श्रीगणेशपुराणे क्रीडाखण्डे अष्टसप्ततितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे अष्टसप्ततितमोऽध्यायः
सुरर्धिवरप्रदानं

॥ क उवाच ॥

सर्वे निगृहिता देवाः सिन्धुना प्रभविष्णुना ।
तस्यैव च वधोपायं चिन्तयामासुरुत्सुकाः ॥ १ ॥
॥ हरिरुवाच ॥
सर्वेषां सम्मतं ज्ञात्वा कर्तव्यः कार्यनिश्चयः ।
तस्मात् सर्वे ब्रुवन्त्वद्य मतं यस्य यथा भवेत् ॥ २ ॥


॥ क उवाच ॥
इति शक्रवचः श्रुत्वाऽबुवन् ब्रह्मादयः सुराः ।
ईश्वरः सर्वकर्ताऽस्ति स कल्याणं करिष्यति ॥ ३ ॥
स येन तुष्यते देवः स उपायो विधीयताम् ।
स एनं परिभूत्वैव नः पदानि प्रदास्यति ॥ ४ ॥
ततो वक्तृप्रधानोऽसौ बृहस्पतिरभाषत ।
स्वल्पया पूजया सद्यः प्रसन्नो जायते विभुः ॥ ५ ॥
चराचरगुरुः सद्यः सर्वैः प्रार्थ्योऽसुरान्तकः ।
॥ देवा ऊचुः ॥
को देवः प्रार्थनीयस्ते मतो वाचस्पते वद ॥ ६ ॥
तस्य तुष्टिं करिष्यामः स्वपदप्राप्तयेऽखिलाः ।
॥ गुरुरुवाच ॥
सृजते पाति यो विश्वं हन्ति रूपत्रयात्मकः ॥ ७ ॥
अबीजो बीजभूतश्चाशेषवाचामगोचरः ।
नित्यो ब्रह्ममयो ज्योतिः स्वरूपः शास्त्रगोचरः ॥ ८ ॥
अनादिमध्यनिधनो निर्गुणो यो निरामयः ।
बहुरूपैकरूपश्च यस्य नामाखिला जनाः ॥ ९ ॥
गृहीत्वा सर्वकार्येषु सिद्धिं यान्ति निजेप्सिताम् ।
सङ्कष्टं हरते भक्त्या पूजितः स विनायकः ॥ १० ॥
आराधयन्तु सर्वे तं स वः सिद्धिं विधास्यति ।
माघस्य कृष्णपक्षोऽयं सम्प्रवृत्तोऽधुना सुराः ॥ ११ ॥
चतुर्थी भौमयुक्ताऽस्य प्रिया विघ्नहरस्य ह ।
स एव प्रकटीभूय दास्यते स्वम्पदानि वः ॥ १२ ॥
सिन्धुं स सन्निहत्यैव नात्र कार्या विचारणा ।
यद् यत् कामयते यो यस्तत् तत्सर्वं प्रदास्यति ॥ १३ ॥
॥ देवा ऊचुः ॥
सम्यगुक्तं गुरोवाक्ये येन तृप्तावयं मुने ।
महास्रोतोवहान्नस्त्वं कर्णधारोऽसिसाम्प्रतम् ॥ १४ ॥
॥ कः उवाच ॥
नतस्ते शक्रवरुणकुबेरमधुसूदनाः ।
गुरुभौमशशीनाश्च यमाग्न्यनिलकादयः ॥ १५ ॥
पञ्चामृतं गन्धमाल्यं शमीदूर्वाश्च पल्लवान् ।
फलान्यरण्यजातानि विविधानि च मृत्तिकाः ॥ १६ ॥
अशर्कराः समादाय गण्डकीं तां नदीं ययुः ।
मण्डपं विपुलं कृत्वा भङ्क्त्वा वृक्षाननेकशः ॥ १७ ॥
लताभिः कदलीस्तम्भैः सुच्छायं च सुशीतलम् ।
स्नात्वा नित्यक्रियाः कृत्वा मूर्तींश्चक्रुः सुशोभना ॥ १८ ॥
सिंहारूढा दशभुजा दशायुधविराजिताः ।
वैनायकीः करिकरा नानाभूषाविराजिताः ॥ १९ ॥
सिद्धिबुद्धियुताः पार्श्वे किरीटकुण्डलोज्वलाः ।
पीतवस्त्रपरीधानाः सर्पभूषाविराजिताः ॥ २० ॥
तस्मिन्मण्डपमध्ये ताः स्थापयित्वा यथाविधि ।
पुपूजुः परया भक्त्या षोडशैरुपचारकैः ॥ २१ ॥
पञ्चामृतैः शुद्धजलैर्वस्त्रगन्धादिदीपकैः ।
नैवेद्यैर्विविधश्चैव फलैरारार्तिकः शुभैः ॥ २२ ॥
एवं सम्पूज्य ते मन्त्रं जेपुः सवितृतुष्टये ।
अस्तं याते सवितरि सन्ध्यां कृत्वाऽस्तुवन्विभुम् ॥ २३ ॥
॥ देव कृत मयूरेश्वर संकष्टहरस्तोत्र ॥
॥ सर्वे ऊचुः ॥
दीननाथ दयासिन्धो योगिहृत्पद्मसंस्थित ।
अनादिमध्यरहितस्वरूपाय नमो नमः ॥ २४ ॥
जगद्भास चिदाभास ज्ञानगम्य नमो नमः ।
मुनिमानसविष्टाय नमो दैत्यविघातिने ॥ २५ ॥
त्रिलोकेश गुणातीत गुणक्षोभ नभो नमः ।
त्रैलोक्यपालन विभो विश्वव्यापिन् नमो नमः ॥ २६ ॥
मायातीताय भक्तानां कामपूराय ते नमः ।
सोमसूर्याग्निनेत्राय नमो विश्वम्भराय ते ॥ २७ ॥
अमेयशक्तये तुभ्यं नमस्ते चन्द्रमौलये ।
चन्द्रगौराय शुद्धाय शुद्धज्ञानकृते नमः ॥ २८ ॥
॥ क उवाच ॥
एवं स्तुवत्सु देवेषु तेजोराशिरभूत्पुरः ।
सर्वे हतदृशो देवा विस्मिता अभवँस्तदा ॥ २९ ॥
ततस्तत्कृपया देवः सौम्यतेजा अजायत ।
ततस्ते ददृशुर्दैवं सिंहारूढं विनायकम् ॥ ३० ॥
दशायुधधरं तावद्भुजं दिव्यकिरीटिनम् ।
नानाभूषाभिरामं च मुक्तादामविभूषितम् ॥ ३१ ॥
दिव्यगन्धानुलेपाढ्यं व्यालबद्धोदरं विभुम् ।
क्षुद्रघण्टाक्वणत्पादं कस्तूरीतिलकोज्ज्वलम् ॥ ३२ ॥
एवं दृष्ट्वा सुरा देवं नमस्कृत्योचिरे तदा ॥
यश्चिन्तितो गुरोर्वाक्यात् स एवायं विनायकः ॥ ३३ ॥
स एव दृष्टः साक्षात् तु वाङ्मनोऽगोचरो विभुः ।
जन्म धन्यं दृशिर्धन्या तपोदानं च नः सुराः ॥ ३४ ॥
तत ऊचे सुरान् देवस्तृप्तोऽहं भवतां स्तवैः ॥
पूजया चैव भक्त्या च सङ्कष्टीव्रततोऽपि च ॥ ३५ ॥
सङ्कष्टहरमेतच्च स्तोत्रं ख्यातं भविष्यति ।
यः पठेत्प्रयतो नित्यं स मे मान्यो भवेत्सुराः ॥ ३६ ॥
तस्य दर्शनतः सर्वे नश्येयुर्यक्षराक्षसाः ।
भोगान्भुनक्ति विविधानन्ते मोक्षपदं लभेत् ॥ ३७ ॥
श‍ृण्वन्तु मे पुनर्वाक्यं सिन्धुदैत्येन पीडिताः ।
शरणं मे प्रपन्नाश्च यज्ञवेदाविवर्जिताः ॥ ३८ ॥
निरुद्धा गण्डकीदेशे स्वधास्वाहाविवर्जिताः ।
ततो ह्यस्य वधं कर्तुमवतारान्तरं मम ॥ ३९ ॥
गिरिजाया गृहे देवा भविष्यामि च साम्प्रतम् ।
मयूरेश्वरनाम्नाऽहं ख्यातिं यास्ये तदा च वः ॥ ४० ॥
पदानामाश्रमाणां च प्राप्तिः सिन्धौ हते मया ।
भविष्यति न सन्देह यतः कृतयुगे सुराः ॥ ४१ ॥
सिंहारूढो दशभुजस्तेजोरूपी विनायकः ।
षड्भुजः शशिवर्णश्च त्रेतायां बर्हिवाहनः ॥ ४२ ॥
मयूरेश्वरनामा च द्वापरे रक्तवर्णवान् ।
चतुर्बाहुराखुवाहो भूत्वा चाहं गजाननः ॥ ४३ ॥
ततः कलियुगे प्राप्ते श्यामवर्णो दृषन्मयः ।
धूमकेतुरिति ख्यातो भविष्यामि सुरा अहम् ॥ ४४ ॥
शीघ्रमेव करिष्यामि भवतां वाञ्छितं सुराः ।
॥ क उवाच ॥
एवं निवेद्य तान् देवस्तत्रैवाऽन्तर्दधे विभुः ॥ ४५ ॥
आनन्दं च सुरा प्रापुः स्वकार्य कृतनिश्चयाः ।
य इदं परमाख्यानं शृणुयाच्छ्रावयेच्च यः ॥ ४६ ॥
पठेच्च परया भक्त्या ध्यात्वा देवं विनायकम् ।
सर्वान् कामानवाप्नोति प्रेत्य ब्रह्ममयो भवेत् ॥ ४७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे सुरर्द्धिवरप्रदानं नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-78

कोई टिप्पणी नहीं:

123