श्रीगणेशपुराणे क्रीडाखण्डे
एकविंशतितमोऽध्यायः
बालचरिते राक्षसीवध
॥ ब्रह्मोवाच ॥
शृणु द्विज महाश्चर्यं कथ्यमानं मया तव ।
विनायकस्य चरितं सर्वपापहरं नृणाम् ॥ १ ॥
अम्भासुरस्य यो मूर्धा स गतो निजमन्दिरम् ।
भ्रमरी या निरैक्षिष्ट सखी सा तां न्यबोधयत् ॥ २ ॥
प्रसुप्तां काञ्चने तल्पे सोत्थायाङ्गणमाययौ ।
पौत्रं शिरो निरीक्षैव मूर्च्छिता पतिता भुवि ॥ ३ ॥
निघ्नती निजवक्षः सा कराभ्यां शोकनिर्भरा ।
निपतद्भूषणा खिन्ना नागामृष्टेव पद्मिनी ॥ ४ ॥
विभिन्नवलया छिन्नकूर्पा सा तनुमध्यमा ।
दृश्यादृश्य महद्गात्रा लुण्ठती भुवि विह्वला ॥ ५ ॥
निषिध्यमाना सखिभिर्भ्रातृभिः स्वजनैरपि ।
त्रिमुहूर्तैः प्रबुद्धा सा किञ्चिद् वक्तुं प्रचक्रमे ॥ ६ ॥
उत्थाय च कराभ्यां तु निजघान पुनः शिरः ।
॥ भ्रमर्युवाच ॥
येनेयं पृथिवी सर्व त्रासिता सामरावती ॥ ७ ॥
मूर्ध्नां सहस्रं शेषस्य भ्रूकटाक्षेण कम्पितम् ।
येन राज्येऽभिषिक्तौ तौ देवान्तकनरान्तकौ ॥ ८ ॥
यस्य क्ष्वेडितमात्रेण रोदसी कम्पिता भृशम् ।
स कथं पतितः कुत्र निहतः केन वा सुतः ॥ ९ ॥
यं दृष्ट्वा कम्पितः कालः स कथं निधनं गतः ।
एवमाक्रन्दती दीना विवत्सेव पयस्विनी ॥ १० ॥
एवं विलपतीं तां तु न्यषेधयत् सखीजनः ।
न दृष्ट्वा सखि केनापि मृतेन सह वै मृतिः ॥ ११ ॥
अतिशोकेन शोकोऽन्यः प्राप्यते मूढजन्तुभिः ।
यदि स्नेहेन पुत्रं त्वं शोचसेऽस्य हितं कुरु ॥ १२ ॥
चारान् प्रेषय वृत्तान्तग्रहणायाऽस्य सर्वतः ।
दह्यतां मस्तको मन्त्रैरेवमस्य हितं कुरू ॥ १३ ॥
सुहृदामश्रु पतितं प्रेतस्य तन्मुखे पतेत् ।
दहत्येनं न तत्त्याज्यमित्याहुः परमर्षयः ॥ १४ ॥
एवमाकर्ण्य तद्वाक्यं सोवाच तां सखीं रुषा ।
अयं मूर्ध्ना महाभागे स्थाप्यतां यत्नतः सखि ॥ १५ ॥
आनयिष्येऽदितेः पुत्रमस्तकं सह तेन च ।
दाहयिष्याम्यमुं तस्मात् स्थाप्यतां तैलमध्यगः ॥ १६ ॥
सा राक्षसी राक्षसवर्ययुक्ता समाययौ राजपुरीं निहन्तुम् ।
विनायकं तं निजरूपगोपिनी पतङ्गपत्नीव धनञ्जयान्तिकम् ॥ १७ ॥
आगताऽदितिरूपेण भासयन्ती दिशो दश ।
अति लावण्यनिलया सर्वालङ्कार शोभिनी ॥ १८ ॥
दाडिमी बीजदशना बिम्बोष्ठी तनुमध्यमा ।
विलसत् पद्मनयना मुक्तादामलसत्कुचा ॥ १९ ॥
वीरा मुमुहिरे दृष्ट्वा तादृशीं नृपसद्मगाम् ।
मनसा कामयन्ति स्म यदालिङ्गनचुम्बने ॥ २० ॥
तर्कयामासुरपरे रम्भा किं नु तिलोत्तमा ।
मेनका वा घृताची वा नागी यक्षी शिवा नु किम् ॥ २१ ॥
उर्वशी वा रती राज्ञी कश्यपस्यादितिर्नु किम् ।
ज्ञात्वा तु राजपत्नी तां प्रणनामादितिं मुदा ॥ २२ ॥
पूजयामास सौभाग्यद्रव्यैर्भूषां शुकादिभिः ।
उवाच च सुचार्वङ्गी प्रेमगद्गदया गिरा ॥ २३ ॥
महाभाग्येन दृष्टासि त्वं देवजननी मया ।
विनायक प्रासादेन क्वाऽन्यथा दर्शनं तव ॥ २४ ॥
राज्ञीमेवं ब्रुवन्ती तु साश्रुकण्ठाऽवदद् वचः ।
॥ अदितिरुवाच ॥
मम बालो बहुदिनं स्थापितः कुत्र वर्तते ॥ २५ ॥
अत्युत्कण्ठतया सुभ्रूर्दर्शनार्थमिहागता ।
स्त्रीणां स्वभावं जानासि मायाव्याकुलचेतसाम् ॥ २६ ॥
शोकसन्तप्तगात्राऽहं तमालिङ्गामि चार्भकम् ।
तत्संसर्गसुशीताङ्गी प्राप्स्ये सन्तोषमुत्तमम् ॥ २७ ॥
इति तद्वचनं श्रुत्वा सादरा सा ससम्भ्रमा ।
गवेषितुं तु तं बालं राज्ञी दूतानचोदयत् ॥ २८ ॥
अन्ये चख्युः काशिराजं कश्यपस्त्रियमागताम् ।
स स्नात्वा गृहमागत्य तां दृष्ट्वा हर्षमाप ह ॥ २९ ॥
तां प्रणम्य महाभवत्या प्रोचे बद्धाञ्जलिर्नृपः ।
मे राज्यं जन्म पितरौ धनं दृष्टिः श्रुतं तपः ॥ ३० ॥
दृष्ट्वा शक्तिर्देवमाता जगज्जननकारिणी ।
न शक्तिर्वर्तते सम्यग् वर्णितुं ते गुणान् मम ॥ ३१ ॥
बालो विनायकस्तेऽयं शक्रादधिकविक्रमः ।
अवदानान्यनेकानि कृतानि बहुधाऽसुरैः ॥ ३२ ॥
अशक्यानि मया वक्तुं रक्षसां निधनानि च ।
तस्यापि वर्णितुं नास्ति गुणानां शक्तिरल्पिका ॥ ३३ ॥
विश्राम्यतां क्षणं मातर्मम भाग्यं महत्तरम् ।
यदनेन हता मायाबलमाश्रित्य दानवाः ॥ ३४ ॥
अपरिक्षितेन वपुषा बालस्ते वसते सुखम् ।
त्वं किमर्थमिहायाताऽऽयाता चेत् स्थीयतां क्षणम् ॥ ३५ ॥
निवृत्तेऽस्मिन् विवाहे तु प्रापयिष्ये उभावपि ।
॥ सोवाच ॥
किमिदं भाषसे राजन् वियोगादस्य मेऽभवत् ॥ ३६ ॥
महान् खेदो न च सुखं लेभे क्वापीह किञ्चन ।
॥ ब्रह्मोवाच ॥
एवं वदत्यां तस्यां स आगतोऽसौ विनायकः ॥ ३७ ॥
प्रेषितो बालकैः सर्वैरागता जननी तव ।
सा लिलिङ्ग ततो बालमश्रुपूर्णा मुदा जगौ ॥ ३८ ॥
चिरकालं स्थितोऽस्यत्र मां विहायातिनिष्ठुर ।
त्वद्वियोगेन सन्तप्ताऽऽगता सर्वं विहाय च ॥ ३९ ॥
जीविताशां परित्यज्य त्वदर्थे तप आचरम् ।
अतिक्लेशेन लब्धोऽसि तान क्लेशान् वेत्ति चेश्वरः ॥ ४० ॥
विना त्वया क्षणो मेऽतो युगकल्पसमोऽभवत् ।
एवं लाघववाक्याऽसौ दुष्टभावेन भामिनी ॥ ४१ ॥
अतिप्रेमबलात् सा तं कटिदेशे दधार ह ।
सोऽपि तच्चेष्टितं ज्ञात्वाऽऽगस्तस्याःपरिचिन्तयन् ॥ ४२ ॥
गूढाभिसन्धिस्तां प्रोचे पूर्वं किं मे त्वया हृतम् ।
एवं तस्मिन्ब्रुवत्येव लड्डुकं सा ततो ददौ ॥ ४३ ॥
अत्तेऽस्मिन् पुनरन्यं सा महाविषयुतं ददौ ।
अत्तेऽस्मिन् पुनरन्यं स ययाचे लड्डुकं बलात् ॥ ४४ ॥
काशिराजश्च पत्नी च प्रार्थयामासतुस्तदा ।
उत्तिष्ठोत्तिष्ठ मातस्त्वं सबाला भोजनं कुरू ॥ ४५ ॥
यावदुत्तिष्ठते सा तु तावद् रुद्धाऽर्भकेण सा ।
गिरीन्द्रसारवपुषा सा ततो विह्वलाऽभवत् ॥ ४६ ॥
मुञ्च मुञ्चेति तं प्राह माताऽहं तव बालक ।
बहुकालेन दृष्टुं त्वामागता स्नेहपाशतः ॥ ४७ ॥
कथं चूर्णयितुं मां त्वमुद्यतोऽसि गिरिर्यथा ।
कराभ्यां नुनुदे सा तं तावन्निद्रां ययौ च सः ॥ ४८ ॥
प्रसार्य चरणौ हस्तौ श्वासोच्छ्वासपरायणः ।
इति राजा न्यषेधत्तां विह्वलां भारपीडिताम् ॥ ४९ ॥
मा निद्राभङ्गमस्याशु कुरु त्वं जननी सती ।
उद्धर्तुं बालकं केचिच्चक्रुःकरुणया मनः ॥ ५० ॥
उत्थापितुं चालितुं वा सर्वे नाशक्नुवंस्तदा ।
प्रार्थयामासुरपरे बालं राजीवलोचनम् ॥ ५१ ॥
अनुक्रोशं कुरू शिशो जननी ते मरिष्यति ।
चालयामास चरणौ हस्तौ साऽथ शिरोधराम् ॥ ५२ ॥
किमिदं क्रियते बाल पितरं किं वदिष्यसि ।
एवं वदत्सु लोकेषु सा मृताऽथ निशाचरी ॥ ५३ ॥
दशयोजनदेहेन व्यापितं भूतलं तया ।
पलायनपराः केचित् तां दृष्ट्वाऽतिभयानकाम् ॥ ५४ ॥
ययुः केचिच्च तां दृष्टुं विचित्रजनवृत्तयः ।
राजा च विस्मितस्तत्र जनः सर्वेविलोक्यताम् ॥ ५५ ॥
कथं कपटरूपेयमागता बालघातिनी ।
ऋषिपत्नीस्वरूपेण ज्ञाता न राक्षसीति च ॥ ५६ ॥
अत्यद्भूतमं ज्ञानमस्य सामर्थ्यं च विलोकितम् ।
इति ब्रुवाणास्तु नरास्तत्समीपं मुदा ययुः ॥ ५७ ॥
बालमुत्थाप्य तस्यास्तु पुष्पभारसमं जगुः ।
अपनेयेति तेऽप्याहुर्दुष्टा दुष्टस्वरूपिणी ॥ ५८ ॥
परस्यानिष्टमिच्छेद्यः स एव निधनं व्रजेत् ।
तुष्टुवुः परिपूज्यैनं काशिराजो जना अपि ॥ ५९ ॥
ऋषयो लोकपालाश्च भक्त्या देवं विनायकम् ।
नाथस्त्वमसि देवानां मनुष्योरगरक्षसाम् ॥ ६० ॥
यक्षगन्धर्वविप्राणां गजाश्वरथपक्षिणाम् ।
भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च ॥ ६१ ॥
हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहवोः ।
अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च ॥ ६२ ॥
स्वर्गपाताललोकानां पृथिव्या जलधेरपि ।
नक्षत्राणां ग्रहाणां च पिशाचानां च वीरुधाम् ॥ ६३ ॥
वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च ।
उत्पत्तिस्थिति संहारकारिणे ते नमो नमः ॥ ६४ ॥
पशूनां पतये तुभ्यं तत्त्वज्ञानप्रदायिने ।
नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे ॥ ६५ ॥
नमस्ते ब्रह्मरूपाय नमोऽनन्तस्वरूपिणे ।
मोक्षहेतो नमस्तुभ्यं नमो विघ्नहराय ते ॥ ६६ ॥
नमोऽभक्तविनाशाय नमो भक्तप्रियाय च ।
अधिदैवाधिभूतात्मन् तापत्रयहराय ते ॥ ६७ ॥
सर्वोत्पातविघाताय नमो लीलास्वरूपिणे ।
सर्वान्तर्यामिणे तुभ्यं सर्वाध्यक्षाय ते नमः ॥ ६८ ॥
अदित्या जठरोत्पन्न विनायक नमोऽस्तु ते ।
परब्रह्मस्वरूपाय नमः कश्यपसूनवे ॥ ६९ ॥
अमेयमायान्वित विक्रमाय मायाविने मायिकमोहनाय ।
अमेयमायाहरणाय मायामहाश्रयायास्तु नमो नमस्ते ॥ ७० ॥
एवं स्तुत्वा तु ते सर्वे ययुः स्वं स्वं गृहं मुदा ।
त्यक्त्वा तां राक्षसीं छित्त्वा खण्डशो दूरतःपुरात् ॥ ७१ ॥
य इदं पठते स्तोत्रं त्रिसन्ध्योत्पातनाशनम् ।
न भवन्ति महोत्पाता विघ्ना भूतभयानि च ॥ ७२ ॥
त्रिसन्ध्यं यः पठेत् स्तोत्रं सर्वान् कामानवाप्नुयात् ।
विनायकः सदा तस्य रक्षणं कुरतेऽनघ ॥ ७३ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते राक्षसीवधो
नामैकविंशतितमोऽध्यायः ॥ २१ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें