श्रीगणेशपुराणे क्रीडाखण्डे अष्टाविंशतितमोऽध्यायः
बालचरिते भीमराक्षसयोर्जन्मवर्णनं
॥ ब्रह्मोवाच ॥
स राजकार्यं कुरुते स्वयं भुङ्क्ते वरस्त्रियः ।
राष्ट्रे शृणोति रामां सोऽपति वा सपतिं तथा ॥ १ ॥
बलादानयते भोक्तुं क्रन्दतां रुदतामपि ।
न वा गणयते ज्ञातिभेदं विषयलम्पटः ॥ २ ॥
या चोन्नतकुचा नारी तस्य दृष्टिपथं गता ।
तामालिङ्ग्यत्यसौ कामी चुम्बतीमां यभत्यपि ॥ ३ ॥
परद्रव्याणि गृह्णाति स्त्रियोऽपि स बलात् पुनः ।
सोऽपि ताद्द्ग्गुणो मन्त्री दुष्टबुद्धिपथे रतः ॥ ४ ॥
एवं दुराचाररतौ न कन्यां न च मातरम् ।
न वर्जयन्तौ सम्भोगे भगिनीमपि निर्घृणौ ॥ ५ ॥
न ब्रह्महत्यां मनुतो न स्त्रीबालवधं तथा ।
एवं पापसमाचारौ पापस्य पर्वताविव ॥ ६ ॥
आस्तामुभौ दुष्टबुद्धी राजामात्यौ सुदुःसहौ ।
न ब्राह्मणो यतिर्वापि तद्गृहे याति भिक्षितुम् ॥ ७ ॥
न राष्ट्रे नाम तस्यापि गृह्णाति प्रकृतेरपि ।
एकदा मृगयार्थं तौ यातः स्म गहनं वनम् ॥ ८ ॥
घ्नतः स्म मृगयूथानि पक्षियूथान्यनेकशः ।
तानि प्रापय्य नगरमश्वारूढौ स्वयं पुनः ॥ ९ ॥
वैनायकं महास्थानं पथितौ पश्यतः स्म ह ।
यस्मिन् विराजिते मूर्तिर्जीणा वैनायकी शुभा ॥ १० ॥
स्थापिता रामपित्रा सा पुत्रार्थं कुर्वता तपः ।
भक्त्या साक्षात्कृतो यत्र देवदेवो विनायकः ॥ ११ ॥
दशाक्षरेण मन्त्रेण ध्यायता बहुवासरम् ।
दत्त्वा तस्मै वरान् देवो विधते वाञ्छितानपि ॥ १२ ॥
ततो वसिष्ठहस्तेन तेनेयं स्थापिता दृढा ।
वरदेति च नामास्या वसिष्ठेन कृतं ततः ॥ १३ ॥
अस्य दर्शनतो नॄणां पुरूषार्थाश्चतुर्विधाः ।
स्मरणात् पूजनाद् वापि सेत्स्यन्ते नात्र संशयः ॥ १४ ॥
एवं वसिष्ठवाक्येन स्थानं तद् भुवि पप्रथे ।
गणेशभजनेनाऽस्य स्मरणेनाऽर्चनेन च ॥ १५ ॥
रामलक्ष्मणभरताः शत्रुघ्नसहिताः सुताः ।
जाता लोकेषु विख्याताः सर्वज्ञाः शूरसम्मताः ॥ १६ ॥
एवं दृष्ट्वा महारम्यं प्रासादं राजनिर्मितम् ।
उत्तरे तुरश्वपृष्ठाद् राजामात्यौ पुपूजतुः ॥ १७ ॥
पत्रैः पुष्पैर्नेमतुस्तं सर्वपापाहरं विभुम् ।
प्रदक्षिणीकृत्य विभुमीयतुः क्षणमात्रतः ॥ १८ ॥
एतदेव परं पुण्यं दैवाज्जातं तयोस्तदा ।
एवं पापसमाचारौ राज्यं कृत्वाऽथ मम्रतुः ॥ १९ ॥
बध्वा पाशैर्याम्यदूतैर्नीतौ तौ शमनान्तिकम् ।
चित्रगुप्तं समाहूय पप्रच्छ स शुभाशुभम् ॥ २० ॥
तेनोक्तं न तयोरस्ति पुण्यलेशो रवेः सुत ।
पापानां गणना नास्ति दूतांश्चैवेदमब्रवीत् ॥ २१ ॥
बध्यतां बध्यतामेतौ लोहदण्डेन पात्यताम् ।
कुण्डे वीचिमये पङ्क्ति सहस्रपरिवत्सरान् ॥ २२ ॥
एकैकस्मिन् क्रमेणैतौ कुण्डे भुक्त्वाऽघसञ्चयान् ।
क्षिप्यतां मृत्युलोके च नीचयोनिगतावुभौ ॥ २३ ॥
अनयोः पुण्यलेशोऽस्ति दूताः शृणुत तत्कृतिम् ।
प्रसङ्गादर्चितो दृष्टो देव आभ्यां गजाननः ॥ २४ ॥
तेन पुण्येन सोऽप्येतावुद्धरिष्यती तत्र वै ।
एवमाकर्ण्य तद्वाक्यं दूतैर्बद्धौ हतौ दृढम् ॥ २५ ॥
कुम्भीपाके शोणितोदे निरये रौरवेऽपि तौ ।
निक्षिप्तौ कालकूटे च क्रमशः शतवत्सरान् ॥ २६ ॥
तामिस्रे चान्धतामिस्रे पूयशोणितकर्दमे ।
कण्टके तु क्षताङ्गौ तौ सन्तप्तौ तप्तवालुके ॥ २७ ॥
विक्षतौ कृमिभिस्तत्र भृशं सूचीमुखैरुभौ ।
असिपत्रवने घोरे ततो नीतावुभावपि ॥ २८ ॥
यत्र शस्त्राभिघातेन वर्ष्मभिद्यतिपापिनाम् ।
ततस्तप्तशिलायां तो निष्पिष्टौ घनघाततः ॥ २९ ॥
भुञ्जन्तौ नरकानेकविंशति बहुवासरम् ।
न दुःखं शक्यते वक्तुं शेषेणाऽशेषतस्तयोः ॥ ३० ॥
एवं कृति सहस्राणि भुक्त्वा भोगाननेकशः ।
निस्तीर्णभोगौ तौ पापशेषेण भुवमागतौ ॥ ३१ ॥
एको जातः काकयोनौ कौशिकोऽभूत् परोऽपि च ।
तत एको दर्दुरोऽभूदपरः सरटोऽभवत् ॥ ३२ ॥
तत एको विषधरोऽपरोऽभूद् वृश्चिकोऽपि च ।
तत्रापि कुर्वतः पापं नानालोकान्विदंशतः ॥ ३३ ॥
श्वमार्जारयोर्योनौ जातौ नकुलसूकरौ ।
वृकजम्बुकयोर्योनौ जातौ घोटकगर्दभौ ॥ ३४ ॥
तत उष्ट्रगजौ जातौ ततो नक्र महाझषौ ।
ततो व्याघ्रमृगौ जातौ ततो वृषभमाहिषौ ॥ ३५ ॥
एवं नानायोनिगतौ जातौ चाण्डालकीटकौ ।
राक्षसीभिल्लयोर्योनो ततश्चान्ते समीयतुः ॥ ३६ ॥
पिङ्गाक्षो दुर्बुद्धिरिति नाम्ना ख्यातौ च भूतले ।
आजन्मकृतपापस्य कथ्यते बहुदोषता ॥ ३७ ॥
यदा तौ राजप्रकृती आस्तां पापरतौ पुरा ।
एकं पुण्यं तयोरासीन् मृगयायां प्रसर्पतोः ॥ ३८ ॥
विनायकस्य नमनं दर्शनं च प्रदक्षिणा ।
अर्चनं फलपुष्पाद्यैस्तुष्ट आसीद् गजाननः ॥ ३९ ॥
अगाधं तत्तयोः पुण्यमासीत् तज्जन्मसञ्चितम् ।
यदा पुरा राक्षसोऽसौ भीमं भक्षितुमागतः ॥ ४० ॥
स आरूढः शमीवृक्षं तत्पत्राणि च मस्तके ।
पतितानि गणेशस्य तुष्टोऽभूत् स द्वयोरपि ॥ ४१ ॥
दिव्यदेहं तयोर्दत्त्वा स्वर्लोकं प्राप्रद् विभुः ।
एतत्ते कथितं पूर्वजन्मकर्म मया तयोः ॥ ४२ ॥
शमीपत्रार्चनादेव तुष्टोऽभूत् स गजाननः ।
यथाऽयं स्थापितस्तेन वामनेन तदप्यहम् ॥ ४३ ॥
कथयामि मुने सर्वं तदनुष्ठानमेव च ।
यथा च गणनाथोऽस्य प्रसन्नो वरदोऽभवत् ॥ ४४ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते भीमपिङ्गाक्षयोः पूर्वजन्मवर्णनं
नामष्टाविंशतितमोऽध्यायः ॥ २८ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें