श्रीगणेशपुराणे क्रीडाखण्डे
द्वाविंशतितमोऽध्यायः
बालचरिते विद्रुमाशुक्लनिष्ठगणेशभक्तिनिरुपणं
॥ ब्रह्मोवाच ॥
अपरस्मिन् दिने राजा प्रातःस्नानकृतोद्यमः ।
पौराः सर्वे वितर्क्यैवं नायं देवो न मानुषः ॥ १ ॥
न देवश्चेत् कथं पञ्च महान्तो देवदुर्धराः ।
अजेयाः शक्रहरिभिर्हता दैत्या महाबलाः ॥ २ ॥
देव एव भवेद् बालमध्येऽयं क्रीडते लघु ।
इति तर्क्य ततस्तावदागता राजदर्शनम् ॥ ३ ॥
राजाऽपि भद्रमगमदुवाच सकलान् प्रति ।
निरूपयन्तु यत्कार्यं तद् वः सिद्धिं प्रयास्यति ॥ ४ ॥
किमर्थं प्रातरेवेह पौरा यूयं समागताः ।
त ऊचुर्न रहस्यं यत् स्वाभिप्रेतमृते वचः ॥ ५ ॥
त्वयाऽयं हि समानीतो मुनिपुत्रो विनायकः ।
नास्य दास्यमभून्नो हि किञ्चित् क्वापि कदाचन ॥ ६ ॥
त्वया तु पूजितोऽनेकवारं स्वशरणे स्थितः ।
यद् यत् तव गृहे याति तत् तन्नः प्रेषयस्यहो ॥ ७ ॥
अयं तु न कथं राजन् प्रेषितो नु विनायकः ।
॥ राजोवाच ॥
सम्यगुक्तं यत्र जना विभज्य भुज्यते तु यत् ॥ ८ ॥
अमृतं याति च विषं विषमन्यद् भवेत्तु तत् ।
अस्मिन्यस्य भवेद् भक्तिर्देवे वा मानुषेऽपि वा ॥ ९ ॥
स एनं स्वगृहे नीत्वा पूजयेद् भोजयेदपि ।
जनास्तु त्रिविधाः पौरा रजःसत्त्वतमो गुणैः ॥ १० ॥
परीक्षन्तेऽनरा दुष्टाः पुण्यवन्तो भजन्त्यपि ।
केचिदेनं विनिन्दन्ति प्रशंसन्ति च केचन ॥ ११ ॥
यस्य स्वभावो यादृक् स्यात् तथा वर्तते नरः ।
न जहाति घृष्यमाणश्चन्दनः स्वसुगन्धिताम् ॥ १२ ॥
कस्तुरीकर्दमयुतः पलाण्डुर्वा निजं गुणम् ।
भवतां यदि भक्तिश्चेदनन्याऽस्मिन्सुते मुनेः ॥ १३ ॥
नीयतां पूजयन्त्वाशु भोजनाय प्रियाय च ।
परीक्षार्थं न नेयोऽसौ जनको जननी मम ॥ १४ ॥
मया कथं नरा वाच्या नीत्वैनं पूजयन्त्विति ।
अस्य शक्तिं दृढां दृष्ट्वा मम भक्तिर्विशिष्यते ॥ १५ ॥
नायं चेन्मत्पुरी क्वत्या कृतो यूयं क्व चाप्यहम् ।
इति राजवचः श्रुत्वा पुनरूचुश्च नागराः ॥ १६ ॥
यथा वदसि कल्याण तत्तथा न तदन्यथा ।
अस्माकं कार्यसिद्धिर्या तां कुरुष्व जनाधिप ॥ १७ ॥
नीत्वेमं स्वगृहे बालं पूजयामो यथार्हतः ।
एतस्मिन्नन्तरे बालोऽवदत् तान् सदसि स्थितान् ॥ १८ ॥
जानन्नन्तर्गतं तेषां सर्वसाक्षी जगद्गुरुः ।
॥ विनायक उवाच ॥
किमर्थं मां प्रार्थयन्तो भवन्तोऽतिमहत्तराः ॥ १९ ॥
अहं बालो मुनिसुतो मत्पूजनफलं नु किम् ।
भविष्यति न जानेऽहं भवतां व्ययकारिणाम् ॥ २० ॥
विवाहो व्रतबन्धो वा यज्ञो वाऽन्यो महोत्सवः ।
तदा भवद्गृहं यास्ये हव्यं कव्यं यदा भवेत् ॥ २१ ॥
असङ्ख्याता भवन्तो हि कथमेको गृहं व्रजे ।
वकेशिनीं किमर्थं वा गां धोक्ष्यथ भवद्विधाः ॥ २२ ॥
वाञ्छितार्थी कथं याचेत् त्यक्त्वा कल्पद्रुमं द्रुमम् ।
अन्यत् क्षुद्रं वाञ्छितं वा तद्वद् यूयं समुत्सुकाः ॥ २३ ॥
॥ ब्रह्मोवाच ॥
विनायक वचः श्रुत्वा श्रेणीमुख्या जगुः पुनः ।
अस्मिन्विवाहे सम्पन्ने न स्थास्यति क्षणं भवान् ॥ २४ ॥
राज्ञः प्रसादाद् दृष्टोऽसि भक्तिं न सफलीकुरू ।
अवाप्तकामस्य च ते सृष्टि स्थित्यन्तकारिणः ॥ २५ ॥
सर्वान्तर्यामिणः सर्वचित्तवृत्तीर्विजानतः ।
कर्तुं वाप्यन्यथाकर्तुमकर्तुं वा क्षमस्य ह ॥ २६ ॥
चिदानन्दस्य नैवाऽस्ति पूजाभिर्नः प्रयोजनम् ।
भक्तिप्रियो देव इति निगमं न वृथा कुरू ॥ २७ ॥
निशम्येति वचस्तेषां तानूचेऽथ विनायकः ।
एवं चेद्भवतां भक्तिस्तदा यास्ये नृपाज्ञया ॥ २८ ॥
एवमाकर्ण्य तद्वाक्यं सर्वेऽपि स्वगृहान् ययुः ।
मण्डपान् विदधुः केचित् केचिद्वस्त्रगृहाणि च ॥ २९ ॥
तोरणान् विदधुर्भक्त्याऽऽदर्शशोभाद्भुतानि च ।
भाजनानि महार्हाणि सुगन्धचन्दनानि च ॥ ३० ॥
द्रव्याणि च सुगन्धीनि मृगनाभिभवानि च ।
फलानि च विचित्राणि वासांस्याभरणानि च ॥ ३१ ॥
पक्वान्नानि विचित्राणि पञ्चामृतयुतानि च ।
स्थापिता मूर्तयो नानामुक्तामालाविभूषिताः ॥ ३२ ॥
एवं गृहे गृहे सर्वे सामग्रीं चक्रुरुत्सुकाः ।
एकोऽभून्नगरप्रान्ते ब्राह्मणो वेदशास्त्रवित् ॥ ३३ ॥
शुक्लनाम्ना शुक्लवृत्तिः शान्तो दान्तः क्षमान्वितः ।
श्रौतस्मार्तकर्मनिधिर्ब्रह्मनिष्ठोऽतिथिप्रियः ॥ ३४ ॥
यस्य पत्नी महाभागा विद्रुमा नाम नामतः ।
निस्पृहा ज्ञानसम्पन्ना सर्वावयवसुन्दरा ॥ ३५ ॥
दरिद्रा ज्ञाननिष्ठा सा पतिप्राणा पतिव्रता ।
तस्या गृहगतं दृश्यं नभस्ताराङ्कितं स्फुटम् ॥ ३६ ॥
न स्वर्णं राजतं ताम्रं भाजनं रीतिजं न च ।
गौरा वल्कलसंवीता तेजोज्वाला सुशोभना ॥ ३७ ॥
यदङ्गतेजसा व्याप्तं दृश्यमानं न दृश्यते ।
तेन वृत्तेन तुष्टा सा गृहशोभाविधायिनी ॥ ३८ ॥
तस्यास्तोषेण तुष्टोऽभूद् विनयेन च सेवया ।
स्वस्थःस्थितो ज्ञाननिष्ठस्तिष्ठत्यकृतभोजनः ॥ ३९ ॥
कदाचिद् भिक्षितुं यातो वारितस्तु गृहेगृहे ।
महोत्सवं प्रकुर्वद्भिर्विनायककृते जनैः ॥ ४० ॥
यल्लब्धं तेन तुष्टोऽसौ भार्यामेत्याऽब्रवीदिदम् ।
श्रूयतां पत्नि नगरे वारितोऽहं गृहेगृहे ॥ ४१ ॥
आयास्यति प्रतिगृहं पूजार्थं स विनायकः ।
योऽवतीर्णो मुनिगृहं भूभार हरणोद्यतः ॥ ४२ ॥
आयास्यति गृहं चेत् स पूजार्थे यत्नमाचर ।
साऽब्रवीन् महतीं पूजां त्यक्त्वाऽन्नं विविधन्तथा ॥ ४३ ॥
भवतां सोऽकिञ्चनानां कथं वा गृहमेष्यति ।
गन्धपुष्पं पर्युषितं पक्वं कन्दफलं मुने ॥ ४४ ॥
भविष्यति कृतं सम्यगसम्यक् स्वल्पमप्यहो ।
किं वा प्रयोजनं तस्य गृहेण भवतां प्रभो ॥ ४५ ॥
इति प्रियावचः श्रुत्वा पुनरूचे मुनिः प्रियाम् ।
स मां भक्तं विजानाति दीनानाथ प्रभुः प्रभुः ॥ ४६ ॥
भक्तिप्रिऽयोस्ति देवोऽयं न लोभवशगो विभुः ।
अर्णसा च पलाशेन पुष्पेण प्रीयते हि सः ॥ ४७ ॥
सुवर्णानिचयैर्वापि न हि दम्भात् समर्पितैः ।
इत्याकर्ण्य वचस्तस्य विद्रुमा पुनरब्रवीत् ॥ ४८ ॥
एवं चेत् तर्हि यत् सिद्धं तदेतस्मै निवेद्यताम् ।
ततोऽष्टादशधान्यानां कृत्वा पिष्टं पपाच सा ॥ ४९ ॥
ओदनश्च कृतो जीर्णतन्दुलानां जलाधिकः ।
मुष्टिपिष्टं पर्णपुटे पक्त्वा भुङ्क्ते दिनेदिने ॥ ५० ॥
तत्तेन दियमानेन द्रव्येण चैलमानयत् ।
गन्धाक्षतं च पुष्पाणि धूपं दीपं महार्तिके ॥ ५१ ॥
वन्यं फलं वल्कलं च स्थापयामास चैकतः ।
शुष्कामलकखण्डानि मुखवासार्थमेव च ॥ ५२ ॥
प्रसार्य दर्भनिचयं सुसिक्ते स्वाङ्गणे ध्वजम् ।
चकार कशिपू नासौ ध्याननिष्ठोऽभवन् मुनिः । (चकारकशिपुञ्चासौ?)
नैवेद्यं वैश्वदेवं च कृत्वा पूर्वं प्रयत्नतः ॥ ५३ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते
विद्रुमाशुक्लनिष्ठगणेशभक्तिनिरुपणं नाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें