श्रीगणेशपुराणे क्रीडाखण्डे सप्तसप्ततितमोऽध्यायः
सिन्धुदुःशासनवर्णनं
॥ क उवाच ॥
इति तद्वचनं श्रुत्वा क्रोधाद् वह्निकणान्वमन् ।
यथा सिंहो गजानीकं याति तद्वद् ययौ सुरान् ॥ १ ॥
सिन्धुर्मुष्टिप्रहारेण जघान बलसूदनम् ।
पपात स धरापृष्ठे वाताहत इव द्रुमः ॥ २ ॥
भालदेशे कुबेरं च हनौ च वरुणं यमम् ।
पृष्ठ देशे जघानासौ चक्राघातेन दैत्यराट् ॥ ३ ॥
तालुदेशे पावकं च मन्मथं लत्तयाऽहनत् ।
अनिलं पादघातेन शनैश्चरमपोथयत् ॥ ४ ॥
सोमं भौमं भ्रामयित्वा तत्याज भूतले बलात् ।
पृष्ठभागेऽहनच्चैव सनकं च सनन्दनम् ॥ ५ ॥
नासत्यौ नारदश्चापि कुत्रापि च पलायिताः ।
ततः पलायिताः सर्वे दृष्ट्वा वीर्यं सुरास्तदा ॥ ६ ॥
पतिता मूर्च्छिताः केचिद्दैत्यश्चक्रेण माधवम् ।
मुष्टिदेशे जघानासौ चक्रं तस्यापतद्भुवि ॥ ७ ॥
माधवो गदया मूर्ध्नि दैत्येशं तमताडयत् ।
वञ्चयित्वा च शतधा गदां स्वां च व्यचिक्षिपत् ॥ ८ ॥
ज्ञात्वा पराक्रमं तस्य प्रोचे तं मधुसूदनः ।
वरयस्व वरं दैत्य यत्ते मनसि वर्तते ॥ ९ ॥
नेतादृशो मयाऽदर्शि पुरुषार्थोऽसुरे क्वचित् ।
ततोऽब्रवीद्देत्यपतिः परमाह्लादसंयुतः ॥ १० ॥
यदितुष्टोऽसि देवेश यदि देयो वरो मम ।
गण्डकी नगरे मे त्वं परिवारयुतो हरे ॥ ११ ॥
सर्वकालं वस विभो नान्यं याचे वरं परम् ।
तत ऊचे महाविष्णुः स्थास्यामिनगरे तव ॥ १२ ॥
दत्तो वरो यतो नूनं ततोऽस्मि वशगस्तव ।
ततः स सत्य लोके च कैलासे वैष्णवे पदे ॥ १३ ॥
आस्थापयद् दैत्यपतीन् स्वयं शाक्रे पदेऽवसत् ।
तत्राप्यन्यं स्थापयित्वा रमापतियुतः स्वयम् ॥ १४ ॥
वाद्यदुन्दुभिनिर्घोषैः स्वपुरीं गण्डकीं ययौ ।
नुवन्ति बन्दिनस्तं तु नेदृशोऽभूत्पुमान्क्वचित् ॥ १५ ॥
येन विष्णुर्गृहं स्वीयं जित्वाऽनायि सुरान्बहून् ।
ददृशुर्नागरास्तस्य समीपे वरुणं हरिम् ॥ १६ ॥
कुबेरं देवमुख्यांश्च ततः स्वभवनं ययुः ।
ततः प्रोचे हरिं दैत्यो गण्डकीनगरे सुखम् ॥ १७ ॥
विहरस्वामरैः सार्द्धं ततः सोऽपि तथाऽकरोत् ।
परितो दूरतो दैत्यो दैत्यानन्यान् न्यवेशयत् ॥ १८ ॥
ततो देवा हरिं प्रोचुः किं कृतं गरुडध्वज ।
त्यक्त्वा स्वविक्रमं किन्त्वं स्थितोऽत्यानन्दनिर्भरः ॥ १९ ॥
कथं कारागृहे प्राप्ता मृत्युलोकं गताः कथम् ।
कथमन्तो भवेदस्य भोगस्य जगदीश्वर ॥ २० ॥
तत ऊचे हरिः सर्वान् कालो हि दुरतिक्रमः ।
कालेन जायते सर्वं ह्रसते वर्धतेऽपि वा ॥ २१ ॥
तस्मात्कालं प्रतीक्षध्वं काल एनं ग्रसिष्यति ।
एवं जित्वा त्रिलोकीं स महाबलपराक्रमः ॥ २२ ॥
ततो दैत्यो जगौ सर्वं वृत्तान्तं पितरौ मुदा ।
आशिषं ददतुस्तौ च ज्ञात्वा पौरुषमस्य ह ॥ २३ ॥
ततो दैत्यो दुष्टमतिर्भूतले समघोषयत् ।
देवद्विजगवामर्चा क्रियते येन केनचित् ॥ २४ ॥
स हन्तव्योऽथवा साधुरानेयो मम सन्निधौ ।
प्रतिमा यत्र यत्र स्यात् तां भङ्क्त्वा निक्षिपेज्जले ॥ २५ ॥
ममैव प्रतिमां कृत्वा पूजयन्तु गृहे गृहे ।
प्राबोधयन् सिन्धुवचो दूता एवं स्थले स्थले ॥ २६ ॥
भङ्क्त्वा प्रासादमूर्तीश्च तोऽयेगाधे च चिक्षिपुः ।
सिन्धोश्च प्रतिमां कृत्वाऽस्थापयन् परमादरात् ॥ २७ ॥
पूजार्थं राक्षसाश्चापि ततो याता निजं पतिम् ।
ऊचुर्वैनायकहरहरिभानुरमादिकाः ॥ २८ ॥
प्रतिमाः प्रविभज्याशु क्षिप्ताः सर्वा महाजले ।
तवैव प्रतिमास्तत्र स्थापिता राक्षसा अपि ॥ २९ ॥
पूजार्थं स्थापिताः स्वामिन् आगताश्च तवान्तिकम् ।
एवं धर्मस्य सर्वस्य विच्छित्तिः समजायत ॥ ३० ॥
यज्ञदानस्वधास्वाहावषट्कारान् चाकरोत् ॥
देवद्विजगुरुणाञ्च पूजनं क्वापि नाऽभवत् ॥ ३१ ॥
मेरु याता ऋषिगणाः केचिद् भ्रंशमुपागताः ।
एवं त्रैलोक्यप्रबला दैत्या जाताश्च राक्षसाः ॥ ३२ ॥
विलीना निधनं प्राप्ताः साधवो देवतागणाः ।
यथा देवगणा मोक्षं सिन्धोः प्राप्ताः शृणुष्व तत् ॥ ३३ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धुदुःशासनवर्णनं
नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें