श्रीगणेशपुराणे क्रीडाखण्डे
नवसप्ततितमोऽध्यायः
गौरीमन्त्रप्रदानं
॥ क उवाच ॥
निर्जितान् सिन्धुना देवान् ज्ञात्वा शम्भुर्निजस्थलात् ।
सप्तकोटिगणाकीर्णस्त्रिसन्ध्याक्षेत्रमभ्यगात् ॥ १ ॥
स्वाहास्वधावषट्कारवेदाध्ययनवर्जिताः ।
निवसन्ति भयात्सिन्धोर्गौतमाद्या महर्षयः ॥ २ ॥
दृष्ट्वा ते त्र्यम्बकं देवं परिवव्रुः समन्ततः ।
यथा तीर्थं विप्रवरा बालका जननीं यथा ॥ ३ ॥
प्रणम्य तं प्रपूज्यैव प्रोचुर्धन्यतमा वयम् ।
अनुष्ठानं दृशिर्जन्म धन्यं ज्ञानं यतो हरः ॥ ४ ॥
अगोचरो दृष्टिगतो दण्डकारण्यमागतः ।
दुरितं विलयं यातं पुण्यं च फलितं महत् ॥ ५ ॥
इदानीं न च दुःख नो दृष्टे देवे भविष्यति ।
यथोदिते दिवानाथे न ध्वान्तं दृश्यते क्वचित् ॥ ६ ॥
ततोऽब्रवीन् महादेवः सर्वांस्तान् मुनिपुङ्गवान् ।
॥ शिव उवाच ॥
सिन्धुनाऽक्रामि त्रैलोक्यं कृतां देव विनिग्रहः ॥ ७ ॥
मुनीनामपि केषाञ्चित्तेन खिन्नं मनो मम ।
विश्रान्ति न लभे स्थाने ततोऽहमिह चागतः ॥ ८ ॥
भवतां दर्शनेऽनाहं परितुष्टो मुदान्वितः ।
इदानीमवकाशं सपरिवारस्य दीयताम् ॥ ९ ॥
अतिपुण्येन वः प्राप्तं दर्शनं पापनाशनम् ।
यत्रस्थित्वा परं ध्यानं करिष्ये जगदीशितुः ॥ १० ॥
॥ क उवाच ॥
इति शूलिवचः श्रुत्वा प्रोचुः सर्वे महर्षयः ।
सर्वेश्वरस्य ते देव दाता स्थानस्य को भवेत् ॥ ११ ॥
कल्मद्रुमस्य कः कामः केनासौ परिपूर्यते ।
क्षीरार्णवतृषा किं वा पल्लवेन गमिष्यति ॥ १२ ॥
तवैव रूपं पृथिवी तव वश्याऽत्र सर्वदा ।
त्वमीशः सर्वलोकस्य यथेच्छसि तथा कुरु ॥ १३ ॥
दर्शयामः सुरपते सुन्दरं तव चाश्रमम् ।
नानावृक्षलताकीर्णं रम्यवापीसरोजलम् ॥ १४ ॥
यादोभिः पक्षिभिर्युक्तं घनच्छायं सुविस्तृतम् ।
स्वादुकन्दफलोपेतं मृदुघाससमन्वितम् ॥ १५ ॥
यदीच्छाऽत्र वस त्र्यक्ष परिपालय नोऽखिलान् ।
॥ क उवाच ॥
तत्रावसन्महादेवो गङ्गौरीगणैर्युतः ॥ १६ ॥
कैलासादधिकं मेने मुनेराश्रममण्डलम् ।
तदाश्रयेण ते सर्वे गौतमाद्या महर्षयः ॥ १७ ॥
चेरुस्तपांसि विविधान्यासँस्ते विगतज्वराः ।
शिवोऽपि तप आरेभे गङ्गागौरिसहायवान् ॥ १८ ॥
ततो गणाश्च सामग्रीं तस्य चक्रुर्महात्मनः ।
कस्मिंश्चित्समये गौरी पृच्छति स्म सदाशिवम् ॥ १९ ॥
त्वमेव कर्ता हर्ता त्वं पाता विश्वस्य शङ्कर ।
अष्टमूर्तिरमूर्तिस्त्वं सर्वेशः सर्वभावनः ॥ २० ॥
सर्वश्रेष्ठतमस्त्वं च सर्वेषां सर्वकामदः ।
अष्टानां कर्मणां देव फलदाताऽखिलार्थवित् ॥ २१ ॥
त्वत्तः श्रेष्ठतमः कोऽस्ति यं त्वं ध्यायसि तं वद ।
देवाश्च मुनयो नागा यक्षमानुषराक्षसाः ॥ २२ ॥
यत्सत्तयाऽखिलं विश्वं त्वत्तः श्रेष्ठतमस्तु कः ।
त्रयस्त्रिंशत्कोटिदैवेः पूज्यसे सिद्धसाधकैः ॥ २३ ॥
॥ क उवाच ॥
इति तद्वचनं श्रुत्वा शिवो वचनब्रवीत् ।
॥ शिव उवाच ॥
सम्यक् पृष्टं त्वया देवि तुष्टो वाक्येन ते नऽघे ॥ २४ ॥
शृणुष्वाऽवहिता देवि विस्तरेण ब्रवीमि ते ।
अद्यापि न कथं ज्ञातो यं ध्यायामि सुरेश्वरि ॥ २५ ॥
तत्स्वरूपं निरुपिष्ये तव प्रीतिचिकीर्षया ॥
लोकानामुपकाराय संसारोत्तारणाय च ॥ २६ ॥
यो देवः सर्वभूतेषु गूढश्चरति विश्वकृत् ।
योऽनन्तशीर्षानन्तश्रीरनन्तचरणः स्वराट् ॥ २७ ॥
अनन्तश्रुतिनेत्रश्चानन्तनामा गुणातिगः ।
अनन्तरूपी यो देवो वेदकर्ताऽखिलार्थदः ॥ २८ ॥
योऽनन्तशक्तिर्विश्वात्माऽनुपमेयः पुरातनः ।
नोपमा शेषचन्द्राब्धिव्योम्नां नारायणस्य च ॥ २९ ॥
भारतस्य च वेदस्य व्यासस्य च मुनेरपि ।
यतो जीवा अनन्ताश्च जायन्तेऽम्बुमुचो यथा ॥ ३० ॥
जलधारा यथाऽग्नेर्वा विस्फुलिङ्गा भवन्ति हि ।
ब्रह्माविष्णुशिवादीनां गुणत्रयप्रदः प्रभुः ॥ ३१ ॥
सृष्टिपालनसंहारानाज्ञापयत तैरिह ।
ततो गुणविभागेन गुणेश इति पप्रथे ॥ ३२ ॥
तमिमं परमात्मानं परात्पतरं विभुम् ।
गुणेशमनिशं ध्याये परब्रह्मस्वरूपिणम् ॥ ३३ ॥
॥ गौर्युवाच ॥
तुष्टाऽहं तव वाक्येन प्रत्ययो मे कथं भवेत् ।
तं गुणेशं कथं साक्षात्करोमि च भजामि च ॥ ३४ ॥
तमुपायं वद विभो यदि तुष्टोऽसि शङ्कर ।
॥ क उवाच ॥
इति तस्या वचः श्रुत्वा पुनरूचे महेश्वरः ॥ ३५ ॥
॥ शिव उवाच ॥
एकनिष्ठतया यावत् तपसाराधितो न ते ।
तावत्प्रत्यक्षतां देवि कथं यास्यति स प्रभुः ॥ ३६ ॥
॥ देव्युवाच ॥
कथं मया तपः कार्यं केनोपायेन वा विभो ।
यदि तुष्टोऽसि देवेश वद सत्यं ममानघ ॥ ३७ ॥
॥ क उवाच ॥
एवं तदादरं बुध्वा प्रोवाच गिरिजां हरः ।
येन तस्या भवेत्प्रीतो गुणेशो गुणवल्लभः ॥ ३८ ॥
एकाक्षरमनुं तस्यै ददौ सम्यग्घरस्तदा ।
द्वादशाब्दं कुरु तपस्ततस्तुष्टो भवेद्विभुः ॥ ३९ ॥
साक्षात्कारं गुणेशस्ते प्रदास्यति न संशयः ।
तदैव सा नमस्कृत्य गिरीशं हृष्टमानसा ॥ ४० ॥
जगाम तपसे गौरी मन्त्रध्यानपरायणा ।
जीर्णापुरादुत्तरे तु लेखनादि मनोहरम् ॥ ४१ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे गौरीमन्त्रप्रदानं नाम
एकोनाशीतितमोऽध्यायः ॥ ७९ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें