श्रीगणेशपुराणे क्रीडाखण्डे षड्विंशतितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे षड्विंशतितमोऽध्यायः
भीमराक्षसमोक्षणं

॥ मुनिरुवाच ॥

किं कर्म कृतवान् व्याधः कथं पत्रं समर्पितम् ।
किं नामा स कथं प्राप्तः सालोक्यं तद्वदस्व मे ॥ १ ॥
॥ ब्रह्मोवाच ॥
विदर्भदेशे नगर मदिषाख्यं बभूव ह ।
विख्यातं त्रिषु लोकेषु कुबेरनगरोपमम् ॥ २ ॥


भीमो नामाभवद् व्याधो नगरे मांसविक्रयी ।
परेषां दोषकथने दोषो यद्यपि वर्तते ॥ ३ ॥
प्रश्ने कृते तु वक्तव्यो याथातथ्यान्न मत्सरात् ।
स भीमो दोषबहुलो बाणकोदण्डवान् वने ॥ ४ ॥
शरपूर्णेषुधी खड्गी चापं बिभ्रच्च शस्त्रिकाम् ।
अवधीत् प्राणिनो नित्यं कुटुम्बभरणे रतः ॥ ५ ॥
पथिकान् ब्राह्मणांश्चापि निर्दयो निर्जने वने ।
कदाचिन्नगरे तस्मिन् समारब्धो महोत्सवः ॥ ६ ॥
प्रातरेव वनं यातो बहुमांसजिघृक्षया ।
विक्रयेच्छुर्द्रव्यलुब्धो कुटुम्बस्यापि पोषकः ॥ ७ ॥
जघान मृगयूथाँस्तान्मांसभारयुतः पुरम् ।
यावत्प्रविशते तावदागतो राक्षसो महान् ॥ ८ ॥
मनुष्यगन्धहृष्टोऽसौ ययौ तस्यान्तिकं क्षणात् ।
पिङ्गाक्षो नामतः पिङ्गनेत्रः सर्वभयङ्करः ॥ ९ ॥
मनुष्यश्वापदाशी स दुष्पूर इव हव्यभुक् ।
च कम्पे स च तं दृष्ट्वा व्याधो भूमावथाऽपतत् ॥ १० ॥
पतितानि च शस्त्राणि नेत्रेऽप्याच्छादिते बलात् ।
उन्मील्य नयनेऽपश्यच्छमीवृक्षं समीपतः ॥ ११ ॥
आरुरोह च भीमस्तं राक्षसोऽपि समारुहत् ।
तावच्चिक्षेप शाखांस तत्त्पत्रं वायुनेरितम् ॥ १२ ॥
पपात गणनाथस्य वामनस्थापितस्य ह ।
मस्तके तेन तुष्टोऽसावुभाभ्यां पूजितः स्फुटम् ॥ १३ ॥
वामनाय वरान् दातुं स्फुटो योऽभूद् गजाननः ।
बलिं विजेतुकामाय कश्यपस्यात्मजाय सः ॥ १४ ॥
अत्यन्तं तुष्यते देवो दूर्वया च शमीदलैः ।
रत्नकाञ्चनसंयुक्ता दिव्यवस्त्रसमन्विता ॥ १५ ॥
दुर्वाङ्कुरं विना पूजा निष्फला जायते नृणाम् ।
शमीपत्रेण वा सा स्यात् सफला नान्यथा क्वचित् ॥ १६ ॥
यज्ञदानव्रतैरन्यैस्तपोभिर्नियमैरपि ।
तथा न प्रीयते देवः काञ्चनै रत्नसञ्चयैः ॥ १७ ॥
दूर्वाभिश्च शमीपत्रैर्यथा सुप्रीयते विभुः ।
तयोस्तुष्टो देवदेवोऽप्रेषयद् यानमुत्तमम् ॥ १८ ॥
स्वरूपधारिभिर्युक्तं किङ्करैर्निजलोकतः ।
तेषां निरीक्षणान्नष्टाः पापपर्वत राशयः ॥ १९ ॥
कृपया च गणेशस्य तयो राक्षसभीमयोः ।
यथाग्निकणसम्पर्कान्नश्यन्ते तृणपर्वताः ॥ २० ॥
त्यक्त्वा देहौ दिव्यदेहौ गृहीत्वा यानमास्थितौ ।
दूतैः सम्पूजितौ नानावस्त्रभूषाविलेपनैः ॥ २१ ॥
नानावादित्रनिर्घोषैः स्त्रीगन्धर्वैयुतं महत् ।
नीतौ तौ देवनिकटे नेमतुस्तौ विनायकम् ॥ २२ ॥
अशेषपापनिर्मुक्तो प्रापतुस्तौ सरुपताम् ।
आकल्पं स्थापितौ तेन गणेशेन निजस्थले ॥ २३ ॥
एवं भावप्रियो देवः प्रीयते भक्तिभावतः ।
तथैव मुष्टिमात्रान्नात् सन्तुष्टोऽभूद् द्विजस्य सः ॥ २४ ॥
शुक्लस्य प्रददौ दिव्यमलकासदृशं गृहम् ।
तस्माद् दूर्वा शमीपत्रैर्विना पूजा वृथा भवेत् ॥ २५ ॥
न महत्या दाम्भिकया पूजया प्रीयते तथा ।
यथा भावेन कृतया स्वल्पयाऽसौ गजाननः ॥ २६ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे भीमराक्षसमोक्षणं नाम षड्विंशतितमोऽध्यायः ॥ २६ ॥

  इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-26

कोई टिप्पणी नहीं:

123