श्रीगणेशपुराणे क्रीडाखण्डे एकोनत्रिंशोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे एकोनत्रिंशोऽध्यायः

बालचरिते विरोचनवध
॥ ब्रह्मोवाच ॥

मयाज्ञप्तः कश्यपोऽसौ सृष्टिं नानाविधां कुरु ।
स विनीतो महाज्ञानी भूतभव्यभविष्यवित् ॥ १ ॥
अतिवैश्वानररवितेजाः सुतपसां निधिः ।
सृष्टिसामर्थ्यसम्प्राप्तौ तताप सुमहत् तपः ॥ २ ॥


षडक्षरेण मन्त्रेण ध्यात्वा देवं गजाननम् ।
दिव्यवर्षसहस्रान्ते स देवो वरदोऽभवत् ॥ ३ ॥
ईप्सितानस्य सर्वान् स ददौ नानावरान् शुभान् ।
ततोऽसौ मनसा यद् यदकल्पयत लाघवात् ॥ ४ ॥
तत्तदग्रे पश्यति स्म वरदानप्रभावतः ।
चतुर्दशसु पत्नीषु ऋतुदानादनेकधा ॥ ५ ॥
चकार तेजसा सर्वं जगत्स्थावरजङ्गमम् ।
तासु श्रेष्ठे च द्वे पत्न्यौ दित्यदितीतिनामतः ॥ ६ ॥
अदित्याऽपि तपस्तप्तं विष्णुप्रीणनहेतवे ।
संवत्सराणामयुतं ततस्तुष्टो जनार्दनः ॥ ७ ॥
जगत्याः पालनायासौ धर्मसंस्थापनाय च ।
शक्रादितत्सुतानां च दुष्टानां निग्रहाय च ॥ ८ ॥
पुत्रतामगमत् तस्यास्तया पूर्वं प्रसादितः ।
अथ सा स्वामिनं प्राह दितिर्होमाय सादरम् ॥ ९ ॥
ऋतुं मे देहि भगवन् बाधते मदनानलः ।
इत्याकर्ण्य वचस्तस्या मुनिस्तां प्राह सादरम् ॥ १० ॥
अयं कालो घोररूपो होमकाल उपस्थितः ।
क्षणमाचर धैर्यं त्वं पश्चाद् रंस्ये त्वया सह ॥ ११ ॥
अस्मिन् काले भवेद्दुष्टमपत्यं देवधर्मध्रुक् ।
इति स्वामिवचः श्रुत्वा हस्ते धृत्वा ननाम तम् ॥ १२ ॥
उवाच रक्तनयना दग्धुकामा जगत्रयम् ।
इदानीमेव मे वाञ्छा न कृता चेत्त् त्वया मुने ॥ १३ ॥
देहत्यागं करिष्यामि विह्वला मदनाग्निना ।
यथा तथास्तां दैवान्मे ह्यपत्यं देवधर्मध्रुक् ॥ १४ ॥
इति तद्वचनं श्रुत्वा शरणागतवत्सलः ।
ददावृतुं तदा तस्यै होमं स्नात्वा चकार ह ॥ १५ ॥
ततश्चास्याः सुतो जज्ञे हिरण्याक्षो महाबलः ।
हिरण्यकशिपुश्चोभौ चेरतुस्तप उत्कटम् ॥ १६ ॥
पञ्चाक्षरं महामन्त्रं पितुस्तौ बहुवत्सरम् ।
एकाङ्गुष्ठस्थितौ वायुमात्रभक्षौ सवल्मिकौ ॥ १७ ॥
अथाययौ महादेवो वरं दातुं कृपानिधिः ।
तुष्टुवतुस्ततस्तं तौ भक्त्या देवं त्रिलोचनम् ॥ १८ ॥
कृताञ्जलीपुटौ चोभौ प्रणिपातपुरःसरम् ।
यथाशक्ति यथाज्ञानं तद्दर्शनस्फुरन्मती ॥ १९ ॥
यो देवो वृषवाहनो दशभुजश्चन्द्रार्धनागान्वितो
नानारूपगणैर्गिरीन्द्रतनयायुक्तो जगत्कारणम् ।
यो व्याघ्राजिनकृत्तिमांस्रिनयनो यः शूलधृक् कामहा
भक्तेच्छापरिपूरणैकनिलयो धर्मार्थमोक्षप्रदः ॥ २० ॥
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।
नमश्च चक्रतुर्दैवं भक्तवाञ्छासुरद्रुमम् ॥ २१ ॥
तावुवाच ततस्तुष्टो वृणुतं वरमित्यसौ ।
वृणुतस्तौ वरान् देवादमृतिं यक्षरक्षसः ॥ २२ ॥
किन्नरैर्मानुषश्रेष्ठैः पिशाचैश्चारणादिभिः ।
न शस्त्रैर्नार्द्रशुष्कैश्च जन्तुभिर्जलजैरपि ॥ २३ ॥
स्थावरैर्जङ्गमैरन्यैर्न दिवा न निशासु च ।
न पृथिव्यां न चाकाशे नान्तराले तथोषसि ॥ २४ ॥
तथेति तावुवाचेशस्तथा चान्तर्दधे हरः ।
तदैव तावजयतां रोदसी च रसातलम् ॥ २५ ॥
देवस्थानानि सर्वाणि बलादाक्रम्य तौ स्थितौ ।
हिरण्यकशिपोर्जातः प्रह्लादो नाम नामतः ॥ २६ ॥
तनयो विष्णुभक्तेषु गरीयान् वंशकण्टकः ।
जपन्नारायणं देवं पित्रा सन्ताडितो भृशम् ॥ २७ ॥
अनेकयातनायां स रक्षितोऽनेकधाऽमुना ।
जले स्थले विषादग्नेर्विष्णुना करूणावता ॥ २८ ॥
हिरण्यकशिपुः सोऽयं सर्वलोकभयङ्करः ।
नारसिंहेन वपुषा नखरैः स विदारितः ॥ २९ ॥
वाराहेण हतः पूर्वो दंष्ट्रया वसुधा हृता ।
विरोचनसुतस्तस्य बलिस्तस्याऽभवत्सुतः ॥ ३० ॥
विरोचनः सूर्यभक्तो मुकुटं प्राप्तवांस्ततः ।
ऊचिवांस्तं च सप्ताश्वः परहस्तो यदा स्पृश्येत् ॥ ३१ ॥
मुकुटस्य तदा ध्वंसो भविता नात्र संशयः ।
स सूर्यवरदानेन चक्रे त्रिभुवनं वशे ॥ ३२ ॥
च्युतस्थानास्ततो देवा अच्युतं शरणं ययुः ।
स चिन्तां महतीं कृत्वा निश्चयं नाध्यगच्छत ॥ ३३ ॥
ततस्तेन धृतं रूपं सर्वयोषिद्वरं स्त्रियः ।
तेन तं रमयामास बहुकालं विरोचनम् ॥ ३४ ॥
ततः स सुरतं कर्तुमुद्यतोऽभूत् कुबुद्धिमान् ।
ततस्तं सुदती प्राह ममैका वासनाऽस्ति भोः ॥ ३५ ॥
अभ्यङ्गं कुरु पूर्वं त्वं ततो हि रंस्यसे मया ।
इति श्रुत्वा स तद्वाक्यं कामासक्तोऽन्वमोदत ॥ ३६ ॥
उत्तार्य मुकुटं साऽथ मूर्ध्नि तैलं व्यमर्दयत् ।
स तदा शतचूर्णोऽभूत् सारूप्यं स आप्तवान् ॥ ३७ ॥
॥ इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विरोचनवधो नामैकोत्रिंशोऽध्यायः ॥ २९ ॥

 इस अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीगणेशपुराण-क्रीडाखण्डे-खण्ड-अध्याय-29


कोई टिप्पणी नहीं:

123