श्रीगणेशपुराणे क्रीडाखण्डे चतुःसप्ततितमोऽध्यायः
॥ क उवाच ॥
त्यक्ते गर्भे तया सिन्धौ बालोऽजनि महाबलः ।
तेजस्वी विकरालास्यो दीर्घभालस्त्रिलोचनः ॥ १ ॥
रक्तकेशजटाभारश्चक्रपाणिस्त्रिशूलभृत् ।
बालशब्देन तस्याथ च कम्पे भुवनत्रयम् ॥ २ ॥
आजानुबाहुराकान्तुमियेष विष्टपत्रयम् ।
चुक्षुभे सागरस्तेन यादोभिर्मुनिसत्तम ॥ ३ ॥
तत्र स्थितस्तु बालोऽसौ समुद्रमुपशोषयत् ।
॥ समुद्र उवाच ॥
जीवनाय मम सुतं नेष्य एनं नृपालयम् ॥ ४ ॥
॥ क उवाच ॥
इत्यानिनाय तं बालं समुद्रो नृपमन्दिरम् ।
तव पत्न्याऽत्याजि गर्भो दुःसहत्वान्ममोदरे ॥ ५ ॥
दम्पत्योः पुरतः स्थाप्य प्रोच एवं द्विजस्तदा ।
उग्रो बालस्ततो जातोऽखिललोकभयङ्करः ॥ ६ ॥
यस्य प्रथमशब्देन कम्पितं भुवनत्रयम् ।
नेत्राभ्यां नेक्षितुं शक्योऽत एवैनमुपानयम् ॥ ७ ॥
इत्युक्त्वा बालकं मुक्त्वाऽन्तर्दधे सागरस्तदा ।
तत एनं कराभ्यां सा कटौ दध्रे नृपाङ्गना ॥ ८ ॥
स्थापयित्वा ददौ प्रेम्णा स्तनपानं मुदान्विता ।
उभावानन्दयुक्तौ तौ दम्पती पुत्रदर्शनात् ॥ ९ ॥
यथा चिरं योगनिष्ठो लब्ध्वा ब्रह्मामृतं परम् ।
तत आकारयामास ब्राह्मणान्सुहृदोऽपि च ॥ १० ॥
ज्योतिर्विद्भिर्विचार्यास्य सिन्धुरित्यभिधां शुभाम् ।
राज्ञी चक्रे नृपश्चास्य जातकर्म यथाविधि ॥ ११ ॥
कृत्वा ददौ ततो दानमनेकं हर्षनिर्भरः ।
अनेकेभ्यो द्विजातिभ्यो वस्त्राणि विविधानि च ॥ १२ ॥
दापयामास नगरे पताकाभिरलङ्कृते ।
वाद्यत्सु सर्ववाद्येषु शर्करां च गृहे गृहे ॥ १३ ॥
गतेषु सर्वलोकेषु रक्ताङ्ग इति नाम च ।
चक्रतुर्दम्पती स्नेहादथामात्यौ समूचतुः ॥ १४ ॥
उग्रायास्तनयश्चायमुग्रमुद्राधरोऽपि च ।
अयमुग्रेक्षण इति नाम्ना ख्यातो भविष्यति ॥ १५ ॥
विप्रप्रसादन इति पौरा नाम प्रचक्रिरे ।
ततः सर्वे पौरजना उपदा विविधास्तदा ॥ १६ ॥
ददुर्नृपाय सोऽप्येतान् दापयामास तत्क्षणात् ।
ववृधे बालकः सोऽथ शुक्लपक्षे यथा शशी ॥ १७ ॥
यथाऽग्निर्वायुवेगेन वर्धते क्षणमात्रतः ।
तथा स्वतेजसा बालः प्रवृद्धो गगनं स्पृशन् ॥ १८ ॥
क्रीडन्नेव सदा बालो वृक्षान् गृहगतान्बहून् ।
उत्पाट्य पातयामास वामहस्ततलेन ह ॥ १९ ॥
अरण्ये क्रीडता तेन पर्वताश्चूर्णिता द्रुमाः ।
उड्डीय चन्द्रहरिणं क्षणं जग्राह कार्हिचित ॥ २० ॥
जलावतारमार्गे तु रुद्धे क्वापि करेणुना ।
मुष्टिघातेन बिभिदे गण्डमस्याः पपात सः ॥ २१ ॥
एवं तस्याद्भुतं कर्म दृष्ट्वा लोका विसिस्मिरे ।
जहर्ष जननी चास्य पिता ज्ञात्वाऽतिमानुषम् ॥ २२ ॥
एवं प्रवृद्धो बालोऽसौ सिन्धुनामा महाबलः ।
उवाच पितरं यास्ये तपस्तप्तुमहं नृप ॥ २३ ॥
अनुष्ठित्या स्वर्गलोकं भूलोकं च रसातलम् ।
आक्रमिष्ये वृथायुर्मे गच्छतीति मतिर्मम ॥ २४ ॥
एवमाकर्ण्य तद्वाक्यमूचतुः पितरौ च तम् ।
उत्कर्षं स्वस्य पुत्रस्य नित्यं प्रार्थयते पिता ॥ २५ ॥
जननी सर्वदेवेभ्यो व्रतदानादिनापि च ।
एवमाज्ञामवाप्यैव नत्वा तौ स ययौ वनम् ॥ २६ ॥
तत्र भ्रमन् ददर्शाथ कासारं जलजैर्युतम् ।
तत्र स्थातुं मनश्चक्रे विविक्तमिति हर्षितः ॥ २७ ॥
एकाङ्गुष्ठेन भूमिष्ठ ऊर्ध्वबाहू रविं स्मरन् ।
शुक्रोपदिष्टं तं मन्त्रं जपन् पर्वतनिश्चलः ॥ २८ ॥
दक्षिणे जानुनि सदा वामपादं निधाय च ।
अञ्जलिं हृदि विन्यस्य ध्यायन् दिनमणिं तदा ॥ २९ ॥
शीतवातातपजलवृष्टीनां सहनो दृढः ।
वायुमात्राशनस्तस्थौ वल्मीकाक्रान्तविग्रहः ॥ ३० ॥
अस्थिमात्रावशिष्टोऽपि जपत्येव महामनुम् ।
एवं तस्य व्यतीताय शरदां द्विसहस्रकम् ॥ ३१ ॥
तस्य सिन्धोः शरीरोत्थास्तेपुर्भासो रविं तदा ।
एवमुग्रं ततो दृष्ट्वा प्रत्यक्षोऽभूद् दिवाकरः ॥ ३२ ॥
उवाच परमप्रीतोऽनुष्ठानेन तवाधुना ।
वरं वरय चित्तस्थं दास्यामि जीवितावधि ॥ ३३ ॥
सिन्धुस्तदाकर्ण्य वचो भाषितं भानुना स्वयम् ।
देहभावं गतौऽपश्यत् पुरतो भास्करं प्रभुम् ॥ ३४ ॥
नत्वा तत्पादकमलं बद्धाञ्जलिपुटोऽब्रवीत् ।
नमस्ते दीननाथाय नमस्ते सर्वसाक्षिणे ॥ ३५ ॥
नमस्ते त्रिदशेशाय ब्रह्मविष्णुशिवात्मने ।
नमस्ते विश्ववन्द्याय नमस्ते विश्वहेतवे ॥ ३६ ॥
नमस्ते वृष्टिबीजाय सस्योत्पादनहेतवे ।
परब्रह्मस्वरूपाय सृष्टिस्थित्यन्तहेतवे ॥ ३७ ॥
गुणातीताय गुरवे गुणक्षोभविधायिने ।
सर्वज्ञाय ज्ञानदात्रे सर्वस्य पतये नमः ॥ ३८ ॥
धन्यं मे जन्म देवेश वंशो मे जनकोऽपि च ।
जननी च तपश्चापि यज्जातं तव दर्शनम् ॥ ३९ ॥
वरदश्चेद्दिनेश त्वं देदि मे सर्वतोऽमृतिम् ।
तव प्रसादात् सङ्ग्रामे जयेयं सर्वदेवताः ॥ ४० ॥
वर्तमानाद् देवगणान्न मे मृत्युर्भवेदिति ।
एवं तस्य वरान् श्रुत्वा परितुष्टो विभावसुः ।
उवाच निजभक्तं तमनुष्ठानभृशं कृशम् ॥ ४१ ॥
॥ सूर्य उवाच ॥
न भयं विद्यते देवयोनिभ्यो नृभ्य एव च ।
न तिर्यग्भ्यो न नागेभ्यो न दिवा न निशि क्वचित् ॥ ४२ ॥
नोषःकाले न सन्ध्यायां मम वाक्याद्भविष्यति ।
मरणं ते नृपसुत गृहाणामृतभाजनम् ॥ ४३ ॥
इदं यावत्कण्ठगतं तावन्मृत्युर्न ते भवेत् ।
निष्काशयेदिदं यस्ते तस्मान्मृत्युर्भविष्यति ॥ ४४ ॥
देवो योऽवतरेत्कोऽपि धुन्वन् केशाग्रतो दिवम् ।
यस्याङ्गुष्ठनखाग्रे स्युर्ब्रह्माण्डानां हि कोटयः ॥ ४५ ॥
स त्वां हनिष्यति विभुरन्यस्मादभयं तव ॥ ४६ ॥
मद्वरस्य प्रसादेन सर्वं तृणमयं तव ।
त्रैलोक्यराज्यं ते दत्तं नात्र कार्या विचारणा ॥ ४७ ॥
॥ क उवाच ॥
एवं नानावरान् दत्त्वाऽन्तर्दधे सविता तदा ।
सोऽप्यानन्दसमायुक्तो जगाम निजमन्दिरम् ॥ ४८ ॥
जननी च पिता तस्य मूर्ध्न्याघ्रायापतुर्मुदम् ।
ऊचतुस्तं तदा पुत्रं विरहात्तेऽन्नवर्जितौ ॥ ४९ ॥
चिन्तया कृशतां यातौ पश्य पुत्रदशामिमाम् ।
तयोः पादौ प्रणम्याह स पुत्रो हर्षनिर्भरः ॥ ५० ॥
प्रसन्नः सविता मह्यं त्रैलोक्यस्वामितामदात् ।
साधयिष्ये तद्वरात् तां न चिन्तां कर्तुमर्हथः ॥ ५१ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे वरप्रदानं नाम
चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें