य लोकनामलकोपमम् ।
यस्यामात्यौ महाबुद्धी साम्बश्चैव सुबोधनः ॥ ११ ॥
सेवन्तौ स्वामिकार्यार्थे तृणीकृत्य स्वजीवितम् ।
यस्यासीत् प्रमदा रम्या नाम्नोग्रा चारुहासिनी ॥ १२ ॥
कुमुदानि विकासन्ते दिवा यन्मुखचन्द्रतः ।
अनेकभूषादीप्त्या या नाशयित्वाऽखिलं तमः ॥ १३ ॥
पातिव्रत्य गुणान्द्रष्टुं यान्ति सर्वाः पतिव्रताः ।
एवं राजा बुधैर्मान्यः सदा विष्णुपरायणः ॥ १४ ॥
पुराणश्रवणे सक्तो धर्मशास्त्रपरायणः ।
सन्तत्या रहितः सोऽथ दुःखमाप दिवानिशम् ॥ १५ ॥
अपत्यं जायते यद्यत्तत्तन्नश्यति तत्क्षणात् ।
अनेकव्रतदानानि यज्ञांश्च कृतवान्बहून् ॥ १६ ॥
ततः स राजा कस्मिंश्चित्समये निजभार्यया ।
आकार्य प्रकृतीः पौरान्विरक्तो राज्यसंसदि ॥ १७ ॥
उवाच सर्वान्दण्डं च कोशं राज्यं त्यजेऽधुना ।
किमपुत्रस्य राज्येन स्वर्गहीनस्य मेऽधुना ॥ १८ ॥
यानि कर्माणि च मया पुत्रार्थे चरितानि च ।
ईश्वरार्पणबुद्ध्या चेत्कृतानि स्युर्यदा तदा ॥ १९ ॥
मुक्तिः स्यादुभयोः पूर्वजन्मकर्मक्षयोऽपि च ।
गतमायुर्वृथा लोका वनं यास्ये मुदाऽधुना ॥ २० ॥
सर्वं प्रकृतिसात्कृत्वा यूयं तद्वाक्यकारिणः ।
गमिष्येऽहं वनं लोकास्तपस्तप्तुं हिताय वै ॥ २१ ॥
कदाचिदिष्टसिद्धिश्चेत्पुनर्यास्ये निजां पुरीम् ।
ध्रुवमाज्ञां मम पुनः प्रयच्छताधुना जनाः ।
एवं श्रुत्वा नृपवचः सर्वे दुःखितमानसाः ॥ २२ ॥
अश्रुधाराः प्रमुञ्चन्तः प्रोचुस्तं नृपसत्तमम् ।
॥ पौरा ऊचः ॥
जननी जनकस्त्वं नः कथं निष्ठुरतां गतः ।
किमर्थं त्यजसे नस्त्वमपराधं विना प्रभो ॥ २३ ॥
विना भवन्त नो जन्म वृथैव मातरं शिशोः ।
वयमप्यनुयास्यामो यत्र याति भवान् प्रभो ॥ २४ ॥
॥ क उवाच ॥
एवं वदत्सु लोकेषु नृपेणाथागतो मुनिः ।
शौनको मुनिशार्दूलो जातवेदा इवा परः ॥ २५ ॥
वेदवेदाङ्गशास्त्राणां वक्तात्रैलोक्यविश्रुतः ।
शक्रादिसुरवन्द्यो यो भूतभव्यभविष्यवित् ॥ २६ ॥
तं दृष्ट्वा पुरतो राजा ननामोत्थाय चासनात् ।
स्वासने तमुपावेक्ष्य पुपूज परया मुदा ॥ २७ ॥
भुक्तवन्तं च विश्रान्तं पादसंवाहनादिभिः ।
चक्रपाणिरथोवाच पुण्यं किं फलितं मम ॥ २८ ॥
यज्जातं दर्शनं तेऽद्य सर्वपापहरं शुभम् ।
सर्वकामप्रदं नृणां दुर्लभं पापकर्मणाम् ॥ २९ ॥
ततः प्रोचे मुनिश्चक्रपाणिं नृपतिसत्तमम् ।
सन्तुष्टः परया भक्त्या प्रश्रयेण दमेन च ॥ ३० ॥
॥ मुनिरुवाच ॥
मा चिन्तां कुरु राजेन्द्र मा च राज्यं परित्यज ।
पुत्रस्ते भविता सम्यक् मद्वाक्यानात्र संशयः ॥ ३१ ॥
मया वाणी नोक्तपूर्वाऽनृता हासेऽपि कर्हिचित् ।
॥ क उवाच ॥
एवमाकर्ण्य तद्वाक्यं जहृषे राजसत्तमः ॥ ३२ ॥
अलङ्कारान्ददौ तस्मै रत्नकाञ्चननिर्मितान् ।
वस्त्राणि च महार्हाणि न च जग्राह वै मुनिः ॥ ३३ ॥
पुनः प्रोवाच नृपति वयं वल्कल धारिणः ।
निस्पृहाः सर्वभोगेषु सर्वभूतहिते रताः ॥ ३४ ॥
सृष्टिसंहारकरणे ससर्था करुणाब्धयः ।
साधूनां दर्शनरताः समलोष्ठश्मकाञ्चनाः ॥ ३५ ॥
विद्वत्सु नैव कमला स्थानं धत्ते कदाचन ।
तस्मान्नेदं ग्रहीष्यामि काञ्चनं वसनं शुभम् ॥ ३६ ॥
तीर्थयात्राप्रसङ्गेन त्वामहं समुपागतः ।
दिनानि च व्यतीतानि बहूनि तवदर्शने ॥ ३७ ॥
॥ क उवाच ॥
पुनस्तौ नेमतुः सम्यग्दम्पती शौनकं मुनिम् ।
पप्रच्छतुरुपायं तं सन्तानोत्पादने क्षमम् ॥ ३८ ॥
सर्वव्रततपोयज्ञान् मत्वा दानानि वै वृथा ।
ततोऽब्रवीन्मुनिः सौरं व्रतं सर्वार्थदं नृणाम् ॥ ३९ ॥
अनेकजन्मपापानां शमनं पुत्रपौत्रदम् ।
॥ मुनिरुवाच ॥
मासमात्रं व्रतं कार्यमारभ्य भानुसप्तमीं ॥ ४० ॥
कृत्वाऽभ्युदयिकं श्राद्धं मातृपूजनपूर्वकम् ।
अभ्यर्च्य गणनाथं च स्वस्तिवाच्य द्विजर्षभान् ॥ ४१ ॥
सुवर्णकलशेस्थाप्यः सौवर्णं रविमण्डलम् ।
उपचारैः षोडशभिर्भक्तिभावसमन्वितः ॥ ४२ ॥
रक्तचन्दनमिश्रैश्च तन्दुलैः कुसुमैरपि ।
रक्तैर्नानाविधै रत्नैः फलैश्च विविधैरपि ॥ ४३ ॥
अर्घ्यैर्द्वादशसङ्ख्यैश्च नमस्कारैः परिक्रमैः ।
स्तुतिभिः प्रार्थनाभिश्च प्रार्थयेत्परमेश्वरम् ॥ ४४ ॥
ततो लक्षनमस्कारान् कुर्वीत कारयीत वा ।
प्रत्यहं लक्षविप्रांस्तु भोजयेत्परया मुदा ॥ ४५ ॥
गामेकां प्रत्यहं दद्याद् वेदज्ञाय कुटुम्बिने ।
ब्रह्मचर्येण तिष्ठेच्च सपत्नीको नृपोत्तमः ॥ ४६ ॥
दीनान्धकृपणेभ्यश्च दद्यादन्नं दयान्वितः ।
मासान्ते सर्वसम्भारान्ब्राह्मणाय समर्पयेत् ॥ ४७ ॥
एवं व्रते कृते राजन्पुत्रस्ते मत्प्रसादतः ।
भविष्यति महाख्यातः सूर्यभक्तियुतः शुचिः ॥ ४८ ॥
॥ क उवाच ॥
एवं व्रतं समादिश्य शौनकोऽन्तर्हितस्तदा ।
ततश्चकार नृपतिर्यथादिष्टं व्रतं तु तत् ॥ ४९ ॥
पत्न्या सह विनीतात्मा सूर्यभक्तिपरायणः ।
ब्राह्मणान् भोजयामास यथेच्छं लक्षसङ्ख्यया ॥ ५० ॥
उपवासयुतः पत्न्या मासमात्रं बभूव सः ।
गोदानं च नमस्कारांश्चक्रे चाकारयद्विजैः ॥ ५१ ॥
सूर्यमन्त्रं जपन्नित्यं तन्नामस्मरणं सदा ।
ततः कदाचित् तत्पत्नी रात्रौ स्वप्ने ददर्श तम् ॥ ५२ ॥
निजभर्तृद्विजरूपं सवितारं मनोरमम् ।
चकमे कामरूपं तं मदनाग्निप्रपीडिता ॥ ५३ ॥
उवाच परितप्ताङ्गी कामो मे बाधते भृशम् ।
ऋतुं मे देहि भर्तस्त्वं नो चेन्मृत्युर्भवेन्मम ॥ ५४ ॥
सोऽपि वन्ध्यं विनिश्चित्य तत्पतिं कामुकां च ताम् ।
स्वप्न एव भर्तृरूपी सविता तामृतुं ददौ ॥ ५५ ॥
सा प्रबुद्धा ततः प्राह समुत्थाप्यनिजं पतिम् ।
नियमस्थेन किं ब्रह्मंस्त्वया मे ऋतुरर्पितः ॥ ५६ ॥
स उवाच ततस्तां तु नाहं व्रतमनाः शुभे ।
उपवासरतः क्षीणो रराम रविभक्तिमान् ॥ ५७ ॥
ततः पुनः प्राह सती नान्यं जाने कथञ्चन ।
त्वद्रूपेणैव ध्यायामि सवितारं व्रते स्थिता ॥ ५८ ॥
ऋतुजेन च दग्धाऽहं वह्निनाऽन्तर्गतेन ह ।
ततः पुनश्चक्रपाणिरूचे तां प्रियभाषिणीम् ॥ ५९ ॥
॥ नृप उवाच ॥
तुष्टोऽसौ सविताकान्ते नमस्कारैश्च भोजनैः ।
ब्राह्मणानां गवां दानैरुपवासैर्जपैरपि ॥ ६० ॥
आवां सिद्धिं ददौ सम्यक् पुत्रस्तव भविष्यति ।
॥ क उवाच ॥
दिने दिने गर्भवृद्धौ तस्यास्तापोऽभिवर्द्धते ॥ ६१ ॥
सा मुमूर्षुश्चन्दनानि सोशीराणि निषेवते ।
लिलेपाऽङ्गे च कर्पूरं तापो नास्या शशाम च ॥ ६२ ॥
न चार्द्रवस्त्रपवनैस्ततः सा सखिभिः सह ।
तत्याज सिन्धुतीरे तं गर्भं गत्वा महत्तरम् ॥ ६३ ॥
आययौ साथ विश्रान्ता सखिर्निजमन्दिरम् ।
निवेद्य भर्त्रे त्यक्तं तं गृहकार्यरताऽभवत् ॥ ६४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धूत्पत्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥
७३ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें