श्रीगणेशपुराणे क्रीडाखण्डे सप्तविंशतीतमोऽध्यायः
बालचरिते साम्बदुःशासनवर्णनं
॥ व्यास उवाच ॥
पूर्वजन्मनि व्याधोऽसौ क आसीद् राक्षसोऽपि सः ।
किं शीलं किं समाचारस्तन्ममाचक्ष्व नाभिज ॥ १ ॥
अनुष्ठानं कृतं तेन वामनेन कथं प्रभो ।
कथं तस्मै वरो दत्तो गजाननस्वरुपिणा ॥ २ ॥
लोको गणेशस्य कथं पृथगन्यत्र तिष्ठति ।
कथं शमी प्रिया तस्य सर्वमेतद् वदाशु मे ॥ ३ ॥
॥ ब्रह्मोवाच ॥
शृणु वक्ष्यामि ते सर्वं यद् यत् पृष्टं त्वया मुने ।
राजाऽसीत् पूर्वजनुषि स व्याधो वेदपारगः ॥ ४ ॥
सर्वशास्त्रप्रवक्ता च सर्वलक्षणलक्षितः ।
यज्वा विनीतो ह्रीमांश्च देवताऽतिथिपूजकः ॥ ५ ॥
गजाश्वरथपत्तीनां सङ्ख्या यस्य न विद्यते ।
दाता शूरश्च मेधावी समृद्धो मघवानिव ॥ ६ ॥
ध्वजश्च शत्रुजिद् यस्य प्रधानौ बुद्धिमत्तरौ ।
यतोऽधरीकृतः काव्यो गिरां पतिरपि स्फुटम् ॥ ७ ॥
यौ तौ क्षितितले जेतुं समर्थौ शस्त्रतेजसा ।
पत्नी सुलक्षणाऽस्यासीत् नाम्ना च मदनावती ॥ ८ ॥
पतिव्रता धर्मशीला सुमुखी सर्ववेदिनी ।
न तया सदृशी काचित्त्रिषु लोकेषु कामिनी ॥ ९ ॥
दीनानाथवृद्धजने कृपालुरतिथिष्वपि ।
यजतोर्ददतोरेवं रतयोः पूजने सताम् ॥ १० ॥
तयोर्वृत्तेन तुतुषः पौरा जानपदा जनाः ।
अमित्रा अपि गृह्णन्ति षड्गुणान् साधुसम्मतान् ॥ ११ ॥
एवं स पुण्यकीर्तिः सन् शशास पृथिवीमिमाम् ।
बहुसंवत्सरं दैवात् कालधर्ममुपेयिवान् ॥ १२ ॥
मरिष्यमाणश्चक्रेऽसौ गोसहस्रं यथाविधि ।
महादानान्यपि ददौ दशाष्टौ चेतराणि च ॥ १३ ॥
मृतेऽस्मिन्नगरी सर्वा शुशोच नृपतिं तदा ।
अपुत्रत्वात् सहैवास्य पत्नी सहगतिं ययौ ॥ १४ ॥
मन्त्रिणौ सर्वसंस्कारान् कारयामासतुर्द्विजैः ।
एकादशाहे दददुर्नाना दानानि भक्तितः ॥ १५ ॥
गते मासे मन्त्रयतो राज्यार्हं कुलजं नरम् ।
धीमन्तं सत्त्वसम्पन्नं शूरं सत्यपराक्रमम् ॥ १६ ॥
दुर्धर्षस्य सुतं तस्य दायादस्य महाबलम् ।
क्षेत्रजं साम्बनामानं राज्ञाशिष्टं च तावुभौ ॥ १७ ॥
अमात्यौ निश्चयं कृत्वा राज्यं दातुं तु तस्य ह ।
पौरजानपदान् सर्वान् ब्राह्मणान् परिपृच्छ्य च ॥ १८ ॥
शुभे मुहूर्ते लग्ने च नानासम्भारसञ्चयैः ।
कारयामासतुरुभावभिषेकं द्विजैः सह ॥ १९ ॥
॥ मुनिरुवाच ॥
कथं क्षेत्रात् समुत्पन्नः किञ्जातीयः पितामह ।
स साम्बस्तन्ममाचक्ष्व सर्वज्ञोऽसि कृपानिधे ॥ २० ॥
॥ ब्रह्मोवाच ॥
दूर्धर्षेण कृता यत्नाः पुत्रार्थं बहुधा मुने ।
न च जातः सुपुत्रोऽस्य दुष्टदैवयुतस्य ह ॥ २१ ॥
तस्य पत्न्या प्रमदया कैवर्तासक्तचित्तया ।
जनितः सुमुहर्ते स न ज्ञातो जारजस्त्विति ॥ २२ ॥
यावन्ति राजचिह्नानि तावन्ति ददतुश्च तौ ।
निवेद्य कोशसहितं सर्व राज्यं सराष्ट्रकम् ॥ २३ ॥
अमात्यपदनिष्ठौ तो जातावास्तां यथा पुरा ।
स राज्यं प्राप्य दुर्द्धर्षसुतो मत्तः श्रियाऽभवत् ॥ २४ ॥
स्त्रीमांसमदिरासक्तो मत्तो गज इवालसः ।
दुराचाररतो नित्यं नयमार्गपराङमुखः ॥ २५ ॥
आदाय धनिनां सर्वं धनं तान् निरवासयत् ।
अपमानं चकाराशु ब्राह्मणानां सतामपि ॥ २६ ॥
बहिश्चकार तान् सर्वान् वृत्तिमाच्छिद्य सान्ततिम् ।
शिष्टः स्म प्रकृती नीतिं न तद्वाक्यं समाददे ॥ २७ ॥
वारंवारं यदा तौ तं शिष्टः स्म करुणायुतौ ।
अमात्यौ स बबन्धाशु निगडाभ्यां रुषान्वितः ॥ २८ ॥
शिक्षापयन्तौ पितरौ तस्य तं दुर्हृदं सुतम् ।
यत् प्रसादात् त्वया प्राप्तं राज्यं निहतकण्टकम् ॥ २९ ॥
विनिग्रहं कथं साध्योस्तयोस्त्वं कुरुषे खल ।
अनादृत्य तु तद्वाक्यं पीयूषमिव पामर ॥ ३० ॥
शृङ्खलाभ्यां निबद्धौ तौ कारागारेऽध्यवासयत् ।
अतिदुष्टो दुष्टबुद्धिनामाऽभूत् तत् सखाऽनिशम् ॥ ३१ ॥
तमेव सचिवं चक्रे दत्त्वाऽश्वं काञ्चनं गजम् ।
रत्नानि दिव्यवासांसि राङ्कवास्तरणानि च ॥ ३२ ॥
दासीदासानसङ्ख्यातान् पानान्यन्नं च नारिकम् ।
न करोत्यस्य वाक्यं यस्तस्य छेत्स्ये शिरो बलात् ।
इत्युक्त्वा सर्वलोकेषु साम्बोऽन्तःपुरमाययौ ॥ ३३ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते साम्बदुःशासनवर्णनं नाम
सप्तविंशतीतमोऽध्यायः ॥ २७ ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें