श्रीगणेशपुराणे क्रीडाखण्डे अशीतितमोऽध्यायः
श्रीगणेशदर्शनं
॥ क उवाच ॥
तत्र सा काननं दृष्ट्वा रम्यं पुष्पजलान्वितम् ।
तस्थौ पद्मासनगता नासाग्रन्यस्तलोचना ॥ १ ॥
गणेशध्याननिरता प्राङ्मुखी जपतत्परा ।
एकाक्षरस्य मन्त्रस्य शुष्कद्रुम इव स्थिता ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे अशीतितमोऽध्यायः
श्रीगणेशदर्शनं
॥ क उवाच ॥
तत्र सा काननं दृष्ट्वा रम्यं पुष्पजलान्वितम् ।
तस्थौ पद्मासनगता नासाग्रन्यस्तलोचना ॥ १ ॥
गणेशध्याननिरता प्राङ्मुखी जपतत्परा ।
एकाक्षरस्य मन्त्रस्य शुष्कद्रुम इव स्थिता ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे
नवसप्ततितमोऽध्यायः
गौरीमन्त्रप्रदानं
॥ क उवाच ॥
निर्जितान् सिन्धुना देवान् ज्ञात्वा शम्भुर्निजस्थलात् ।
सप्तकोटिगणाकीर्णस्त्रिसन्ध्याक्षेत्रमभ्यगात् ॥ १ ॥
स्वाहास्वधावषट्कारवेदाध्ययनवर्जिताः ।
निवसन्ति भयात्सिन्धोर्गौतमाद्या महर्षयः ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे
अष्टसप्ततितमोऽध्यायः
सुरर्धिवरप्रदानं
॥ क उवाच ॥
सर्वे निगृहिता देवाः सिन्धुना प्रभविष्णुना ।
तस्यैव च वधोपायं चिन्तयामासुरुत्सुकाः ॥ १ ॥
॥ हरिरुवाच ॥
सर्वेषां सम्मतं ज्ञात्वा कर्तव्यः कार्यनिश्चयः ।
तस्मात् सर्वे ब्रुवन्त्वद्य मतं यस्य यथा भवेत् ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे सप्तसप्ततितमोऽध्यायः
सिन्धुदुःशासनवर्णनं
॥ क उवाच ॥
इति तद्वचनं श्रुत्वा क्रोधाद् वह्निकणान्वमन् ।
यथा सिंहो गजानीकं याति तद्वद् ययौ सुरान् ॥ १ ॥
सिन्धुर्मुष्टिप्रहारेण जघान बलसूदनम् ।
पपात स धरापृष्ठे वाताहत इव द्रुमः ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे षट्सप्ततितमोऽध्यायः
देवदानवयुद्धवर्णनं
॥ क उवाच ॥
वैकुण्ठे सुखमासीनमागतोऽमरसंयुतः ।
हरिर्हरिं नमस्कृत्य निजगाद प्रयोजनम् ॥ १ ॥
॥ इन्द्र उवाच ॥
किं न जानासि गोविन्द सिन्धुदैत्यकृतामिमाम् ।
आपदं नोऽमरावत्यां दुष्टैराक्रमणं कृतम् ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे पञ्चसप्ततितमोऽध्यायः
सुरपराजय
॥ क उवाच ॥
बुद्धिमन्तं सुतं ज्ञात्वा सवितुर्वरदर्पितम् ।
राज्यं तस्मै ददौ सर्वं देशकोशबलान्वितम् ॥ १ ॥
पिता वनं ययौ तस्य स्वात्मसाधनलालसः ।
स तु पित्राभिषिक्तः सन् राज्यं कर्तुं मनो दधे ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे चतुःसप्ततितमोऽध्यायः