श्रीगणेशपुराणे क्रीडाखण्डे द्विसप्ततितमोऽध्यायः
विनायकचरित्रकथनं
॥ क उवाच ॥
पूर्वमेव च दूतेन कथितोऽसौ विनायकः ।
अदित्यै काशिराजेन रथस्थेन सहागतः ॥ १ ॥
ततः सा तद्वियोगेन धावमाना ययौ पुरः ।
औत्सुक्यत्वरिता वेद नाञ्चलं पतितं स्वकम् ॥ २ ॥
दृष्ट्वा तां मुनिपुत्रोऽपि रथात्प्रस्कन्द्य सत्वरः ।
आययौ मातुरभ्याशमालिलिङ्ग च तां मुदा ॥ ३ ॥
आनन्दाश्रु मुमोचासौ सोऽपि बाष्पं चिरागतः ।
मुहूर्तमेकभावं तौ प्रापतुः पयसी इव ॥ ४ ॥
ददौ स्नेहात्स्वस्थचित्ता स्तनपानं मुदाऽदितिः ।
प्रमृज्य नेत्रे प्रोवाच श्रान्तोऽसि बहुवासरम् ॥ ५ ॥
ततो ननाम तां राजा जगौ गद्गदभाषया ।
॥ राजोवाच ॥
नीत्वा विनायकं देवं यातास्तु बहुवासराः ॥ ६ ॥
अतो न मातः कोपं त्वं मयि कर्तुमिहार्हसि ।
वियोगमपि सोढुं च न शक्तोऽहं मुनिप्रिये ॥ ७ ॥
न तृप्तिरस्ति पीयूषे नौदासिन्यं निधावपि ।
दिने दिने नवप्रेम वर्धयत्येष नो गृहे ॥ ८ ॥
उत्पाता बहवोऽनेन पुरे नो विनिवारिताः ।
असङ्ख्याता हता दैत्या देवाश्च मुदमापिताः ॥ ९ ॥
बहुला च कृता कीर्तिः स्थापिता धर्मसेतवः ।
पौरुषं च तथाऽनेन कृतं नेन्द्रादिभिः कृतम् ॥ १० ॥
॥ क उवाच ॥
एवं स सर्ववृत्तान्तं कथयामास सादरम् ।
ततोऽदितिस्तु दध्यन्नं भ्रामयित्वाऽत्यजद् बहिः ॥ ११ ॥
दुष्टदृष्टिनिपातस्य शान्तये बालकोपरि ।
ततो बालं स नृपतिं निनायाश्रममण्डलम् ॥ १२ ॥
कश्यपो हि बहिर्यातो दृष्ट्वा पुत्रं स भूपतिम् ।
तौ तं च नेमतुर्भक्त्या बद्धाञ्जलिपुटावुभौ ॥ १३ ॥
आलिलिङ्ग मुनिस्तौ च मूर्ध्न्याघ्राय मुदा तदा ।
उवाच रुद्धकण्ठोऽसावङ्के कृत्वा विनायकम् ॥ १४ ॥
काशिराज नोचितं ते बालं नीत्वा विलम्बनम् ।
शीघ्रमेवानयिष्येऽहमित्युक्त्वा नीतवान्कथम् ॥ १५ ॥
वियोगेनास्य तप्तानामङ्गानां मेऽधुना नृप ।
जाता शीतलता पुण्याद् दर्शनादस्य साम्प्रतम् ॥ १६ ॥
॥ क उवाच ॥
तत ऊचे काशिराजो निपीय मुनिभाषितम् ।
उपविश्यासने रम्ये प्राप्यानुज्ञां मुनेनृपः ॥ १७ ॥
॥ नृप उवाच ॥
अस्यैव मायया जाता सत्यता मे मुनीश्वर ।
मद्गृहं देव देवेन स्वकीयमिति निश्चितम् ॥ १८ ॥
अवाप्तकामो देवोऽयं स्वकामवशगो मुने ।
सम्पाद्य मम पुत्रस्य विवाहं समुपागतः ॥ १९ ॥
॥ क उवाच ॥
तस्य दैत्यवधादीनि कर्माण्यस्मै न्यवेदयत् ।
ततो जहर्षतुरुभौ मुनिपत्नी मुनिश्च सः ।
ज्ञात्वा पराक्रमं तस्य स्वपुत्रस्य गुणान्बहून् ॥ २० ॥
ततस्ते भोजनं चक्रुः षड्रसान्नेन सादरम् ।
दत्त्वाशीर्वचनं तस्मै विससर्ज नृपं मुनिः ॥ २१ ॥
सोऽपि तान्प्रणनामाथ प्रादक्षिण्येन निर्ययौ ।
प्राप्यानुज्ञां नेत्रयुग्मान् मुञ्चन्नश्रु सुदुःखितः ॥ २२ ॥
स्मरन् गुणगणं तस्य स्नेहनिर्भरमानसः ।
शीघ्रं प्रयातो नगरं वाद्यघोषसमन्वितः ॥ २३ ॥
सर्वे नागरिका बाला विनायकदिदृक्षवः ।
आगता ददृशुस्तत्र ततो दुःखितमानसाः ॥ २४ ॥
निरीक्ष्य तं काशिराजं ययुः स्वं स्वं निकेतनम् ।
अपरेद्युः सर्वपौराः पप्रच्छुस्तं नृपं मुदा ॥ २५ ॥
यास्य इत्युक्तवान् देवो नागतः स कथं नृप ।
त्वं तु निष्ठुरभावेन त्यक्त्वा तं कथमागतः ॥ २६ ॥
॥ राजोवाच ॥
अत्यन्तं प्रार्थितो देव उक्तवान्मां मुनिप्रियः ।
मन्मूर्तिस्थापनं कृत्वा सेवध्वं सर्व एव माम् ॥ २७ ॥
वियोगो न च सर्वान्तर्यामिणा वः कथञ्चन ।
ततस्ते कारयामासुर्मूर्तिं धातुमयीं शुभाम् ॥ २८ ॥
चतुर्भुजां त्रिनयनां सर्वभूषणभूषिताम् ।
शूर्पकर्णां गजमुखीं सर्वावयवसुन्दराम् ॥ २९ ॥
ढुण्ढिराजेति नाम्ना तां स्थापयामासुरादरात् ।
ऋत्विग्भिर्ब्राह्मणैरन्यैर्वेदशास्त्रविशारदैः ॥ ३० ॥
प्रासादं परमं कृत्वा पुपूजुस्ते दिने दिने ।
येन येनैव कामेन पूजयेद् यो विनायकम् ॥ ३ ॥
तं तं ददाति तस्मै स भक्त्या सम्पूजितो विभुः ।
एवं नानामूर्तिधरो भ्राजते स्म विनायकः ॥ ३२ ॥
विश्वेश्वरे स्वनगरं याते सर्वसुरैः सह ।
दिवोदासे चाविमुक्ते काशिराजे सुखं स्थिते ॥ ३३ ॥
विनायको मुनिं प्राह कश्यपं मातरं च ताम् ।
अहं ते पुत्रतां यातस्तपसाराधितः पुरा ॥ ३४ ॥
भूभारश्च हृतः सम्यक् हतौ दैत्यौ महाबलौ ।
त्रैलोक्यपीडकौ दुष्टौ देवान्तकनरान्तकौ ॥ ३५ ॥
देवाश्च साधवश्चैव रक्षिताः स्थापिताः परे ।
इदानीं तु गमिष्यामि निजलोकं चिरन्तनम् ॥ ३६ ॥
॥ क उवाच ॥
श्रुत्वा वाक्यमुभौ खिन्नौ बाष्पकण्ठौ तमूचतुः ।
कदा ते दर्शनं देव पुनरत्र भविष्यति ॥ ३७ ॥
ततः स मातरं प्राह दर्शनं मे भविष्यति ।
भवान्या मन्दिरे मातः सत्यं मे प्रियभाषितम् ॥ ३८ ॥
एवं श्रुत्वा देववाक्यं पुनर्यावद् वदत्यसौ ।
तावदन्तर्हितो देवस्ततस्तौ खिन्नमानसौ ॥ ३९ ॥
कारयामासातुर्मूर्तिं प्रासादं चातिशोभनम् ।
विनायकेति नामाऽस्य चक्रतुर्भक्तितत्परौ ॥ ४० ॥
तस्यां मूर्तौ ध्यातमात्रो नित्यं दर्शयते विभुः ।
स्वात्मानं सर्वगं नानारूपिणं स विनायकः ॥ ४१ ॥
॥ गृत्समद उवाच ॥
एवं कीर्ते समाख्यातं चरितं ते मया शुभम् ।
विनायकस्य देवस्य श्रवणात्सर्व सिद्धिदम् ॥ ४२ ॥
धन्यं यशस्यमायुष्यं सर्वोपद्रवनाशनम् ।
सर्वकामप्रदं सर्वपापसञ्चयनाशनम् ॥ ४३ ॥
पुनस्ते कथयिष्यामि सिन्धुदैत्यवधाय सः ।
अवतीर्णः शिवगृहे मयूरेश्वरसंज्ञितः ॥ ४४ ॥
बाल्यात्प्रभृत्यद्भुतानि नानाकर्माणि योऽकरोत् ॥ ४५ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकचरित्रकथनं नाम द्विसप्ततितमोऽध्यायः ॥ ७२
॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें