श्रीलिङ्गमहापुराण -[उत्तरभाग] -003

 श्रीलिङ्गमहापुराण -[उत्तरभाग] -003

॥ श्रीसाम्बसदाशिवाय नमः ॥
तीसरा अध्याय
भगवान् श्रीकृष्ण की कृपा से श्रीनारदजी को गानबन्धु, जाम्बवती आदि से गानविद्या की प्राप्ति
श्रीलिङ्गमहापुराणे उत्तरभागे तृतीयोऽध्यायः
वैष्णवगीतकथनं

॥ अम्बरीष उवाच ॥
मार्कण्डेय महाप्राज्ञ केन योगेन लब्धवान् ।
गानविद्यां महाभाग नारदो भगवान् मुनिः ॥ १ ॥
तुम्बरोश्च समानत्वं कस्मिन्काल उपेयिवान् ।
एतदाचक्ष्व मे सर्वं सर्वज्ञोऽसि महामते ॥ २ ॥


॥ मार्कण्डेय उवाच ॥
श्रुतो मयायमर्थो वै नारदाद्देवदर्शनात् ।
स्वयमहा महातेजा नारदोऽसौ महामतिः ॥ ३ ॥
सन्तप्यमानो भगवान् दिव्यंवर्षसहस्रकम् ।
निरुच्छ्वासेन संयुक्तस्तुम्बरोर्गौरवं स्मरन् ॥ ४ ॥
तताप च महाघोरं तपोराशिस्तपः परम् ।
अथान्तरिक्षे शुश्राव नारदोऽसौ महामुनिः ॥ ५ ॥
वाणीं दिव्यां महाघोषामद्भुतामसरीरिणीम् ।
किमर्थं मुनिशार्दूल तपस्तपसि दुश्चरम् ॥ ६ ॥
उलूकं पश्य गत्वा त्वं यदि गाने रता मतिः ।
मानसोत्तरशैले तु गानबन्धुरिति स्मृतः ॥ ७ ॥
गच्छ शीघ्रं च पश्यैनं गानवित्त्वं भविष्यसि ।
इत्युक्तो विस्मयाविष्टो नारदो वाग्विदां वरः ॥ ८ ॥
मानसोत्तरशैले तु गानबन्धुं जगाम वै ।
गन्धर्वाः किन्नरा यक्षास्तथा चाप्सरसां गणाः ॥ ९ ॥
समासीनास्तु परितो गानबन्धुं ततस्ततः ।
गानविद्यां समापन्नः शिक्षितास्तेन पक्षिणा ॥ १० ॥
स्निग्धकण्ठस्वरास्तत्र समासीनामुदान्विताः ।
ततो नारदमालोक्य गानबन्धुरुवाच ह ॥ ११ ।
प्रणिपत्य यथान्यायं स्वागतेनाभ्यपूजयत् ।
किमर्थं भगवानत्र चागतोऽसि महामते ॥ १२ ॥
किं कार्यं हि मया ब्रह्मन् ब्रूहि किं करवाणि ते ।
॥ नारद उवाच ॥
उलूकेन्द्र महाप्राज्ञ शृणुसर्वं यथातथम् ॥ १३ ॥
मम वृत्तं प्रवक्ष्यामि पुरा भूतं महाद्भुतम् ।
अतीते हि युगे विद्वन्नारायणसमीपगम् ॥ १४ ॥
मां विनिर्धूय संहृष्टः समाहूय च तुम्बरुम् ।
लक्ष्मीसमन्वितो विष्णुरशृणोद् गानमुत्तमम् ॥ १५ ॥
ब्रह्मादयः सुराः सर्वे निरस्ताः स्थानतोऽच्युताः ।
कौशिकाद्याः समासीना गानयोगेन वै हरिम् ॥ १६ ॥
एवमाराध्य सम्प्राप्ता गाणपत्यं यथासुखम् ।
तेनाहमतिदुःखार्तस्तपस्तप्तुमिहागतः ॥ १७ ॥
यद्दत्तं यद्धुतं चैव यथा वा श्रुतमेव च ।
यदधीतं मया सर्वं कलां नार्हति षोडशीम् ॥ १८ ॥
विष्णोर्माहात्म्ययुक्तस्य गान योगस्य वै ततः ।
सञ्चिन्त्याहं तपो घोरं तदर्थं तप्तवान् द्विज ॥ १९ ॥
दिव्यवर्षसहस्रं वै ततो ह्यशृणुवं पुनः ।
वाणीमाकाशसम्भूतां त्वामुद्दिश्य विहङ्गम ॥ २० ॥
उलूकं गच्छ देवर्षे गानबन्धुं मतिर्यदि ।
गाते चेद्वर्तते ब्रह्मन् तत्र त्वं वेत्स्यसे चिरात् ॥ २१ ॥
इत्यहं प्रेरितस्तेन त्वत्समीपमिहागतः ।
किं करीष्यामि शिष्योहं तव मां पालयाव्यय ॥ २२ ॥
॥ गानबन्धुरुवाच ॥
शृणु नारद यद्वृत्तं पुरा मम महामते ।
अत्याश्चर्यसमायुक्तं सर्वपापहरं शुभम् ॥ २३ ॥
भुवनेश इति ख्यातो राजभूद्धार्मिकः पुरा ।
अश्वमेधसहस्रैश्च वाजपेयायुतेन च ॥ २४ ॥
गवां कोट्यर्बुदे चैव सुवर्मस्य तथैव च ।
वाससां रथहस्तीनां कन्याश्वानां तथैव च ॥ २५ ॥
दत्वा स राजा विप्रेभ्यो मेदिनीं प्रतिपालयन् ।
निवारयन् स्वके राज्ये गेययोगेन केशवम् ॥ २६ ॥
अन्यं वा गेययोगेन गायन् यदि स मे भवेत् ।
वध्यः सर्वात्मना तस्माद्वेदै रीड्यः परः पुमान् ॥ २७ ॥
गानयोगेन सर्वत्र स्त्रियो गायन्तु नित्यशः ।
सूतमागधसङ्घाश्च गीतं ते कारयन्तु वै ॥ २८ ॥
इत्यज्ञाप्य महातेजा राज्यं वै पर्यपालयत् ।
तस्य राज्ञः पुराभ्याशे हरिमित्र इति श्रुतः ॥ २९ ॥
ब्राह्मणो विष्णुभक्तश्च सर्वद्वन्द्वविवर्जितः ।
नदीपुलिनमासाद्य प्रतिमां च हरेः शुभाम् ॥ ३० ॥
अभ्यर्च्य च यथान्यायं घृतदध्युत्तरं बहु ।
मिष्टान्नं पायसं दत्त्वा हरेरावेद्य पूपकम् ॥ ३१ ॥
प्रणिपत्य यथान्यायं तत्र विन्यस्तमानसः ।
अगायत हरिं तत्र तालवर्णलयान्वितम् ॥ ३२ ॥
अतीव स्नेहसंयुक्तस्तद्गतेनान्तरात्मना ।
ततो राज्ञः समादेशाच्चारास्तत्र समागताः ॥ ३३ ॥
तदर्चनादि सकलं निर्धूय च समन्ततः ।
ब्राह्मणं तं गृहीत्वा ते राज्ञे सम्यङ्न्यवेदयन् ॥ ३४ ॥
ततो राजा द्विजश्रेष्ठं परिभर्त्स्य सुदुर्मतिः ।
राज्यान्निर्यातयामास हृत्वा सर्वं धनादिकम् ॥ ३५ ॥
प्रतिमां च हरेश्चैव म्लेच्छा हृत्वा ययुः पुनः ।
ततः कालेन महता कालधर्ममुपेयिवान् ॥ ३६ ॥
स राजा सर्वलोकेषु पूज्यमानः समन्ततः ।
क्षुधार्तश्च तथा खिन्नो यममाह सुदुःखितः ॥ ३७ ॥
क्षुत्तृट् च वर्तते देव स्वर्गतस्यापि मे सदा ।
मया पापं कृतं किं वा किं करिष्यामि वै यम ॥ ३८ ॥
॥ यम उवाच ॥
त्वया हि सुमहत्पापं कृतमज्ञानमोहतः ।
हरिमित्रं प्रति तदा वासुदेवपरायणम् ॥ ३९ ॥
हरिमित्रे कृतं पापं वासुदेवार्चनादिषु ।
तेन पापेन सम्प्राप्तः क्षुद्रोगस्त्वां सदा नृप ॥ ४० ॥
दानयज्ञादिकं सर्वं प्रनष्टं ते नराधिप ।
गीतवाद्यसमोपेतं गायमानं महामतिम् ॥ ४१ ॥
हरिमित्रं समाहूय हृतवानसि तद्धनम् ।
उपहारादिकं सर्वं वासुदेवस्य सन्निधौ ॥ ४२ ॥
तव भृत्यैस्तदा लुप्तं पापं चक्रुस्त्वदाज्ञया ।
हरेः कीर्तिं विना चान्यद् ब्राह्मणेन नृपोत्तम ॥ ४३ ॥
न गेययोगे गातव्यं तस्मात्पापं कृतं त्वया ।
नष्टस्ते सर्वलोकोद्य गच्च पर्वतकोटरम् ॥ ४४ ॥
पूर्वोत्सृष्टं स्वदेहं तं खादन्नित्यं निकृत्य वै ।
तस्मिन् कोणे त्विमं देहं खादन्नित्यं क्षुधान्वितः ॥ ४५ ॥
महानिरयसंस्थस्त्वं यावन्मन्वन्तरं भवेत् ।
मन्वन्तरे ततोऽतीते भूम्यां त्वं च भविष्यसि ॥ ४६ ॥
ततः कालेन सम्प्राप्य मानुष्यमवगच्छसि ।
॥ गानबन्धुरुवाच ॥
एवमुक्त्वा यमो विद्वांस्तत्रैवान्तरधीयत ॥ ४७ ॥
हरिमित्रो विमानेन स्तूयमानो गणाधिपैः ।
विष्णुलोकं गतः श्रीमान् सङ्गृह्य गमबान्धवान् ॥ ४८ ॥
भुवनेशो नृपो ह्यस्मिन् कोटरे पर्वतस्य वै ।
खादमानः शवं नित्यमास्ते क्षुत्तृट्समन्वितः ॥ ४९ ॥
अद्राक्षं तं नृपं तत्र सर्वमेतन्ममोक्तवान् ।
समालोक्याहमाज्ञाय हरिमित्रं समेयिवान् ॥ ५० ॥
विमानेनार्कवर्णेन गच्छन्तममरैर्वृतम् ।
इन्द्रद्युम्नप्रसादेन प्राप्तं मे ह्यायुरुत्तमम् ॥ ५१ ॥
तेनाहं हरिमित्रं वै दृष्टवानस्मि सुव्रत ।
तदैश्वर्यप्रभावेन मनो मे समुपागतम् ॥ ५२ ॥
गानविद्यां प्रति तदा किन्नरैः समुपाविशम् ।
षष्टिं वर्षसहस्राणां गानयोगेन मे मुने ॥ ५३ ॥
जिह्वा प्रसादिता स्पष्टा ततो गानमशिक्षयम् ।
ततस्तु द्विगुणेनैव कालेनाभूदियं मम ॥ ५४ ॥
गानयोगसमायुक्ता गता मन्वन्तरा दश ।
गानाचार्योऽभवं तत्र गन्धर्वाद्याः समागताः ॥ ५५ ॥
एते किन्नरसङ्घा वै मामाचार्यमुपागताः ।
तपसा नैव शक्या वै गानविद्या तपोधन ॥ ५६ ॥
तस्माच्छ्रुतेन संयुक्तो मत्तस्त्वं गानमाप्नुहि ।
एवमुक्तो मुनिस्तं वै प्रणिपत्य जगौ तदा ॥ ५७ ॥
तच्छृणुष्व मुनिश्रेष्ठ वासुदेवं नमस्य तु ।
॥ मार्कण्डेय उवाच ॥
उलूकेनैवमुक्तस्तु नारदो मुनिसत्तमः ॥ ५८ ॥
शिक्षाक्रमेण संयुक्तस्तत्र गानमाशिक्षयत् ।
गानबन्धुस्तदाहेदं त्यक्तलज्जो भवाधुना ॥ ५९ ॥
॥ उलूक उवाच ॥
स्त्रीसङ्गमे तथा गीते द्यूते व्याख्यानसङ्गमे ।
व्यवहारे तथाहारे त्वर्थानां च समागमे ॥ ६० ॥
आये व्यये तथा नित्यं त्यक्तलज्जस्तु वै भवेत् ।
न कुञ्चितेन गूढेन नित्यं प्रावरणादिभिः ॥ ६१ ॥
हस्तविक्षेपभावेन व्यादितास्येन चैव हि ।
निर्यातजिह्वायोगेन न गेयं हि कथञ्चन ॥ ६२ ॥
न गायेदूर्ध्वबाहुश्च नोर्ध्वदृष्टिः कथञ्चन ।
स्वाङ्गं निरीक्षमाणेन परं सम्प्रेक्षता तथा ॥ ६३ ॥
संघट्टे च तथोत्थाने कटिस्थानं न शस्यते ।
हासो रोषस्तथा कम्पस्तथान्यत्र स्मृतिः पुनः ॥ ६४ ॥
नैतानि शस्तरूपाणि गानयोगे महामते ।
नैकहस्तेन शक्यं स्यात्तालसंघट्टनं मुने ॥ ६५ ॥
क्षुधार्त्तेन भयार्तेन तृष्णार्तेन तथैव च ।
गानयोगो न कर्तव्यो नान्धकारे कथञ्चन ॥ ६६ ॥
एवमादीनि चान्यानि न कर्तव्यानि गायता ।
॥ मार्कण्डेय उवाच ॥
एवमुक्तः स भगवान् स्तेनोक्तैर्विधिलक्षणैः ।
अशिक्षयत्तथा गीतं दिव्यं वर्षसहस्रकम् ॥ ६७ ॥
ततः समस्तसम्पन्नो गीतप्रस्तारकादिषु ।
विपञ्च्यादिषु सम्पन्नः सर्वस्वरविभागवित् ॥ ६८ ॥
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ।
स्वराणां भेदयोगेन ज्ञातवान् मुनिसत्तमः ॥ ६९ ॥
ततो गन्धर्वसङ्घाश्च किन्नराणां तथैव च ।
मुनिना सह संयुक्ताः प्रीतियुक्ता भवन्ति ते ॥ ७० ॥
गानबन्धुं मुनिः प्राह प्राप्य गानमनुत्तमम् ।
त्वां समासाद्य सम्पन्नस्त्वं हि गीतविशारदः ॥ ७१ ॥
ध्वाङ्क्षशत्रो महाप्राज्ञ किमाचार्य करोमि ते ।
॥ गानबन्धुरुवाच ॥
ब्रह्मणो दिवसे ब्रह्मन् मनवस्तु चतुर्दश ॥ ७२ ॥
ततस्त्रै लोक्यसम्प्लावो भविष्यति महामुने ।
तावन्मे त्वायुषो भावस्तावन्मे परमं शुभम् ॥ ७३ ॥
मनसाध्याहितं मे स्याद्दक्षिणा मुनिसत्तम ।
॥ नारद उवाच ॥
अतीतकल्पसंयोगे गरुडस्त्वं भविष्यसि ॥ ७४ ॥
स्वस्ति तेऽस्तु महाप्राज्ञ गमिष्यामि प्रसीद माम् ।
॥ मार्कण्डेय उवाच ॥
एवमुक्त्वा जगामथ नारदोपि जनार्दनम् ॥ ७५ ॥
श्वेतद्वीपे हृषीकेशं गापयामास गीतकान् ।
तत्र श्रुत्वा तु भगवान्नारदं प्राह माधवः ॥ ७६ ॥
तुम्बरोर्न विशिष्टोसि गीतैरद्यापि नारद ।
यदा विशिष्टो भविता तं कालं प्रवदाम्यहम् ॥ ७७ ॥
गानबन्धुं समासाद्य गानार्थज्ञो भवानसि ।
मनोर्वैवस्वतस्याहमष्टाविंशतिमे युगे ॥ ७८ ॥
द्वांपरान्ते भवष्यामि युदवंशकुलोद्भवः ।
देवक्यां वसुदेवस्य कृष्णो नाम्ना महामते ॥ ७९ ॥
तदानीं मां समासाद्य स्मारयेथा यथातथम् ।
तत्र त्वां गीतसम्पन्नं करिष्यामि महाव्रतम् ॥ ८० ॥
तुम्बरोश्च समं चैव तथातिशयसंयुतम् ।
तावत्कालं यथायोगं देवगन्धर्वयोनिषु ॥ ८१ ॥
शिक्षयस्व यथान्यायमित्युक्त्वान्तरधीयत ।
ततो मुनिः प्रणम्यैनं वीणावादनतत्परः ॥ ८२ ॥
देवर्षिर्देवसङ्काशः सर्वाभरणभूषितः ।
तपसां निधिरत्यन्तं वासुदेवपरायणः ॥ ८३ ॥
स्कन्धे विपञ्चीमासाद्य सर्वलोकांश्चचार सः ।
वारुणं याम्यमाग्नेयमैद्रं कौबेरमेव च ॥ ८४ ॥
वायव्यं च तथेशानं संसदं प्राप्य धर्मवित् ।
गायमानो हरिं सम्यग्वीणावादविचक्षणः ॥ ८५ ॥
गन्धर्वाप्सरसां सङ्घैः पूज्यमानस्ततस्ततः ।
ब्रह्मलोकं समासाद्य कस्मिंश्चित्कालपर्यये ॥ ८६ ॥
हाहाहूहूश्च गन्धर्वौ गीतवाद्यविशारदौ ।
ब्रह्मणो गायकौ दिव्यौ नित्यौ गन्धर्वसत्तमौ ॥ ८७ ॥
तत्र ताभ्यां समासाद्य गायमानो हरिं प्रभुम् ।
ब्रह्मणा च महातेजाः पूजितो मुनिसत्तमः ॥ ८८ ॥
तं प्रणम्य महात्मानं सर्वलोकपितामहम् ।
चचार च यथाकामं सर्वलोकेषु नारदः ॥ ८९ ॥
ततः कालेन महता गृहं प्राप्य च तुम्बरोः ।
वीणामादाय तत्रस्थो ह्यगायत महामुनिः ॥ ९० ॥
स्वरकल्पास्तु तत्रस्थाः षड्जाद्याः सप्त वै मताः ।
क्रीडतो भगवान्दृष्ट्वा निर्गतश्च सुसत्वरम् ॥ ९१ ॥
शिक्षयामास बहुशस्तत्र तत्र महामतिः ।
श्रमयोगेन संयुक्तो नारदोऽपि महामुनिः ॥ ९२ ॥
सप्तस्वराङ्गनाः पश्यन् गानविद्याविशारदः ।
आसीद्वीणा समायोगे न तास्तन्त्र्यः प्रपेदिरे ॥ ९३ ॥
ततो रवैतके कृष्णं प्रणिपत्य महामुनिः ।
विज्ञापयदशेषं तु श्वेतद्वीपे तु यत्पुरा ॥ ९४ ॥
नारायणेन कथितं गानयोगमनुत्तमम् ।
तच्छ्रुत्वा प्राहसन् कृष्णः प्राह जाम्बवतीं मुदा ॥ ९५ ॥
एतं मुनिवरं भद्रे शिक्षयस्व यथाविधि ।
वीणागान समायोगे तथेत्युक्त्वा च सा हरिम् ॥ ९६ ॥
प्रहसन्ती यथायोगं शिक्षयामास तं मुनिम् ।
ततः संवत्सरे पूर्णे पुनरागम्य माधवम् ॥ ९७ ॥
प्रणिपत्याग्रतस्तस्थौ पुनराह स केशवः ।
सत्यां समीपमागच्छ शिक्षयस्व यथाविधि ॥ ९८ ॥
तथेत्युक्त्वा सत्यभामां प्रणिपत्य जगौ मुनिः ।
तया स सिक्षितो विद्वान् पूर्णे संवत्सरे पुनः ॥ ९९ ॥
वासुदेवनियुक्तोऽसौ रुक्मिणीसदनं गतः ।
अङ्गनाभिस्ततस्ताभिर्दासीभिर्मुनिसत्तमः ॥ १०० ॥।
उक्तोऽसौ गायमानोपि न स्वरं वेत्सि वै मुने ।
ततः श्रमेण महता वत्सरत्रयसंयुतम् ॥ १०१ ॥
शिक्षितोऽसौ तदा देव्या रुक्मिण्यापि जगौ मुनिः ।
ततः स्वराङ्गनाः प्राप्यः तन्त्रीयोगं महामुनेः ॥ १०२ ॥
आहूय कृष्णो भगवान् स्वयमेव महामुनिम् ।
अशिक्षयदमेयात्मा गानयोगमनुत्तमम् ॥ १०३ ॥
ततोऽतिशयमापन्नस्तुम्बरोर्मुनिसत्तमः ।
ततो ननर्त देवर्षिः प्रणिपत्य जनार्दनम् ॥ १०४ ॥
उवाच च हृषीकेशः सर्वज्ञस्त्वं महामुने ।
प्रहस्य गानयोगेन गायस्व मम सन्निधौ ॥ १०५ ॥
एतत्ते प्रार्थितं प्राप्तं मम लोके तथैव च ।
नित्यं तुम्बरुणा सार्धं गायस्व च यथातथम् ॥ १०६ ॥
एवमुक्तो मुनिस्तत्र यथायोगं चचार सः ।
यदा सम्पूजयन् कृष्णो रुद्रं भुवननायकम् ॥ १०७ ॥
तदा जगौ हरेस्तस्य नियोगाच्छङ्कराय वै ।
रुक्मिण्या सह सत्या च जाम्बवत्या महामुनिः ॥ १०८ ॥
कृष्णेन च नृपश्रेष्ठ श्रुतिजातिविशारदः ।
एष वो मुनिशार्दूलाः प्रोक्तो गीतक्रमो मुनेः ॥ १०९ ॥
ब्राह्मणो वासुदेवाख्यां गायमानो भृशं नृप ।
हरेः सालोक्यमाप्नोति रुद्रगानोऽधिको भवेत् ॥ ११० ॥
अन्यथा नरकं गच्छेद्गायमानोऽन्यदेव हि ।
कर्मणा मनसा वाचा वासुदेवपरायणः ॥ १११ ॥
गायन् शृण्वंस्तमाप्नोति तस्माद्गेयं परं विदुः ॥ ११२ ॥
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे वैष्णवगीतकथनं नाम तृतीयोऽध्यायः ॥ ३ ॥

अध्याय का हिन्दी भावार्थ देखने के लिये क्लिक करें - 

श्रीलिङ्गमहापुराण -[उत्तरभाग]-अध्याय-03

कोई टिप्पणी नहीं:

123